कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dvirūpakoṣa

द्विरूपकोष Dvirūpakoṣa

75 verses · text only, tagging comes next

Part 1

श्रीपुरुषोत्तमदेवविरचितः द्विरूपकोषः

भवेदाषाढ आशाढो विषुवद्विषुवं तथा ।मातुःष्वसा मातुःस्वसा कशायां कथितं कषा ॥ १ ॥
1 · p. 271
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तुः (wrong syllable)
शम्बरं संवरं प्रोक्तं कुशलं कुसलं तथा ।वासरो वाशरोऽपि स्याद् वशिष्ठोऽपि वसिष्ठकः ॥ २ ॥
2 · p. 271
अनुष्टुप्
मुषलो मुसलः प्रोक्तः शूकरः सूकरोऽपि च ।सृगालोऽपि शृगालः स्याच्छारः सारोऽपि सम्मतः ॥ ३ ॥
3 · p. 271
अनुष्टुप्
कोशः कोषोऽश्रु कथितमस्रु चापि सतां मतम् ।शण्डः षण्डस्तथाख्यातः सण्डोऽपि त्रिविधो मतः ॥ ४ ॥
4 · p. 271
अनुष्टुप्
शूरः सूरोऽपि चादित्ये विष्वग्विश्वक्स्मृतं बुधैः ।किसलयं किशलयं वसूकं वसुकं तथा ॥ ५ ॥
5 · p. 271
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
आलौ स्यादालिरप्येवं बाह्लीको बाह्लिको मतः ।गाण्डीवं गाण्डिवं प्रोक्तं पाण्डुरः पाण्डरस्तथा ॥ ६ ॥
6 · p. 271
अनुष्टुप्
पारावतः पारवतः कवाटं च कपाटकम् ।अन्त्यश्चान्तः सुखं सौख्यं नखं च नखरं स्मृतम् ॥ ७ ॥
7 · p. 271
अनुष्टुप्
वाल्मीको वाल्मिकश्चैव बालुका बालिका तथा ।मथुरा मधुरा प्रोक्ता कफोणिः कफणिस्तथा ॥ ॥ ८ ॥
8 · p. 271
अनुष्टुप्doubled daṇḍa: ॥ ॥
द्वार्द्वारमपि च प्रोक्तं सरिषपस्तु सर्षपः ।धूस्तूरी धूस्तुरः प्रोक्तस्त्वन्तिकाप्यत्तिका तथा ॥ ९ ॥
9 · p. 271
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
जमदग्निर्जामदग्निः करञ्जश्च कलिञ्जकः ।प्रतिकारः प्रतीकारो विहारादेर्द्विरूपता ॥ १० ॥
10 · p. 271
अनुष्टुप्
रजन्यवनिभूम्यादेर्द्वैरूप्यमपि दृश्यते ।अपोगण्डस्तु पोगण्डोऽप्यपिधानं पिधानकम् ॥ ११ ॥
11 · p. 271
अनुष्टुप्
अवतंसो वतंसश्च वहितोऽवहितस्तथा ।अर्य आर्यस्तथा प्रोक्तः खुरप्रश्च क्षुरप्रकः ॥ १२ ॥
12 · p. 271
अनुष्टुप्
जामातापि च यामाता जाया याया प्रकीर्तिता ।योषा जोषापि च ख्याता स्ववाशिन्यां सुवासिनी ॥ १३ ॥
13 · p. 271
अनुष्टुप्
कङ्गुः कङ्गूर्यवागुश्च यवागूरप्युदाहृता ।सुत्रामापि च सुत्त्रामा किङ्किणी किङ्कणी तथा ॥ १४ ॥
14 · p. 271
अनुष्टुप्
जातीफलं जातिफलं पष्ठीमधु मतं तथा ।तनुस्तनूर्हनुश्चैव पर्षच्च परिषत्तथा ॥ १५ ॥
15 · p. 272
अनुष्टुप्
अभ्रमब्भ्रमपि ख्यातं खानित्रं च खनित्रकम् ।धान्याकमपि धन्याकं खड्गी खड्गो द्विधा मतः ॥ १६ ॥
16 · p. 272
अनुष्टुप्
विरिञ्चिश्च विरञ्चोऽपि परशुः पर्शुरेव च ।पृषतः पृषदुद्दिष्टो वेश्या विष्यापि कीर्तिता ॥ १७ ॥
17 · p. 272
अनुष्टुप्
सुरापाणां सुरापानं भुजङ्गो भुजगो मतः ।तुरङ्गस्तुरगश्चैव कबन्धं च कमन्धकम् ॥ १८ ॥
18 · p. 272
अनुष्टुप्
