All kośas › Ekākṣarakoṣa
एकाक्षरकोष Ekākṣarakoṣa
35 verses · text only, tagging comes next
Part 1
अज्ञातपण्डितविरचितः
एकाक्षरकोष
सीतया सहितं रामं प्रणम्य व्याहराम्यहम् ।काव्यकौशलसिद्ध्यर्थमेकाक्षरनिघण्टुकम् ॥ १ ॥
1 · p. 132
अनुष्टुप्
अकारो हरि-रुद्रौ च आकारस्तु पितामहः ।इकार उच्यते कामो लक्ष्मीरीकार उच्यते ॥ २ ॥
2 · p. 132
अनुष्टुप्
उकारः शङ्करः प्रोक्त उकारश्चापि केशवः ।ऋकारो देवमाता स्याद् ॠकारो दनुजेश्वरः ॥ ३ ॥
3 · p. 132
अनुष्टुप्
लृकारो देवमाता स्यान्नागमाता च लॄः स्मृता ।एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः ॥ ४ ॥
4 · p. 132
अनुष्टुप्
ओकारस्तु भवेद्ब्रह्मा औकारो[नन्त उच्यते] ।अं भवेत् परमं ब्रह्म अः स्याच्चैव महेश्वरः ॥ ५ ॥
5 · p. 132
अनुष्टुप्
कः प्रजापतिरुद्दिष्टः को वायुरिति शब्दितिः ।[क] आत्मा च समाख्यातः प्रकाशः क उदाहृतः ॥ ६ ॥
6 · p. 132
अनुष्टुप्
सखा कश्च बुधैरुक्त शिष्ये ? सूर्य्ये च कः स्मृतः ।कं शिरो जलमाख्यातं कं सुखं परिकीर्तितम् ॥ ७ ॥
7 · p. 132
अनुष्टुप्
कुः पृथिव्यां समाख्यातः कुशब्दः कुत्सितेऽपि च ।खमिन्द्री[दि]यं समाख्यातं खमाकाशमुदाहृतम् ॥ ८ ॥
8 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वर्गेऽपि खं च संप्रोक्तं शून्ये खण्डेऽपि खं स्मृतम् ।… ॥ ९ ॥
9 · p. 132
अनुष्टुप्metre not read in every line
गो गणे चेन्द्रिये दिक्षु गन्धर्वे गः प्रकीर्तितः ।गं च गीते गा च नामा ? गौर्धेनुश्च सरस्वती ॥ १० ॥
10 · p. 132
अनुष्टुप्
गणे च दीधितिर्दृष्टिर्वक्त्रं वाग्-बाण-शत्रुषु ।भूमौ पसौ[शौ] तथा स्वर्गे विद्वद्भिर्गौरुदाहृतः ॥ ११ ॥
11 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घो घण्टासु समाख्यातः किङ्कणिषु प्रकीर्तितः ।दुःस्वरे घर्घरे घोरे अन्तर्ध्माते घटेऽपि च ॥ १२ ॥
12 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णि (wrong syllable)
घश्च मेघः समाख्यातो दानवे घुः प्रकीर्तितः ।ङकारो भैरवे प्रोक्तो ङकारो व्यसने स्मृतः ॥ १३ ॥
13 · p. 132
अनुष्टुप्
ङकारो विषये सद्भिर्गदितस्त्रिषु तद्विति ? ।सो[शो]भायां चः समाख्यातस्तस्करश्च उदाहृतः ॥ १४ ॥
14 · p. 132
अनुष्टुप्
चश्चन्द्रश्च समाख्यातः पक्षातं ? च समन्वितः ।निर्मलं छं समाख्यातं दद्यति[विद्युतिच्]छः प्रकीर्तितः ॥ १५ ॥
15 · p. 132
अनुष्टुप्metre not read in every line
छेदे चच्छः समाख्यातश्छः स्वासे वर्णे[स्यात् संवरणे]ऽपि च ।वेगिते जः समाख्यातो जननं जी[ने जः ] प्रकीर्तितः ॥ १६ ॥
16 · p. 132
metre not recognised
जेभा[ता] जश्च समाख्यातः सूरिभिः शब्दशासने ।तारवायुर्झकारः स्यात् पिच्छे झः समुदाहृतः ॥ १७ ॥
17 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ञकारः शयने प्रोक्तो ञंकारो वर्वणध्वनौ ? ।कटके टो[टः] पृथिव्यां च टो ध्वनौ च प्रकीर्तितः ॥ १८ ॥
