All kośas › Abhidhānādyekākṣaranāmamālā
अभिधानाद्येकाक्षरनाममाला Abhidhānādyekākṣaranāmamālā
38 verses · text only, tagging comes next
Part 1
;METADATA;cONTENT
1
अनुष्टुप्metre not read in every lineLatin letters: METADATALatin letters: cONTENT
अभिधानादि-एकाक्षरनाममाला
अभिधानं प्रवक्ष्यामि नानाशब्दार्थविस्तरम् ।साङ्ख्यं वाररुचं यत्तदेकाक्षरमुदाहृतम् ॥ १ ॥
1 · p. 56
अनुष्टुप्metre not read in every line
उकारः शङ्करे प्रोक्त ऊकारो विष्णुरुच्यते ।ऋकारो देवमाता स्याद् ॠकारो दनुजप्रसूः ॥ ३ ॥
3 · p. 56
अनुष्टुप्
लृकारो देवमाता स्यान्नागमाता तु लॄः स्मृता ।एकार उच्यते विष्णुरैकारश्च महेश्वरः ॥ ४ ॥
4 · p. 56
अनुष्टुप्
ओकारस्तु भवेद्ब्रह्मा औकारोऽनन्त इष्यते ।अं भवेत् परमं ब्रह्म अः स्याच्चैव महेश्वरः ॥ ५ ॥
5 · p. 56
अनुष्टुप्
कः प्रजापतिरुद्दिष्टो वायौ सूर्ये च कः स्मृतः ।कश्चात्मनि सुखे ख्यातः कः प्रकाशमुदाहृतम् ॥ ६ ॥
6 · p. 56
अनुष्टुप्
कं शिरो जलमाख्यातं कं सुखे परिकीर्त्तितम् ।कुः पृथिव्यां समाख्याता कुशब्दः कुत्सितेऽपि च ॥ ७ ॥
7 · p. 56
अनुष्टुप्
खमिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ।स्वर्गेऽपि खं च संप्रोक्तं शून्ये खड्गेऽपि खं स्मृतम् ॥ ८ ॥
8 · p. 56
अनुष्टुप्
गो गणेश्वर उद्दिष्टो गन्धर्वो गः प्रकीर्त्तितः ।गश्च गीते च गाथायां गौर्धेनुश्च सरस्वती ॥ ९ ॥
9 · p. 56
अनुष्टुप्
घो घण्टिका समाख्याता किङ्किणी घः प्रकीर्त्तितः ।घश्च मेघः समाख्यातो घूर्ध्वनावपि कीर्त्तितः ॥ १० ॥
10 · p. 56
अनुष्टुप्
ङकारो भैरवे प्रोक्तो ङकारो व्यसनेऽपि च ।ङकारः स्वर आख्यातस्तस्करे चाऽप्युदाहृतः ॥ ११ ॥
11 · p. 56
अनुष्टुप्
चश्चन्द्रमसि आख्यातस्तस्करे चाऽप्युदाहृतः ।चः शोभायां समाख्यातश्च पक्षान्तरसूचने ॥ १२ ॥
12 · p. 56
अनुष्टुप्
निर्मले छं समाख्यातं तडिच्छः सम्प्रकीर्त्तितः ।छेदने छः समाख्यातश्छश्च संवरणेऽपि च ॥ १३ ॥
13 · p. 56
अनुष्टुप्
वेगे तेजस्यपि स्याज्जो जनने जः प्रकीर्त्तितः ।जेता च जिः प्रविख्यातो जनने जिः प्रकीर्त्तितः ॥ १४ ॥
14 · p. 56
अनुष्टुप्
भैरवे तु झकारः स्यान्नष्टे च समुदाहृतः ।झकारो बन्धने प्रोक्तो झकारो घर्घरस्वरे ॥ १५ ॥
15 · p. 56
अनुष्टुप्
ञकारो मूढरूपे च ञकारो विषयात्मनि ।ञकारो गायने प्रोक्तो ञकारो जर्ज्जरे स्वरे ॥ १६ ॥
16 · p. 56
अनुष्टुप्
टा पृथिव्यां समाख्याता करटे टं प्रकीर्त्तितम् ।ठो महेश्वर आख्यातष्ठश्च शून्ये प्रकीर्त्तितः ॥ १७ ॥
17 · p. 56
अनुष्टुप्
बृहद्ध्वनौ च ठः प्रोक्तस्तथा ठश्चन्द्रमण्डले ।डकारः शङ्करे प्रोक्तो डकारो ध्वनिरुच्यते ॥ १८ ॥
18 · p. 56
अनुष्टुप्
ढः कीर्त्तितश्च ढक्कायां निगूढेऽपि ध्वनावपि ।णकारः कीर्त्तितो ज्ञाने णू(णु) स्तुतेऽपि प्रकीर्त्तितः ॥ १९ ॥
