{"stem":"पाणियुग","iast":"pāṇiyuga","found":true,"koshas":1,"places":[{"kosha":"LVVV","kosha_title":"लिङ्गविशेषविधि","kosha_latn":"Liṅgaviśeṣavidhi","ref":"41","page":"0012","kind":"syn","gender":"पुं","doubtful":true,"verse":["विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।","मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।","पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥"],"metre":null,"metre_status":"none","flags":[],"url":"https://kosha.sanskrit.site/k/LVVV#LVVV.0.0.44","synonyms":["हालाहल","कालकूट","ब्रह्मपुत्र","विष","तिथि","अतिथि","शकृत्","नीत","शोणित","दिन","अहन्","दिवस","त्विष्","उडु","तारा","समा","वर्षा"]},{"kosha":"LVVV","kosha_title":"लिङ्गविशेषविधि","kosha_latn":"Liṅgaviśeṣavidhi","ref":"42","page":"0012","kind":"syn","gender":"पुं","doubtful":true,"verse":["दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् ।","भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य ।","ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥"],"metre":null,"metre_status":"none","flags":[],"url":"https://kosha.sanskrit.site/k/LVVV#LVVV.0.0.45","synonyms":["दिवस","वासर","घस्र","सूर्यकर","दिन","अहन्","त्विष्","उडु","तारा"]}],"truncated":false,"source":"Vidyāsthāna Kośa, https://kosha.sanskrit.site"}