All kośas › Dvyakṣarīnāmamālā
द्व्यक्षरीनाममाला Dvyakṣarīnāmamālā
111 verses · text only, tagging comes next
Part 1
सौभरिप्रणीता द्व्यक्षरीनाममाला
अथ द्व्यक्षरीनाममाला प्रकाश्यते ।
क्वणितं परमं ब्रह्म धीमहि प्रणताः सदा ।ध्यात्वा प्रकाश्यते माला सर्वज्ञानविधायिनी ॥ १ ॥
1 · p. 13
अनुष्टुप्
क्णः कणः क्णा धरा क्णिर्धीः क्णुः पुत्रः क्णूर्हुताशनः ।क्णौः कलापि स्मृतिः क्णं तु वृक्णं साधुसमीरितम् ॥ २ ॥
2 · p. 13
अनुष्टुप्
क्तः सिक्तो वरुणोऽपि क्तः क्ता दुर्गा मातृका गिरा ।क्तिः सूर्यः क्तीः स्मृतो वह्निः क्तुः सुनुः सोम एव च ॥ ३ ॥
3 · p. 13
अनुष्टुप्
क्तौर्लक्ष्मीः क्तौ वरं ज्योतिः क्थः संघो हरिणो गजः ।क्था मही सरमा दुर्गा क्थिः कृष्णो वरुणो वरः ॥ ४ ॥
4 · p. 13
अनुष्टुप्
क्थीः शिवः क्थुः सुतस्तातः क्थुः शङ्खो गरुडो नरः ।क्थूः सूतो वरुणो मारो रवः क्थौः सरमासुतः ॥ ५ ॥
5 · p. 13
अनुष्टुप्
क्थं रिक्थं क्वथनं दुःखं दैन्यं क्नः कर्ण उत्सवः ।क्ना रमोमा मही भित्तिः क्निः सूकर उरुक्रमः ॥ ६ ॥
6 · p. 13
अनुष्टुप्
क्नुः शिवोऽर्कोऽम्बुधिः शूद्रोऽमरः क्नूः पतिरात्महा ।क्नं श्रोत्रं करणं भीमं क्मः कामः कमलाहितः ॥ ७ ॥
7 · p. 13
अनुष्टुप्
क्मा रतिः कामपत्नी स्यात्क्मिः कामी क्मी रतीशवान् ।क्मुर्बभ्रुः क्मूः स्वभूः शङ्खः शूकरः क्मौः कजालया ॥ ८ ॥
8 · p. 13
अनुष्टुप्
क्मं कर्म क्यः पलाशोऽग्निरर्कः क्या रेणुरुच्यते ।ख्यः खरोऽग्निः खरी ख्या स्याद् ग्यो गर्गः कमलासनः ॥ ९ ॥
9 · p. 13
अनुष्टुप्
ग्या योनिर्घ्यः स्वनो मूको घ्या पत्नी धरणी स्मृता ।च्यश्चयश्चातुरी च्या स्याच्छ्यः छागः छ्या च भारती ॥ १० ॥
10 · p. 14
अनुष्टुप्
ज्यो जयो यजमानश्च ज्या जया विजया रमा ।झ्यो नदो झ्या नदी प्रोक्ता ट्यः कूटः ट्या धरा सुरा ॥ ११ ॥
11 · p. 14
अनुष्टुप्
ठ्यो नादनोऽनलः ठ्या घौर्ड्यो दाडिमतरुः करः ।ड्या रमा नर्मदा गङ्गा ढ्य आढ्यः शिशुरुत्करः ॥ १२ ॥
12 · p. 14
अनुष्टुप्
ढ्या मही ण्यः स्मृतोऽग्रण्यः शरण्यो ण्या नदी गिरा ।त्योऽन्त्यजः कमलानाथो गुरुस्त्या धरणी नदी ॥ १३ ॥
13 · p. 14
अनुष्टुप्
थ्यो नाथस्थ्या कथा द्योऽब्धिर्द्या दया द्यौस्त्रिविष्टपम् ।ध्योऽन्धो ध्यान्धा क्षुधा शुद्धा न्यो नयोऽर्णव उज्ज्वलः ॥ १४ ॥
14 · p. 14
अनुष्टुप्