19 · p. 56
अनुष्टुप्
तकारः कथितश्चौरः क्रोधे पुच्छे च कीर्त्तितः ।शिलोच्चये थकारः स्यात् थकारो भयरक्षणे ॥ २० ॥
20 · p. 56
अनुष्टुप्
दं कलत्रं बुधैः प्रोक्तं छेदे दाने च दातरि ।बन्धने धः स्मृतौ धातौ धने धान्ये च धः स्मृतः ॥ २१ ॥
21 · p. 56
अनुष्टुप्
धी गतिर्बुद्धिरित्याहुर्युद्धे च कम्पने तथा ।धौते धूमे समाख्याता धूश्चैवं भार-वित्तयोः ॥ २२ ॥
22 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
नकारः कीर्त्तितो ज्ञाने निषेधेऽपि प्रकीर्त्तितः ।नेता निः श्वसने ख्यातस्तरण्यां नौः प्रकीर्त्तितः ॥ २३ ॥
23 · p. 56
अनुष्टुप्
पकारः पवने प्रोक्तः पास्तु पाने च पातरि ।फकारोऽरण्यसंसुप्तौ फकारः प्रकटे रणे ॥ २४ ॥
24 · p. 56
अनुष्टुप्
झञ्झावातः फकारः स्यात् फकारो भयरक्षणे ।वःषट्कारे फकारश्च तथा स्थास्नौ प्रकीर्त्तितः ॥ २५ ॥
25 · p. 56
अनुष्टुप्
फः फूत्कारे च फूः प्रोक्तस्तथा निष्फलभाषणे ।प्रवेशे बः समाख्यातः कलहेऽपि प्रकीर्त्तितः ॥ २६ ॥
26 · p. 57
अनुष्टुप्
नक्षत्रे भं बुधाः प्राहुर्भ्रमरे भः प्रकीर्त्तितः ।दीप्तिर्भाऽपि च भूर्भूमिर्भीर्भयं कथितं बुधैः ॥ २७ ॥
27 · p. 57
अनुष्टुप्
मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ।मा तु मातरि माने च बन्धने मूः प्रकीर्त्तितः ॥ २८ ॥
28 · p. 57
अनुष्टुप्
यमो यः कथितः श्रेष्ठो यो धातरि च शब्दितः ।याने यातरि यस्त्यागे कथितः शब्दवेदिभिः ॥ २९ ॥
29 · p. 57
अनुष्टुप्
रश्च कामेऽनले वज्रे शब्दे रूपे च कीर्त्तितः ।रा धने श्रवणे ख्यातो रो भये रक्षणे च रः ॥ ३० ॥
30 · p. 57
अनुष्टुप्
ल इन्द्रे लवने व्याजे लश्च दाने प्रकीर्त्तितः ।लीः श्लेषे वलये चैव लकारो नास्तिके भवेत् ॥ ३१ ॥
31 · p. 57
अनुष्टुप्
सान्त्वने वरुणे वाते वकारः संप्रकीर्त्तितः ।गत्यर्थे नयने श्रेष्ठे विकारे वः प्रकीर्त्तितः ॥ ३२ ॥
32 · p. 57
अनुष्टुप्
पक्षिणि गगने चैव विशब्दस्तु प्रकीर्त्तितः ।शः परोक्षे समाख्यातः शान्तौ शोभा-वरेण्ययोः ॥ ३३ ॥
33 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 णि (wrong syllable)
ब्रुवन्ति शं शिवे सुज्ञाः शं शोभायां निगद्यते ।शीः शयाने च निन्दायां हिंसायां च निगद्यते ॥ ३४ ॥
34 · p. 57
अनुष्टुप्
षः परोक्षे समाख्यातः षा च लक्ष्मीर्निगद्यते ।सकारः कीर्त्तितः श्रेष्ठे शूलिनि सः प्रकीर्त्तितः ॥ ३५ ॥
35 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
हो हरे ही विचित्रे च हे च सम्बोधने तथा ।क्षः क्षेत्रे च समाख्यातः क्षः क्षमायां क्षये तथा ॥ ३६ ॥
36 · p. 57
अनुष्टुप्
अकारादि-क्षकारान्तवर्णानां च पृथक् पृथक् ।अभिधानं समासेन कथितं बुधसंस्तुतम् ॥ ३७ ॥
37 · p. 57
अनुष्टुप्