अग्रमग्र्यामपि ख्यातं शारिः सारोऽपि कथ्यते ।बन्धूरं बन्धुरं चापि कन्दरं कन्दमित्यपि ॥ १९ ॥
19 · p. 272
अनुष्टुप्
उध्मानमपि चोद्धानमायुश्चायुरपि स्मृतम् ।जम्बीरोऽपि च जम्भीरो वरुणो वारणोऽपि च ॥ २० ॥
20 · p. 272
अनुष्टुप्
रात्रिञ्चरो रात्रिचरः सततं सन्ततं तथा ।जिह्वा जिह्वश्च कथितो जिह्वलो येन गीयते ॥ २१ ॥
21 · p. 272
अनुष्टुप्
रिक्थमृक्थमिति प्रोक्तं रिष्टिरृष्टिश्च सम्मतः ।विश्रामो विश्रमो वापि पूरुषः पुरुषस्तथा ॥ २२ ॥
22 · p. 272
अनुष्टुप्
उदकं च दकं चैव कटः कटिकटीरकौ ।लज्जा लज्ज्या पुनः प्रोक्ता प्रततिर्व्रततिस्तथा ॥ २३ ॥
23 · p. 272
अनुष्टुप्
नृत्यं नृत्तं च कथितं शय्यायां कथ्यते शयः ।फलितं फालितं चैव विद्वद्भिः परिकीर्तितम् ॥ २४ ॥
24 · p. 272
अनुष्टुप्
गम्भीरं च गभीरं स्यात् प्रक्वाणः प्रक्वणस्तथा ।प्रादेशोऽपि प्रदेशः स्यात् करजोऽपि करञ्जकः ॥ २५ ॥
25 · p. 272
अनुष्टुप्
लकुचो लिकुचो वापि ख्याताविज्जलहिज्जलौ ।अगस्तिः स्यादगस्त्योऽपि यमश्च यमजो मतः ॥ २६ ॥
26 · p. 272
अनुष्टुप्
वातूलो वातुलः प्रोक्तो वृत्तश्च वर्तुलस्तथा ।कटकं कण्टकं चापि तथापूर्वैश्च दृश्यते ॥ २७ ॥
27 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
कुटीरकुटिरौ ख्यातौ ननन्दा च ननान्दिका ।आमिक्षायाममिक्षा स्याज्जटिलो जटुलस्तथा ॥ २८ ॥
28 · p. 272
अनुष्टुप्
मासि ज्येष्ठे तथा ज्येष्ठः पौषे पुष्योऽपि सम्मतः ।अस्थिवानस्थिवानेव वाग्वाचा दिग्दशादयः ॥ २९ ॥
29 · p. 272
अनुष्टुप्
अमिषं चमिषं चाटुस्तिमस्तिमिरिव स्मृतः ।चेडी चेटी च कथिता रजः ख्यातं रजं मतम् ॥ ३० ॥
30 · p. 272
अनुष्टुप्
मह एव महः प्राहुश्चिन्तनं चिन्तना तथा ।नारिकेलादिषु द्वैधमाह केलादिवर्जनम् ॥ ३१ ॥
31 · p. 273
अनुष्टुप्
डिम्भो डिम्भश्च विख्यातः कुवरः कुवरो मतः ।अर्द्रमार्द्रं धुतं धौतं निशातं निशितं तथा ॥ ३२ ॥
32 · p. 273
अनुष्टुप्
घ्राणं घ्रातं पुनः प्रोक्तं गूढं गुप्तं सतां मतम् ।ह्रीणं ह्रीतं च विख्यातं घुष्टं च घुषितं तथा ॥ ३३ ॥
33 · p. 273
अनुष्टुप्
दान्तं दमितं शान्तं शमितं घूर्णघूर्णिते ।जप्तं च जपितं चैव क्लिष्टं क्लेशितमेव च ॥ ३४ ॥
34 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 दा (syllables merged)
तुष्टं च तुषितं विद्धं वेधितं विन्नवित्तके ।ऊतं स्यूतमुतं चैव भिन्नं भेदितमेव च ॥ ३५ ॥
35 · p. 273
अनुष्टुप्
दितं दातं च दत्तं स्याद्धूपितं धुपितं तथा ।धूपायितं च मृगितं मार्गितं पूर्णपूरिते ॥ ३६ ॥
36 · p. 273
अनुष्टुप्
अन्वेषितं तथान्विष्टं त्राणं त्रातं च सम्मतम् ।गुप्तं गोपायितं चैव बुद्धं च बुधितं तथा ॥ ३७ ॥
37 · p. 273
अनुष्टुप्
पणायितं च पणितं पनितं च पनायितम् ।छन्नं च छादितं चैव प्रुष्टं प्लुष्टं स्मृतं बुधैः ॥ ३८ ॥
38 · p. 273
अनुष्टुप्
तीर्थं तिर्थमर्घमर्घ्यं पर्व स्यात्पर्वणी तथा ।गुग्गुलुर्गुग्गुलुः प्रोक्तः किकिदीविः किकीदिविः ॥ ३९ ॥