न्या नीतिर्नतिरुग्राणी प्यः पयः प्या कृपा रुचिः ।फ्यः फेनः फ्या फणा ब्योऽर्को ब्याम्बा भ्य इभ्योऽभयः पुमान् ॥ १५ ॥
15 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
म्यो मयो यम ईशानो म्या रमा सरमा क्षमा ।य्योऽजय्यो विबुधाधीशो य्या शय्या ल्योऽय उद्धतः ॥ १६ ॥
16 · p. 14
अनुष्टुप्
ल्याऽहिल्या नलिनी व्योऽब्धिर्वयः पक्षी च कूबरः ।व्यो वायुर्व्याल ईशानो व्या भव्या वडवा सुधा ॥ १७ ॥
17 · p. 14
अनुष्टुप्
श्य आस्य आशयो नारी श्या वेश्या कृषिरित्यपि ।ष्यः प्रेष्यः ष्या सुरा शुद्धा स्यः प्रशस्योऽमराधिपः ॥ १८ ॥
18 · p. 14
अनुष्टुप्
स्या कृषिः कृषिदैवं च ह्यो हयो ह्या तुरंगमा ।व्व्या सर्वजगदम्बा च सर्वेशानी सुरेश्वरी ॥ १९ ॥
19 · p. 15
अनुष्टुप्
क्यं कार्यं च ख्यमाकाशं सख्यं ग्यं गगनं गतम् ।घ्यं तोयं च्यं स्मृतं याच्यं शोच्यं पैशाच्यमेव च ॥ २० ॥
20 · p. 15
अनुष्टुप्
छ्यं ष्ठेवं ज्यं स्मृतं याज्यं जातं झ्यं झषनाशनम् ।ट्यं स्फेट्यं ठ्यं स्मृतं शाठ्यं ड्यं जाड्यं ढ्यं धनं वनम् ॥ २१ ॥
21 · p. 15
अनुष्टुप्
ण्यं न्याय्यं त्यं स्मृतं ह्यन्त्यं थ्यं पथ्यं द्यं मुखं चिरम् ।निन्द्यं ध्यं ह्यान्ध्यमित्युक्तं न्यं न्याय्यं नयनं वरम् ॥ २२ ॥
22 · p. 15
अनुष्टुप्
प्यं कुप्यं पात्रमित्युक्तं फ्यं पयो मरणं रजः ।ब्यं सुखं भ्यं भयं रौद्रं म्यममायं त्वमुत्करम् ॥ २३ ॥
23 · p. 15
अनुष्टुप्
य्यं कृत्यं न्याय्यमाधारं ल्यं प्रोक्तं निलयं बुधैः ।व्यं वियद्वदनं वस्त्रं श्यं स्वापेऽवश्य इत्यपि ॥ २४ ॥
24 · p. 15
अनुष्टुप्
स्यं सस्यं कांस्यमित्युक्तं ह्यं हस्तिवदनं गृहम् ।क्ष्यं क्षीरं क्षेत्रमुत्क्षारं क्ष्या पृथ्वी जगदीश्वरी ॥ २५ ॥
25 · p. 15
अनुष्टुप्
क्वः कविः काव्यतातः स्यात्क्वा भूरिति निगद्यते ।क्वं काव्यं कमलं च स्याद् ग्वो गौर्गरुड उच्यते ॥ २६ ॥
26 · p. 15
अनुष्टुप्
ग्वा धेनुर्ग्वं स्मृतं गुह्यं घ्वो घोषो घ्वारणिः स्मृता ।घ्वं घुष्टं घर्षणं घासं छ्वः छागः छ्वा छविः स्मृता ॥ २७ ॥
27 · p. 15
अनुष्टुप्
छ्वं स्वच्छमुच्छं गोमूत्रं ज्वो जवो ज्वा च चञ्चला ।ज्वं जुष्टं ञ्वः समुद्रः स्याद् ञ्वा वशिष्टवधूः स्मृता ॥ २८ ॥
28 · p. 15
अनुष्टुप्
ञ्वं दुग्धं दधि च प्रोक्तं ट्वोऽत्री रामपिता मनुः ।ट्वा खट्वा ट्वं स्मृतं पुष्टं ठ्वो वशिष्टोऽथ विठ्ठलः ॥ २९ ॥
29 · p. 15
अनुष्टुप्
पीठः ठ्वा मथुरा ठ्वं तु पुष्करं चाक्षमुच्यते ।ड्वो भरद्वाजपुत्रः स्याद् ड्वा डाढा ड्वं महोदरम् ॥ ३० ॥
