All kośas › Avyayakośa
अव्ययकोश Avyayakośa
75 verses · text only, tagging comes next
Part 1
गणेशाय नमः ॥
अथ अव्ययकोशप्रारम्भः ॥
गजानन नमस्तेऽस्तु कार्य(?)विघ्नहरे नमः ।विश्वस्याकहरे हारे सर्वलोकशिवङ्करम् ॥ १ ॥
1 · p. 1
अनुष्टुप्
श्रीयुक्तं(?) परमानन्दं वन्दे स्वानन्दविग्रहम् ।यस्य सान्निध्यमात्रेण चिदानंदा(?)यते वपुः ॥ २ ॥
2 · p. 1
अनुष्टुप्
अव्ययार्थप्रकाशं श्रीमहादेवः कृती सुधीः ।सिद्धान्तकौमुदीं तत्त्वबोधिनीं सुमनोरमाम् ॥ ३ ॥
3 · p. 1
अनुष्टुप्
पुराणकाव्यकोशादीन् समालोच्य गुरूक्तितः ।वित्पित्सूनां प्रतनुते बालानां बोधसिद्धये ॥ ४ ॥
4 · p. 1
अनुष्टुप्
क्व च मत्सदृशो मन्दः क्व चेयं कृतिरद्भुता ।गङ्गाधरपदाम्भोजकृपया कृतये विभुः ॥ ५ ॥
5 · p. 1
अनुष्टुप्
स्वः स्वर्गे परलोके स्यादुच्चैर्महति सूरिभिः ।नीचैर्मनाक्किंचिदीषदेतान्यल्पे मनीषिभिः ॥ ६ ॥
6 · p. 1
अनुष्टुप्
जोषं मौने सुखे च स्यादाराद्दूरसमीपयोः ।ऋते माकिर्मकिर्माकीमन्तरेण हि रुक्विना ॥ ८ ॥
8 · p. 1
अनुष्टुप्
अन्तरा च पृथक् वर्जे पादपूर्तौ तु क स्मृतम् ।चिरेण चिररान्नाय चिरस्य च चिराय च ॥ ९ ॥
9 · p. 1
अनुष्टुप्
चि(?)रं चिराद्दीर्घकाले प्रोक्तं कं वारि मूर्धनि ।पुनोऽज्वधारणे धीरैर्विशेषाप्रथमार्थयोः ॥ १० ॥
10 · p. 1
अनुष्टुप्
अवो बहिश्च बाह्यर्थे प्रागतीतार्थकं मतम् ।मध्ये समीपे समया तुल्यार्थे विप्रवत्स्मृतम् ॥ ११ ॥
11 · p. 1
अनुष्टुप्
कृथामु---धौ व्यर्थे निन्दाभर्त्सनयोश्च धिक् ।नक्तं रात्रावुषा दोषा निशि -क्तानि सूरिभिः ॥ १२ ॥
12 · p. 1
metre not recognised
नानोननना सम्बन्धे निषेधार्थे मनीषिभिः ।प्रादुरिद्धाविरेतानि प्रकाशे नाम्नि सूरिभिः ॥ १३ ॥
13 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
अर्धे जुगुप्सिते समि प्रेत्यामुत्र भवान्तरे ।स्फुटेऽवधारणे तत्त्वेऽर्चाऽद्धा प्रोक्तं मनीषिभिः ॥ १४ ॥
14 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स (wrong syllable)
निषेधाशङ्कयोर्नाम नूनं तर्केऽर्थनिश्चये ।सनात्सनत्सना नित्ये कदर्थे कुत्सिते कु- ॥ १५ ॥
15 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शीघ्रार्थकालभूयस्त्वाधुनार्थप्रश्नकेषु ज्योक् ।अकस्मिके विमर्शे च सहसोक्तं मनीषिभिः ॥ १६ ॥
16 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 षु (wrong syllable)
अह्नाय द्राक् शुकं मंक्षु झटिति झागिति द्रुते ।आशु सद्यः सपद्युक्तं त्वै विशेषविकर्तयोः ॥ १७ ॥
17 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