39 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्थ (wrong syllable)
जीवं जीवो जीवजीवस्तडागस्तडगस्तथा ।यती ख्यातो यतिश्च स्यादन्तरीक्षान्तरिक्षके ॥ ४० ॥
40 · p. 273
अनुष्टुप्
सन्निहितः सन्निहित्यां कोलः कीलापि कीर्तितः ।अकुलोप्याकुलः ख्यातः पूपोऽपूपश्च सम्मतः ॥ ४१ ॥
41 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 हि (wrong syllable)
अपपूर्वा मर्षणा च भण्यते चावमर्षणम् ।अपमानोऽवमानश्च बिम्बोष्ठेऽपि द्विरूपता ॥ ४२ ॥
42 · p. 273
अनुष्टुप्
मृद्वङ्गापि च मृद्वङ्गी नेत्रानेत्र्यादिके तथा ।मज्जा ख्यातः स्मृता मज्जा झान्तापि च विचक्षणैः ॥ ४३ ॥
43 · p. 273
अनुष्टुप्
स्फटा फटा च चण्डारश्चण्डालश्च प्रकीर्तितः ।काव्येषु गीयते हर्षो हरिषोऽपि च कीर्त्यते ॥ ४४ ॥
44 · p. 273
अनुष्टुप्
मेधिमेधा शरव्ये च लक्षं लक्ष्यमुदाहृतम् ।सङ्ख्या लक्षा च लक्ष्यं च करभोऽपि करम्भकः ॥ ४५ ॥
45 · p. 273
अनुष्टुप्
मृदुर्मृद्वी गुरुर्गुर्वी तृप्ता तर्प्ता च सम्मता ।म्रष्टा मृष्टा मतं तद्वत् रञ्जनं रजनं तथा ॥ ४६ ॥
46 · p. 274
अनुष्टुप्
नतिर्नत्यां गतिर्गत्यां भूतिर्भूत्यादिकं तथा ।ख्यातौ निमेषनिमिषौ स्मृतौ भीरुकभीलुकौ ॥ ४७ ॥
47 · p. 274
अनुष्टुप्
उषा स्यादुषसा तद्वत्सेवनं सीवनं मतम् ।तन्त्री च तन्त्रिका प्रोक्ता मृजा स्यान्मार्जनी तथा ॥ ४८ ॥
48 · p. 274
अनुष्टुप्
सन्ध्या सन्धा प्रतिज्ञाता भारता भरता नटाः ।स्मृतौ दासेरदासेयौ पिटकः पेटकस्तथा ॥ ४९ ॥
49 · p. 274
अनुष्टुप्
परिस्रुता परिश्रुतः स्यादालस्योदलसोऽपि च ।कमलः कामलो वापि गृध्नुर्गर्धन इत्यपि ॥ ५० ॥
50 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भूष्णुर्भूविष्णुः क्षमिता क्षन्ता चिकणचिक्कणौ ।नवं नव्यं च मृदुलं मृदु स्याद्बहुलं बहु ॥ ५१ ॥
51 · p. 274
अनुष्टुप्
पृथुलं पृथु विख्यातं मञ्जुलं मञ्जु चेष्यते ।प्रागल्भ्यं कीर्त्यते यत्र प्रागल्भी तत्र कीर्तिता ॥ ५२ ॥
52 · p. 274
अनुष्टुप्
लाडनं लडनं चैव त्रिटिस्तुटिरपि स्मृता ।वश्यो वशोभिकोऽभीको लुपो लोलुपलोलुभौ ॥ ५३ ॥
53 · p. 274
अनुष्टुप्
धृष्णुधृष्टकौ विशालं विशलं स्मर्यते बुधैः ।बाहुबाहोऽर्तिरातिः स्यादूरीकृतमुरीकृतम् ॥ ५४ ॥
54 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्ट (wrong syllable)
बह्वाम्पि पठ्यते कैश्चित्तथा बह्वम्पि चैव हि ।बह्वपानि तथा भट्टिस्त्रितयं तेन सिद्ध्यति ॥ ५५ ॥
55 · p. 274
अनुष्टुप्
स्फूरणं स्फुरणं ख्यातिः प्रथा सापि च कथ्यते ।स्तम्बघनस्तु स्तम्बघ्नो मासिश्चापि मसी स्मृता ॥ ५६ ॥
56 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म्ब (wrong syllable)
कालनेमिः कालनेमी दैत्यनाम द्विधा मतम् ।कुम्भी चापि तथा कुम्भा भण्यते शब्दशासने ॥ ५७ ॥
57 · p. 274
अनुष्टुप्