30 · p. 16
अनुष्टुप्
ढ्वो ढेढो ढ्वोशनःस्त्र्यग्र्या ढ्वं पयो दधि चोदनम् ।ण्वो नाथो जमदग्निः स्याद् ण्वा वाण्युज्जयिनी प्रभा ॥ ३१ ॥
31 · p. 16
अनुष्टुप्
ण्वं रूपमणु च प्रोक्तं त्वस्तुरंगो महेश्वरः ।त्वाश्वपत्नी च गौरी च त्वं तुल्यं तरणं स्मृतम् ॥ ३२ ॥
32 · p. 16
अनुष्टुप्
थ्वोऽर्थोऽक्षरोऽरुणस्थ्वा स्त्री थ्वं तु मैथुनमुच्यते ।द्वो दावो द्वा पुरी गङ्गा द्वं दूरं वरदं च यत् ॥ ३३ ॥
33 · p. 16
अनुष्टुप्
ध्वो ध्वोऽग्निर्वधोऽध्वा ध्वा धरा धारा वधूत्तमा ।ध्वं धन्यं धूननं ध्वस्तं ध्नोऽहिर्बुध्नो धनी स्मृतः ॥ ३४ ॥
34 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ध्वो (syllables merged)
ध्ना धन्या मातुली साला ध्नं धनं साधनं वनम् ।न्वो नवो न्वा नवा तन्वी न्वं नवं वस्तु गद्यते ॥ ३५ ॥
35 · p. 16
अनुष्टुप्
प्वो वायुः प्वा स्मृता धूलिः प्वं पुण्यं पतनं गिरेः ।ब्वो ब्रह्मा गीष्पतिर्ब्वाम्बा ब्वं वाक्यं मधुविद्विषः ॥ ३६ ॥
36 · p. 16
अनुष्टुप्
भ्वो भवो भरतो ब्रह्मा भ्वा गौरी भ्वं निवेशनम् ।म्वो वृक्षो म्वा धरा म्वं खं ब्रह्म पुस्तकमुत्तमम् ॥ ३७ ॥
37 · p. 16
अनुष्टुप्
य्वो यवो जवनो यज्ञो य्वा योषिज्जघनोत्तमा ।यतनं यभनं य्वं तु रुदनं मर्दनं जगत् ॥ ३८ ॥
38 · p. 16
अनुष्टुप्
ल्वो लवो रामपुत्रस्तु ल्वा लव्या ल्वं तु सूदनम् ।शल्यं श्वं शरणं यत्नं मैथुनं गगनं गतम् ॥ ३९ ॥
39 · p. 16
अनुष्टुप्
श्वं प्रोक्तं शयने याने श्वः प्रातरशनो हयः ।श्वाश्वा तु चन्द्रमःपत्नी स्वः स्वर्गः सुह्यदित्यपि ॥ ४० ॥
40 · p. 16
अनुष्टुप्
स्वो निजो भगवान्विष्णुर्भक्तो भासुर इत्यपि ।स्वा स्वकीया च योषिच्च गौरी शत्तिः परेश्वरी ॥ ४१ ॥
41 · p. 17
अनुष्टुप्
स्वं गृहं धनमायुष्यं पुण्यं पाप्मा गतिः सुखम् ।ह्वः प्रह्वः शतजिह्वः स्याद् ह्वा जिह्वा तरुणी सरित् ॥ ४२ ॥
42 · p. 17
अनुष्टुप्
ह्वं वायुगमनं क्ष्वेडा क्ष्वः क्षोदः क्ष्वा सरिद्वरा ।क्ष्वं क्षीवं क्षरणं क्षीरं पालनं तारणं पितुः ॥ ४३ ॥
43 · p. 17
अनुष्टुप्
स्नः सारः स्ना प्रमच्छ्रेष्टा स्नं स्नानं मधु वारणम् ।घ्नो घनो नाशको घ्ना द्यौर्घ्नं जलं निबिडं पतत् ॥ ४४ ॥
44 · p. 17
अनुष्टुप्
म्नो मानो म्नामरोत्तारा म्नं मनो मरणं मधु ।क्लः कलः क्ला कला क्लं तु कलं कलनमुत्तमम् ॥ ४५ ॥
45 · p. 17