मौने तु तुष्णीं तूष्णीकं प्रोक्तं सायं निशामुखे ।अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ १८ ॥
18 · p. 1
अनुष्टुप्
उपांशु चाप्रकाशे वा उच्चारणरहस्ययोः ।प्रोक्तं मिथो मिथोऽन्योन्ये सहार्थे च रहस्यपि ॥ १९ ॥
19 · p. 2
अनुष्टुप्
ऊर्ध्वार्थे समकाले च प्रबाहुकं प्रवाहिका ।अनुकं द्वै वितर्के च त्वञ्जसा शैघ्रतत्त्वयोः ॥ २० ॥
20 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हु (wrong syllable)
ख्यातानेकार्थके सत्त्वा साकं सार्द्धं समं सह ।अन्तिके निकषा धीरैः कूपत्प्रश्नप्रशंसयोः ॥ २१ ॥
21 · p. 2
अनुष्टुप्
सादृश्या नवक्लृप्त्योश्च त्ववधारणसाम्ययोः ।शश्वन्नित्ये सहार्थेऽपि त्वाधिक्ये चावधारणे ॥ २३ ॥
23 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
विशेषे प्रथमार्थेऽपि न्वैरे दाने त्वनादरे ।एवावधारणे साम्यार्नवक्लृप्त्योर्मनीषिभिः ॥ २४ ॥
24 · p. 2
अनुष्टुप्
अमङ्गीकार उक्तं ज्ञेरङ्गीकारे तु चाम् स्मृतम् ।प्रतिषेधे विचारेऽपि नेत्समुच्चयशङ्कयोः ॥ २६ ॥
26 · p. 2
अनुष्टुप्
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारके ।समुच्चये प्रतिज्ञायामथाथो च प्रकीर्तिताः ॥ २७ ॥
27 · p. 2
अनुष्टुप्
हुं कुत्सनायां वार्तायामलीकेऽपि किल स्मृतम् ।अवर्षे नवक्लृप्तौ च गर्हायां यत्र कीर्तितम् ॥ २८ ॥
28 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
पादपूर्तावतीते स्म प्र- चानुनये त्वपि ।हन्त हर्षेऽनुकम्पायां वाक्यारम्भविवादयोः ॥ २९ ॥
29 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निषेधवाक्यालङ्कारजिज्ञासानुनये खलु ।उपक्रमे च हिंसायां कुत्सने त्वादह स्मृतम् ॥ ३० ॥
30 · p. 2
अनुष्टुप्
प्रातः प्रभात उपधाभेदे प्रोक्ता नतौ नमः ।अन्तर्मध्ये रुषोक्तावा अहो आमन्त्रणेऽद्भुते ॥ ३१ ॥
31 · p. 2
अनुष्टुप्
अन्तर्द्धाने तु सनुतः क्रियामान्द्ये शनै स्मृतम् ।द्यतु प्रोक्तं प्रातिलोम्ये पादपूरणहिंसयोः ॥ ३२ ॥
32 · p. 2
अनुष्टुप्
स्वाहा देवहविर्दाने श्रैषड्वौषड्वषट्स्वधा ।अन्यार्थेऽन्यत् क्षमा क्षान्तौ शम्बट् चिताभिमुख्ययोः ॥ ३३ ॥
33 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable)
ग्लानौ प्रतां समानार्थे प्रशान्त्विस्तारके प्रशान् ।बलात्कारे चार्यहलं विहसा विपदर्थके ॥ ३४ ॥
34 · p. 2
अनुष्टुप्
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ।सुकं प्रकामं बलवद्विकल्पेऽतिशये समाः ॥ ३६ ॥
36 · p. 2
अनुष्टुप्
नित्यं त्वजस्रमनिशं सन्ततं नित्यदा समाः ।सातत्यार्थे पृथिव्यां भूरं तरिक्षे भुव स्मृतम् ॥ ३७ ॥