18 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ठो महेश्वरः समा[र आ]ख्यातष्ठः शून्ये च प्रकीर्तितः ।बृहद्ध्वनिश्च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ॥ १९ ॥
19 · p. 132
अनुष्टुप्metre not read in every line
डकारः शङ्करे त्रास[से] डकारो ध्वनिरुच्यते ।ढकारः कीर्तिता ढक्का निर्गुणे च ध्वनावपि ॥ २० ॥
20 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
णकारः कीर्तितो ज्ञाने निष्फले च [प्र]कीर्तितः ।तकारः कीर्तितश्चौरः क्रोष्टुमुख्ये प्रकीर्तितः ॥ २१ ॥
21 · p. 132
अनुष्टुप्
शिलोच्चये थकारः स्यात् थकारो भयरक्षणे ।दं कलत्रे बुधैरुक्तं छेद-दाने च दातरि ॥ २२ ॥
22 · p. 132
अनुष्टुप्
धो धने च धनेशे च धाता धीर्धर्मणीः स्मृता ।सन्यग्धौ ? च तथा धः स्याद् धं चैव भय-चित्तयोः ॥ २३ ॥
23 · p. 132
अनुष्टुप्
नकारः स्वागते चन्द्रे नं स्तुतौ च प्रकीर्तितः ।नेता नि[नी]श्च समाख्यतस्कर्णे? च नौः प्रकीर्तितः ॥ २४ ॥
24 · p. 132
अनुष्टुप्metre not read in every line
पवने पः समाख्यातः पोऽम्भःपाने च पातरि ।फं पापि[पी च] फकारः स्यात् फः फणेऽपि प्रकीर्तितः ॥ २५ ॥
25 · p. 132
अनुष्टुप्
फकारोऽपि वधूः प्रोक्तस्तथा निष्फलभाषणे ।प्रचेता बः समाख्यातः कलशो बः प्रकीर्तितः ॥ २६ ॥
26 · p. 132
अनुष्टुप्
विवक्षी ? चैवोदितो बि[र्]गगनं बिरा[रु]दाहृतम् ।नक्षत्रं भं तथाकाशं भ्रमरो भः प्रकीर्तितः ॥ २७ ॥
27 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दीति[प्ति]र्भा भूस्तथा भूमिर्भीर्भयं कथितं बुधैः ।मः शिवश्चन्द्रमा वेधा मा [च] लक्ष्मीः प्रकीर्तितः ॥ २८ ॥
28 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मा च मातरि माने च बन्धने म[मूः] प्रकीर्तितः ।यमो यः कीर्तितः शब्दैर्या वारीति [च] शब्दितः ॥ २९ ॥
29 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
याते यातरि या त्यागे कथिता या च प्रापणे ।रः प्रकाशे रशे ? वह्नौ रः शब्दे च प्रकीर्तितः ॥ ३० ॥
30 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
राऽधमो रिम्तमो ? ख्यातो रुर्भये च प्रकीर्तितः ।ल इन्द्रे लवणे लश्च ला च लक्ष्मीः प्रकीर्तितः ॥ ३१ ॥
31 · p. 133
अनुष्टुप्
ला लेषे ? वलये चैव कथितं शब्दवेदिभिः ।सान्त्वने वारुणे वाते वकारः समुदाहृतः ॥ ३२ ॥
32 · p. 133
अनुष्टुप्
वदति[न्ति] शं बुधाः शेषं शः शान्तिस्तु निगद्यते ।षकारः कीर्तितः श्रेष्ठे षू[श्च] गर्भविमोक्षणे ॥ ३३ ॥
33 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सः परोक्षे समाख्यातः सा क्ष[ल]क्ष्मी[श्]च निगद्यते ।ह कोपकरणे प्राह स्यादपिष्ट ? प्रकीर्तितः ॥ ३४ ॥
34 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दाहेऽपि हश्च कथितो हो विक्लष्टः प्रकीर्तितः ।क्षः क्षत्रस्तु समाख्यातः स्यात् क्षेत्रेऽपि च कथ्यते ॥ ३५ ॥
35 · p. 133
अनुष्टुप्