अनुष्टुप्
स्कः शुष्कः स्कन्धशूरः स्यात्स्का स्कन्दजननी सुरा ।स्कं शुक्रं शरणं वृत्तं वादित्रं गदनं सुखम् ॥ ४६ ॥
46 · p. 17
अनुष्टुप्
स्लं शूलमसुखं स्ला तु सरमा स्लस्तु षट्पदः ।बाणो नरोऽमरो दैत्यो राक्षसो गरुडोऽरुणः ॥ ४७ ॥
47 · p. 17
अनुष्टुप्
श्लः शिलः शलभः शुक्लः श्ला शलाका शिला तथा ।श्लं शुक्लं चूर्णमाधारं गगनं शूलभृच्छिरः ॥ ४८ ॥
48 · p. 17
अनुष्टुप्
क्ष्लः श्लोकः क्षुद्रवदनः क्ष्ला क्षोण्यक्षौहिणी तथा ।क्ष्लं क्षुद्रं वस्तु मरणं भवनं शरणं वनम् ॥ ४९ ॥
49 · p. 17
अनुष्टुप्
ल्लं लक्ष्म ल्ला स्मृता गौरी ल्लो लोकस्तर्क इत्यपि ।ख्लः खलः ख्ला सुरा क्षुद्रा योषित्कमललोचना ॥ ५० ॥
50 · p. 17
अनुष्टुप्
ग्लौः शनिर्ग्लो गुडो ग्लाम्बा ग्लं गलं गलनं सरत् ।घ्लोऽश्वो घ्ला जघना घ्लं तु वृक्णं सारथिपातनम् ॥ ५१ ॥
51 · p. 18
अनुष्टुप्
छ्लः छलः छलकृत् छ्लोर्ध्वापुरी छ्लं तु शिवालयम् ।प्लः प्लवंगः प्लवः शूरः प्ला पाटी परमेश्वरी ॥ ५२ ॥
52 · p. 18
अनुष्टुप्
प्लं मांसं प्लवनं मद्यं पूरणं धरणीतलम् ।फ्लं फलं बाणपूरं च वदनं सकलं वपुः ॥ ५३ ॥
53 · p. 18
अनुष्टुप्
ब्लं बलं ब्ला स्मृता रक्ता बरटी कङ्गुरित्यपि ।ब्लो बालोऽघासुरः कंसोऽज्ञोऽध्वा मारोऽनलोपमः ॥ ५४ ॥
54 · p. 18
अनुष्टुप्
ढ्लं माल्यं मधुरं ढ्ला क्ष्मा ढ्लिर्देवेशोऽमरावती ।ढ्लः कल्पः कमलानाथो गरुडो हंससारथिः ॥ ५५ ॥
55 · p. 18
अनुष्टुप्
क्रः करः शरभो व्याघ्रो नाथः क्रा सुरभिर्मही ।क्रं खमिन्द्रियमित्युक्तं ख्रो खौ रासभे खले ॥ ५६ ॥
56 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ख्रा पूतना सूर्पणखी ताडका कैकयी क्षितिः ।ख्रं खड्गं दुष्टह्यदयं मैथुनं मरणं तथा ॥ ५७ ॥
57 · p. 18
अनुष्टुप्
ग्रो गदो गुद आसारो ग्रा राज्ञी ब्रध्नयोषिता ।ग्रं गृहं ग्रहचक्रं खमगारं शुक्रमेव च ॥ ५८ ॥
58 · p. 18
अनुष्टुप्
घ्रो घोषो मदनश्चूतो भगोऽज्ञो यामिनीपतिः ।घ्रा घृणा सरमापुत्री घ्रं गृहं वदनं निजम् ॥ ५९ ॥
59 · p. 18
अनुष्टुप्
ङ्रो नरोऽशरणोऽशूरो ङ्रा मारणिरिति स्मृता ।ङ्रं गृहं रुदनं नासा प्रभा हानिश्च कथ्यते ॥ ६० ॥
60 · p. 18
अनुष्टुप्
च्रश्चरश्चरमः श्लोकश्चश्चतश्चारण इत्यपि ।च्रा चञ्चूश्च चमूश्चाटुः च्रं मैथुनकमप्रजम् ॥ ६१ ॥
61 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