37 · p. 2
अनुष्टुप्
रोदसी द्योपृथिव्यर्थे निन्दायां दुष्टु कीर्तितम् ।अङ्गीकारे ब्रह्मणि च मतमोतु प्रकीर्तितम् ॥ ३८ ॥
38 · p. 2
अनुष्टुप्
प्रशंसायां विकल्पे च सुष्ठु प्रोक्तं मनीषिभिः ।न्याय्ये द्वे साम्प्रतं स्थाने नाशेऽस्तमतिनिर्भरे ॥ ३९ ॥
39 · p. 3
अनुष्टुप्
पूजनेऽपि सु च प्रोक्तं साक्षात्प्रत्यक्षतुल्ययोः ।साचि प्रोक्तं तिर्यगर्थ उत्कर्षे वरष स्मृतम् ॥ ४० ॥
40 · p. 3
अनुष्टुप्
विततार्थे मृथा मिथ्या यथार्थं तु यथातथम् ।हंहोऽद्भुतार्थके प्रोक्तं सादृश्ये व स्मृतं बुधैः ॥ ४१ ॥
41 · p. 3
अनुष्टुप्
संवद्वर्षेऽवरे त्वर्वाग्यथास्वं तु यथातथम् ।निष्यमं दुष्य- गर्ह्ये त्ववश्यं निश्चये स्मृतम् ॥ ४२ ॥
42 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आनुषक् त्वनुमानार्थे शुक्लपक्षे सुदि स्मृतम् ।कृष्णपक्षे वदि प्रोक्तं प्रत्यारम्भे नह स्मृतम् ॥ ४३ ॥
43 · p. 3
अनुष्टुप्
पादपूर्तौ प्रसिद्धौ ह क्वचित्कामप्रवेदने ।प्रतीच्यां चरमे पश्चात् निर्देशार्थे तथा हि तु ॥ ४४ ॥
44 · p. 3
अनुष्टुप्
अवदत्तं प्रदाने स्यात्सम्यगर्थे पशु स्मृतम् ।हेतौ च --चेत् द्युद्यदि च पक्षान्तरमिनित्तयोः ॥ ४५ ॥
45 · p. 3
अनुष्टुप्
परिप्रश्ने वितर्के च भर्त्सने हुं प्रकीर्तितम् ।चटु चाटु प्रिये वाक्ये सादृश्यार्थ इव स्मृतम् ॥ ४६ ॥
46 · p. 3
अनुष्टुप्
आङीषदर्शेऽभिव्याप्तौ सीमाधात्वर्थयोगयोः ।मर्यादायां स्मृतं सद्भिरा तु स्मरणवाक्ययोः ॥ ४७ ॥
47 · p. 3
अनुष्टुप्
सम्बोधननिषेधार्थाधिक्षेपेषु मनीषिभिः ।आस्तु कोपे च पीडायामिति विस्मयजुगुप्सयोः ॥ ४८ ॥
48 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 मिति (syllable split)
ओ प्याट् पाडङ्ग हे है भो ई औ ए ऐ उ ऊ भगोः ।अये द्योस्त्विति सम्बुद्धौ लङ्घनेऽतीवनिर्भरे ॥ ४९ ॥
49 · p. 3
अनुष्टुप्
प्रकर्षार्थेऽपि पूजायामिति स्वित्प्रश्नतर्कयोः ।चान्वाचयो समाहार इतरेतरयोगके ॥ ५० ॥
50 · p. 3
अनुष्टुप्
समुच्चये पादपूर्तावानन्दे विस्मये स्मृतम् ।अर्धाङ्गीकारके सत्यमसा सहसमीपयोः ॥ ५१ ॥
51 · p. 3
अनुष्टुप्
कुत्सेषदर्थे पाके कु किं पृच्छायां जुगुप्सने ।मङ्गलाशीःक्षेपपुण्ये स्वस्ति प्रोक्तं मनीषिभिः ॥ ५२ ॥
52 · p. 3
अनुष्टुप्
प्रश्नावधारनानुज्ञानुनयामन्त्रणेष्वपि ।विरोधोक्तौ ननु प्रोक्तं वितर्कप्रश्नयोर्नु च ॥ ५४ ॥
54 · p. 3
अनुष्टुप्
स्यात्प्रबन्धचिरातीते विकटागामिके पुरा ।अत्वरिते समाख्यातं विशेषाप्रथमार्थयोः ॥ ५६ ॥
56 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
