{"stem":"पादग्रन्थि","iast":"pādagranthi","found":true,"koshas":2,"places":[{"kosha":"LVVV","kosha_title":"लिङ्गविशेषविधि","kosha_latn":"Liṅgaviśeṣavidhi","ref":"17","page":"0003","kind":"syn","gender":"पुं","doubtful":false,"verse":["ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।","अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । \"पदरुजवेगस्पृशो घञि\"त्येवमादिना प्रकरणे घञो विहित इति । \"येन विधिस्तदन्तस्ये\"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । \"एरजि\"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा \"ऋदोरप्\" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । \"नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।\"","प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।","जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥"],"metre":"vasantatilaka","metre_status":"partial","flags":[],"url":"https://kosha.sanskrit.site/k/LVVV#LVVV.0.0.18","synonyms":["ऊर्मि","तरङ्ग","ध्वनि","शब्द","अञ्जलि","करपुट","ओष्ठ","अधर","दन्तच्छद","कपोल","गण्ड","गुल्फ","घुठ","घूंठ","पाद","रोग","वेग","स्पर्श","पाक","त्याग","योग","प्रसाद","भेद","छेद","दाह","दोष","प्रकार","विकार","जय","नय","कर","वर","भर","शर","नर","प्लव","पव","भव","अन्धकार","वस्ति","कुक्षि","पाणि","जङ्घा","शिरा","स्नुषा","नासिका","चूडा","वसा"]},{"kosha":"SRMS","kosha_title":"शब्दरत्नावली","kosha_latn":"Śabdaratnāvalī","ref":"3.5.267","page":"0100","kind":"syn","gender":"पुं","doubtful":false,"verse":["द्वेऽस्त्रियां चरणः पादः पदङ्घ्रिरङ्घ्रिरित्यपि ।","घुटिका स्याद्घुटो गुल्फः पादग्रन्थिर्घुटिर्घुटी ॥"],"metre":"anustubh","metre_status":"partial","flags":[{"rule":"metre","found":"anustubh · pāda 2 syl. 3 ङ्घ्रि (sub)"}],"url":"https://kosha.sanskrit.site/k/SRMS#SRMS.3.5.267","synonyms":["चरण","पाद","पद","अङ्घ्रि","घुटिका","घुट","गुल्फ","घुटि","घुटी"]}],"truncated":false,"source":"Vidyāsthāna Kośa, https://kosha.sanskrit.site"}