छ्रो द्वेषी छुरकः खड्गः त्सरुरड्गणमार्गगः ।छ्रा विष्टा शुनकी वेश्या छ्रं छलं गमनं गृहम् ॥ ६२ ॥
62 · p. 19
अनुष्टुप्
ज्रो वृद्धो गगनेऽटोऽग्निर्ब्रह्मोमेशो रमाधिपः ।जटायुश्च जरायुश्च जमदग्निर्जुनीपतिः ॥ ६३ ॥
63 · p. 19
अनुष्टुप्
ज्रा जरा जरठा जारवत्सला षट्पदी घृणिः ।ज्रं यज्ञोतमजस्त्रं च रजस्वलमुखं रजः ॥ ६४ ॥
64 · p. 19
अनुष्टुप्
झ्रो नादो जरठो दारो झ्रा जरा हानिरीश्वरी ।झ्रं जुष्टं भ्रमरैर्घुष्टं पष्टं सुष्टु गृहं कधम् ॥ ६५ ॥
65 · p. 19
अनुष्टुप्
ञ्रश्चौरो ञ्रा स्मृता नीतिर्गतिर्ञ्रं भगवन्मुखम् ।ट्रः पीठः ट्रा स्मृतापूपा ट्रं घोटकमुखं सुरः ॥ ६६ ॥
66 · p. 19
अनुष्टुप्
ठ्रो मिष्टाम्रफलस्त्रावः ठ्रा टिट्टी भ्रमरी सुरा ।ड्रो दण्डो डमरुर्दक्षो दूरगो ड्रं सुरोदकम् ॥ ६७ ॥
67 · p. 19
अनुष्टुप्
ड्रा टिट्टी मत्स्यगन्धा स्याद् झषपत्नी महोदरी ।ड्रं मद्यं मधुरं पुष्पं नर्मदाजलमम्बुजम् ॥ ६८ ॥
68 · p. 19
अनुष्टुप्
ढ्रो धृष्टद्युम्नतातो विदुरो नर्मदाझषः ।ढ्रा गान्धारी सती स्वाहा स्वधाज्ञा सरयूरपि ॥ ६९ ॥
69 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ढ्रं फल्गु मरणं भ्रष्टं सुभ्र्वास्यं स्पन्दनाक्षमम् ।ण्रो नष्टोऽम्बरगो भीरुः कर्णो बीभत्सुरुद्धवः ॥ ७० ॥
70 · p. 19
अनुष्टुप्
ण्रा नर्मदा च गौर्गोदा गङ्गा द्रुपदजाम्बुजा ।ण्रं नाम ससुधं पात्रं वाक्यं नारदभाषितम् ॥ ७१ ॥
71 · p. 20
अनुष्टुप्
त्रस्त्रिनेत्रोऽब्जजः पाता गरुत्मान्मघवानपि ।त्रा गौरी गरदा पात्री तारणी सरमा रती ॥ ७२ ॥
72 · p. 20
अनुष्टुप्
त्रं स्मृतं त्रुटितं घुष्टं जुष्टं पुष्टं परं पदम् ।गान्धारीवदनं कर्णवचनं द्रौपदीरितम् ॥ ७३ ॥
73 · p. 20
अनुष्टुप्
थ्रस्तीर्थवासकृत्पूतो जारः पुष्टोऽम्बिकात्मजः ।थ्रा स्थिताथ रमा राज्ञी रजनी रजकातत्मजा ॥ ७४ ॥
74 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
थ्रं तीर्थं सुखमायुक्तं मरणं मध्वरेर्मुखम् ।द्रो द्रोणो द्रोणसुनुः स्यात्काकः काकसमो नरः ॥ ७५ ॥
75 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
भयकृद्भरतो राजा रन्तिदेवो रमापतिः ।द्रा दरी सरमा क्षुद्रा द्रोणमूर्तिर्दुरात्मजा ॥ ७६ ॥
76 · p. 20
अनुष्टुप्
द्रं भयं गमनं क्षुद्रं क्षोदनं सरमामुखम् ।सुतटं सुखदं साम स्मरणं श्रयणं गुरु ॥ ७७ ॥
77 · p. 20
अनुष्टुप्
ध्रो भूध्रो धारकः साक्षी धृष्टद्युम्नो धरात्मजः ।बृकोदरो गदपाणिर्गरुत्मद्भ्रातृवल्लभः ॥ ७८ ॥