इत्थंभूताख्यानके च वीप्सालक्षणभागके ।अभि प्रोक्तं च विद्वद्भिर्वर्जने त्वप कीर्तितम् ॥ ५७ ॥
57 · p. 3
अनुष्टुप्
इत्थंभूताख्यानके च वीप्सालक्षणभागके ।वर्जने च परि प्रोक्तमुप हीनेऽधिके बुधैः ॥ ५८ ॥
58 · p. 4
अनुष्टुप्
प्रथमे त्वरिते ख्यातं निकटागामिकेऽग्रतः ।इत्थंभूताख्यानके च वीप्क्षालक्षणभागके ॥ ५९ ॥
59 · p. 4
अनुष्टुप्
प्रतिदाने प्रतिनिधौ प्रति प्रोक्तं मनीषिभिः ।इत्थंभूताख्यानके च वीप्सालक्षणभागके ॥ ६० ॥
60 · p. 4
अनुष्टुप्
प्रतीच्यां चरमे हीने सादृशेऽनु मनीषिभिः ।गर्हासमुच्चये प्रश्ने शङ्कासम्भावनास्वपि ॥ ६१ ॥
61 · p. 4
अनुष्टुप्
गर्हासमुच्चये प्रश्ने शङ्कासम्भावने सु च ।विकल्प उत सङ्ख्यातमेव इत्येत्थमर्थयोः ॥ ६२ ॥
62 · p. 4
अनुष्टुप्
साम्येऽवधारणे प्रोक्तं मत एव मनीषिभिः ।नाम प्रकाशसम्भाव्यक्रोधोपगमकुत्सने ॥ ६३ ॥
63 · p. 4
अनुष्टुप्
उरयूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् ।समीपो भवतः शीघ्रसाकल्याभिमुखेऽभितः ॥ ६४ ॥
64 · p. 4
अनुष्टुप्
तिरोऽन्तर्धौ तिर्यगर्थे निर्निश्चयनिषेधयोः ।यद्वा यथा तथा साम्ये धीरैर्हौ ही च विस्मये ॥ ६५ ॥
65 · p. 4
अनुष्टुप्
दिष्ट्या शमुपजोषं वा आनन्दे मास्म वारणे ।सकृत्सहैकवारे स्यादहहाऽद्भुतखेदयोः ॥ ६६ ॥
66 · p. 4
अनुष्टुप्
अवधारणहेत्वोश्च पत्पूर्तौ कोविदैः स्मृतम् ।यत्तद्यतस्ततो हेतावसकल्पे तु किञ्चन ॥ ६७ ॥
67 · p. 4
अनुष्टुप्
कदाचिज्जातु चैकार्थे हा विषादशुगार्तिषु ।अनुकूल्यार्थकं प्राध्वं प्रसह्य तु प्रगृह्य तु ॥ ६८ ॥
68 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्य (wrong syllable)
हटार्थे च समाख्याते विशेषाप्रथमार्थयोः ।अङ्गावधारणे प्रोक्तं विकल्पे किं किमु द्यु च ॥ ६९ ॥
69 · p. 4
अनुष्टुप्
अहोताहो किमुत प्रोक्तान्येतानि सूरिभिः ।समन्ततस्तु परिभिः सर्वतो विष्वगिष्वपि ॥ ७० ॥
70 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उभयेद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ।ह्योऽतीतेऽनागतेऽह्निश्च परश्वस्तु परेऽहनि ॥ ७२ ॥
72 · p. 4
अनुष्टुप्
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्ययादयः ।अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरा परा ॥ ७३ ॥
73 · p. 4
अनुष्टुप्
श्रीमदव्ययकोशं हि सतां सन्तोषकारकम् ।पठतामपि मन्दानां ज्ञानं भवति निश्चितम् ॥ ७४ ॥
74 · p. 4
अनुष्टुप्
अम्ब त्वत्पदपङ्कजयोस्त्वत्कारितोऽर्पितोऽयं ग्रन्थोऽतः ।वित्पिस्तूनां भजतां ज्ञानं भूयात् प्रसादते ॥ ७५ ॥
75 · p. 4
metre not recognised