{"stem":"कमलाकर","iast":"kamalākara","found":true,"koshas":2,"places":[{"kosha":"KDKS","kosha_title":"कल्पद्रुकोशः","kosha_latn":"Kalpadrukośa","ref":"2.5.35","page":"0421","kind":"syn","gender":"पुं","doubtful":false,"verse":["खण्डैर्ध्रुवा भवन्त्येवं षड्विंशत्यादितः क्रमात् ।","कमलाकरः कलापः कामश्चैवात्र सुन्दरः ॥ ३५ ॥"],"metre":"anustubh","metre_status":"partial","flags":[{"rule":"metre","found":"anustubh · pāda 1 syl. 4 क (sub)"}],"url":"https://kosha.sanskrit.site/k/KDKS#KDKS.2.5.35","synonyms":["कलाप","काम","सुन्दर"]},{"kosha":"SRMS","kosha_title":"शब्दरत्नावली","kosha_latn":"Śabdaratnāvalī","ref":"7.20.57","page":"0238","kind":"artha","gender":null,"doubtful":false,"verse":["तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।","दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥","दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।","दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥","दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।","दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥","देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।","अक्षेषु देवनः पुंसि सेवायामपि देवना ॥","ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।","धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥","धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।","धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥","धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।","धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥","धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।","नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥","नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।","नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥","नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।","अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥","निदानं वत्सदामादिकारणे क्षयकारणे ।","निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥","पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।","स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥","प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।","एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥","पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।","प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥","प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।","पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥","पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।","स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥","पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।","पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥"],"metre":null,"metre_status":"none","flags":[{"rule":"metre","found":"anustubh · pāda 2 syl. None स्त्राध्मापकक्रूरयोस्त्रिषु (extra_in_pada)"},{"rule":"metre","found":"anustubh · pāda 2 syl. 3 प्र (sub)"},{"rule":"metre","found":"anustubh · pāda 4 syl. 3 न (sub)"},{"rule":"metre","found":"anustubh · pāda 2 syl. 3 व (sub)"},{"rule":"metre","found":"anustubh · pāda 2 syl. 3 ल्क (sub) pāda 4 syl. 3 च (sub)"}],"url":"https://kosha.sanskrit.site/k/SRMS#SRMS.7.20.57","head":"नलिनी"},{"kosha":"SRMS","kosha_title":"शब्दरत्नावली","kosha_latn":"Śabdaratnāvalī","ref":"7.20.127","page":"0246","kind":"artha","gender":null,"doubtful":false,"verse":["सदादानो गन्धहस्तिन्यैरावतगणेशयोः ।","सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥","समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च ।","सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥","समापनं परिच्छेदप्रमापनसमाप्तिषु ।","सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥","सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् ।","स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥","सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् ।","समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥","संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् ।","भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥","सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् ।","सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥","क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् ।","सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥","सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः ।","सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥","सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥"],"metre":null,"metre_status":"none","flags":[{"rule":"metre","found":"anustubh · pāda 3 syl. 3 द (sub)"},{"rule":"metre","found":"anustubh · pāda 1 syl. 3 म (sub)"},{"rule":"metre","found":"anustubh · pāda 2 syl. 3 द (sub)"}],"url":"https://kosha.sanskrit.site/k/SRMS#SRMS.7.20.127","head":"सरोजिनी"}],"truncated":false,"source":"Vidyāsthāna Kośa, https://kosha.sanskrit.site"}