78 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
ध्रा धरा कुध्रजा कूलगा खगा पथिगाम्बुगा ।ध्रं ध्रुवं धरणं धाराधरस्थानं च कूबरम् ॥ ७९ ॥
79 · p. 20
अनुष्टुप्
त्रा नारी नर्मदा दुष्टा नरवाङ्नरकोद्भवा ।पृथा पुष्टा परेशानी परमानन्ददायिनी ॥ ८० ॥
80 · p. 20
अनुष्टुप्
त्रो नरो नरकोऽङ्गारो नामदो नार्मदो हृदः ।त्रं गृहं नरकोऽङ्गारं गरुडाङ्गं नरोद्भवम् ॥ ८१ ॥
81 · p. 20
अनुष्टुप्
प्रा प्रकृष्टा महादेवी महालक्ष्मी रजोद्भवा ।मथुरा मर्ममाराम्बा क्ष्मा क्षमा क्षामनासिका ॥ ८२ ॥
82 · p. 21
अनुष्टुप्
प्रः प्रकृष्टोऽन्धकारातिर्मुरारातिः कजोद्भवः ।कामोऽरातिर्ध्रुवोऽगस्त्योऽरुणपितामरः ॥ ८३ ॥
83 · p. 21
अनुष्टुप्metre not read in every line
प्रं ब्रह्म गगनं सूरि भ्रमराङ्गं धरान्तरम् ।गङ्गातीरं पयः पेयं पाथः परं परं सरः ॥ ८४ ॥
84 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
फ्रः फूत्कारः स्वनः फेनः स्फुरन्स्पष्टोऽम्बरेचरः ।फ्राभीरपत्नी कमला खरी क्षारनदी सुरा ॥ ८५ ॥
85 · p. 21
अनुष्टुप्
फ्रं स्फुरद्वसनं जुष्टं यत्नं स्फेटितमुद्धृतम् ।प्राक्तनं गगनं ध्वस्तं घृतं धरणमुच्यते ॥ ८६ ॥
86 · p. 21
अनुष्टुप्
ब्रो बृहस्पतिराचार्यो बटुर्बद्धोऽम्बरावृतः ।बाष्कलो बहुदोऽम्बाजो बहुव्रीहिश्च बुद्बुदः ॥ ८७ ॥
87 · p. 21
अनुष्टुप्
बालो बाणोऽबलो बद्धोऽम्बष्ठोऽब्दो बधिरः स्मृतः ।ब्रा बाला बधिराम्बष्ठी बट्वी बद्धाम्बरेश्वरी ॥ ८८ ॥
88 · p. 21
अनुष्टुप्
ब्रं ब्रह्म बलमुच्छ्रेष्ठं बधिराङ्गं तथाम्बरम् ।बहुलं बाहुसारं च बधिरास्यं बटोर्मुखम् ॥ ८९ ॥
89 · p. 21
अनुष्टुप्
भ्रो ब्रह्म प्रकरो भारो भ्रमरो धूसरोऽधरः ।भासुरो भ्रामको भ्रष्टो भीमसेनोऽभयः स्मृतः ॥ ९० ॥
90 · p. 21
अनुष्टुप्
भ्रं भासुरं तथाभ्रं तु भ्रामकं भ्रमणं भयम् ।भ्रा भ्रष्टा ब्राह्मणी भा च हिडम्बा धरणी तथा ॥ ९१ ॥
91 · p. 22
अनुष्टुप्
म्रोऽमरो मृत्युरूमर्त्यो मैथुनी माधवो बलः ।म्रामरी मानवी मारमानिनी यामिनी शुनी ॥ ९२ ॥
92 · p. 22
अनुष्टुप्
म्रं मैथुनं मृताङ्गं च मरणं मस्तकं मधु ।य्रो यादवोऽर्जुनो जारो य्रा जरा जरठाजरा ॥ ९३ ॥
93 · p. 22
अनुष्टुप्
य्रं जुष्टं भोजनं भ्राजज्जायमानं जरोद्भवम् ।य्रिः कामिनी प्रिया पुष्टा परमा पारगाम्बुधेः ॥ ९४ ॥
94 · p. 22
अनुष्टुप्