ख्याते माङ्गल्यमाङ्गल्ये विवधो वीवधो मतः ।भृङ्गरिटिर्भूरीटिः स्यात् स्तवस्तापोऽपि गीयते ॥ ५८ ॥
58 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ङ्ग (wrong syllable)
भृकूटं भृक्कटं प्राहुर्मन्दारो मन्दरोऽपि सः ।फलं च फलनं ख्यातं नसा नासा च कीर्त्यते ॥ ५९ ॥
59 · p. 274
अनुष्टुप्
कृषकः कर्षको दृष्टः खलीनं खालिनं तथा ।मणी इव मणीव स्याद् रोदसी रोदसा अपि ॥ ६० ॥
60 · p. 274
अनुष्टुप्
दम्पती इव शब्देन संहतौ तेषु पक्षकः ।प्रग्राहः प्रग्रहो दृष्टः पारिप्लवपरिप्लवौ ॥ ६१ ॥
61 · p. 275
अनुष्टुप्
उच्छ्राय उच्छ्रयः प्रोक्तो धारणं धरणं तथा ।त्रिखट्वी च त्रिखट्वं च स्यादुलूखलमुदूखलम् ॥ ६२ ॥
62 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्षमा भूमिः क्षमा तुल्या तूली तूला मतं सताम् ।मसुरोऽपि मसूरस्तु सरुः सद्योऽपि दृश्यते ॥ ६३ ॥
63 · p. 275
अनुष्टुप्
कापुरुषः कुपुरुषो वाचिका वाचकः क्रिया ।विहङ्गमेति कथिता तथा ख्याता विहङ्गिका ॥ ६४ ॥
64 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
आपःशब्दो सकारान्तो दृश्यते शब्दशासने ।चारभटश्चारुभटः खाल्विटो खल्विटो मतः ॥ ६५ ॥
65 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र (wrong syllable)
खल्लीटं च तथा दृष्टं हाञ्जिरुक्ता च हाञ्जिकम् ।कोटितण्डुलशब्दौ च दृष्टौ पुंक्लीबयोः पुनः ॥ ६६ ॥
66 · p. 275
अनुष्टुप्
कतमकतरौ प्रोक्तौ दृष्टौ भिक्षुकभिक्षकौ ।कर्कटी कर्कुटी नान्ता इकारान्ता च केचन ॥ ६७ ॥
67 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
लाबूरलाबूरिर्वारुरुर्वारुश्च मतं सताम् ।आननश्चाननं चैव आमेषी चाम्रपेषिका ॥ ६८ ॥
68 · p. 275
अनुष्टुप्
शालिश्चैव तथा शाली कलम्बुश्च कलम्बिका ।नीलिका चैव नीली च कर्करुः पुंसि च स्त्रियाम् ॥ ६९ ॥
69 · p. 275
अनुष्टुप्
पोतिका पोतका ख्याता स्मृतौ वास्तूकवास्तुकौ ।भृङ्गराजौ भृङ्गरजः समौ दाडिमदाणिमौ ॥ ७० ॥
70 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भृ (wrong syllable)
गुत्सको गुच्छको वापि तथा चोत्सुकचोतकौ ।शाटिः शाटी च विख्याता मटो मयट एव च ॥ ७१ ॥
71 · p. 275
अनुष्टुप्
समौ दात्यूहदात्योहौ पटवासः पटवसः ।अवसत्थ आवसत्थ तद्रङ्गाद्रङ्गकौ समौ ॥ ७२ ॥
72 · p. 275
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 ट (wrong syllable); pāda 3, syllable 4 त्थ (wrong syllable)
शूकपिटः शूकपटः खटकिक्कः खटक्किकम् ।ख्यातौ पर्ण्याटपर्णाटौ प्रघाणः प्रघणेऽपि च ॥ ७३ ॥
73 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
भ्रुकुटिभ्रकुटौ प्रोक्तौ कलिः स्त्रीपुंसमर्थिता ।क्रौञ्चापि च पुनः क्रौञ्चस्तथा च प्रतिपद्यते ॥ ७४ ॥
74 · p. 275
अनुष्टुप्
हलन्तो गीयते कैश्चिदजन्तोऽयं च गीयते ।दुर्लभो प्रथितो लोके बीजधातुप्रमाणतः ॥ ७५ ॥
75 · p. 275
अनुष्टुप्