लो लण्डो लालितोऽल्पोऽङ्को ला लाजा लालिताम्बुला ।ललिता प्लावितं ल्रं खं लालितं ललनामुखम् ॥ ९५ ॥
95 · p. 22
अनुष्टुप्
व्रो वरो ह्यवरो वास्रो वाडवो वासरोऽम्बुधिः ।व्रा श्रेष्ठा गिरिजा लक्ष्मी रत्नाकरगता तथा ॥ ९६ ॥
96 · p. 22
अनुष्टुप्
व्रं लुलायमुखं भीमं भासुरं श्रेष्ठमुच्यते ।श्रः शरोऽसारदोऽसारः शरण्यः सारथिः शिवः ॥ ९७ ॥
97 · p. 22
अनुष्टुप्
श्रा गौरी तु रमा रामा रत्नाकरकृतालया ।श्रं शरण्यं सुतूणं च तारुण्यं तादृशं शिवम् ॥ ९८ ॥
98 · p. 22
अनुष्टुप्
ष्रः सुरेशोऽदितीशोऽर्कोऽरुणोऽर्णव उरुक्रमः ।ष्रा गौरी सारवत्पत्नी पारणा परमामरी ॥ ९९ ॥
99 · p. 22
अनुष्टुप्
ष्रं कष्टं करणं काष्ठं कोमलेतरमुज्ज्वलम् ।स्रः शरः सरमाभर्ता भक्तो भासुरभासुरः ॥ १०० ॥
100 · p. 22
अनुष्टुप्
स्रा शिवाभयपत्नी च भक्ता ब्रह्मसुता तथा ।स्रं श्रेष्ठं सारदं वस्तु वदनं बरुणासनम् ॥ १०१ ॥
101 · p. 22
अनुष्टुप्
ह्रो हरो हरिणो हारो हरिर्हाहाहुहुर्हयः ।हर्षो हंसोऽहरुद्धर्षो हासो हस्ती च नाहुषः ॥ १०२ ॥
102 · p. 22
अनुष्टुप्
ह्रा गौरी हरिणी हंसी हर्षयुक्ता च हस्तिनी ।देवयानी च शर्मिष्ठा ह्रं तु चौर्यं चरोगरः ॥ १०३ ॥
103 · p. 22
अनुष्टुप्
क्ष्रः क्षरः क्षरणः क्षारोऽक्षोडोऽक्षोऽक्षराक्षरः ।क्ष्रा लक्ष्मीः क्ष्रं क्षयं क्षारं क्षोदनं क्षरणं खरम् ॥ १०४ ॥
104 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्तः सुतः स्तिः सुरः शङ्खः सुता सारसयोषिता ।स्ता प्रशस्ता शदा पक्षिपत्नी पाटलगौः स्मृता ॥ १०५ ॥
105 · p. 22
अनुष्टुप्
स्तुः सारस्तूण आचार्यो लक्ष्यः स्तूस्तोरणः स्मृतः ।स्तं शस्तं शरणं राजगृहं गगनमुद्धतम् ॥ १०६ ॥
106 · p. 22
अनुष्टुप्
ष्ट्रो भ्रष्टः शकटो व्रात्यो विप्रो वरुण आसवः ।ष्टु सुष्टु शरणं भ्रष्टं भासुरं भक्तमेव च ॥ १०७ ॥
107 · p. 22
अनुष्टुप्
ष्टिर्यष्टिर्विष्टिरावृष्टिरावृत्तिर्वरुणाङ्गना ।ष्टी यष्टी सरमा भ्रष्टा भ्रामका भ्रमिरासुरी ॥ १०८ ॥
108 · p. 22
अनुष्टुप्
ष्टा घुष्टा गृहिणी गाली सूर्यपत्नी जलालया ।ष्टं श्रेष्ठं शरणं साधु गदनं वदनं मधु ॥ १०९ ॥
109 · p. 22
अनुष्टुप्
ष्टः पष्ठोऽनुखरोऽङ्गारोऽघासुरोऽसुरसत्तमः ।गोविन्दो गरुडो गण्डो घासोऽगारोऽगरोऽमरः ॥ ११० ॥
110 · p. 22
अनुष्टुप्
इत्येषा रचिता मालाक्षरी सौभरिणा शुभा ।यः पठेच्छृणुयाच्चेमां स शब्दार्णवपारगः ॥ १११ ॥
111 · p. 22
अनुष्टुप्