All kośas › Ekākṣarakoṣa
एकाक्षरकोष Ekākṣarakoṣa
29 verses · text only, tagging comes next
Part 1
अज्ञातविद्वत्कृतः
एकाक्षरकोषः
कः प्रजापतिरुद्दिष्टः को वायुरिति शब्दितः ।कश्चाऽऽत्माऽपि समाख्यातः कः प्रकाश उदाहृतः ॥ १ ॥
1 · p. 45
अनुष्टुप्
कं शिरो जलमाख्यातं कं सुखं च प्रकीर्त्तितम् ।कुः पृथिवी समाख्याता कुशब्दः कुत्सितेऽपि च ॥ २ ॥
2 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 थि (wrong syllable)
खमिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ।तथा सुखेऽपि खं प्रोक्तं खं शून्येऽपि तथोदितम् ॥ ३ ॥
3 · p. 45
अनुष्टुप्
गो गणपतिरुद्दिष्टो गन्धर्वो गौर्वसुन्धरा ।गं च गीतेऽपि गो मात्य (माता) गौश्च धेनुः सरस्वती ॥ ४ ॥
4 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
घो घण्टीशः समाख्यातः किङ्किणी घा प्रकीर्तिता ।घन(घश्च) मेघः समाख्यातस्तथा घो घर्घरस्वने ॥ ५ ॥
5 · p. 45
अनुष्टुप्
ङकारो भैरवः ख्यातो डकारो विषये स्मृतः ।चन्द्रमाश्चः समाख्यातस्तस्करश्च उदाहृतः ॥ ६ ॥
6 · p. 45
अनुष्टुप्
निर्मलं छं समाख्यातं तरलं छु प्रकीर्तितम् ।छेदने छः समाख्यातो विद्वद्भिः शब्दवेदिभिः ॥ ७ ॥
7 · p. 45
अनुष्टुप्
वेगिते जः समाख्यातो जनने जिः प्रकीर्तितः ।जो जेता च समाख्यातः सूरिभिः शब्दशासने ॥ ८ ॥
8 · p. 45
अनुष्टुप्
चारुवाद्ये झकारः स्यान्नष्टे झः समुदाहृतः ।झञ्झावायुर्झकारः स्याद् ञकारो घर्घरस्वरे ॥ ९ ॥
9 · p. 45
अनुष्टुप्
टा पृथिव्यां करङ्के टष्टो ध्वाने च प्रकीर्त्तितः ।ठो महेश्वर आख्यातस्तथा शून्ये प्रकीर्तितः ॥ १० ॥
10 · p. 45
अनुष्टुप्
बृहद्ध्वनिश्च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ।डकारः सङ्गरे त्रासे डकारो ध्वनिरुच्यते ॥ ११ ॥
11 · p. 45
अनुष्टुप्
ढकारः कीर्त्तिता ढक्का निर्गुणे च ध्वनावपि ।णकारो निर्णये ज्ञाने शूकरेऽपि प्रकीर्तितः ॥ १२ ॥
12 · p. 45
अनुष्टुप्
तकारः कथितश्चौरः क्रोडपुच्छे प्रकीर्त्तितः ।शिलोच्चये थकारः स्यात् थकारो भयरक्षणे ॥ १३ ॥
13 · p. 45
अनुष्टुप्
दं कलत्रं बुधैः प्रोक्तं दान-च्छेदन-दातृषु ।धं धने च धनेशे च धा च धर्मरतिर्मता ॥ १४ ॥
14 · p. 45
अनुष्टुप्
सम्पत्तौ च तथा धः स्यात् तथैव यक्ष-चन्द्रयोः ।नकारः सुगते बन्धेऽनुगतौ परिकीर्त्तितः ॥ १५ ॥
15 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्त्तितः ।पवने पः समाख्यातः पा स्यात् पाने च पातरि ॥ १६ ॥
16 · p. 45
अनुष्टुप्
फूत्कारेऽपि च फः प्रोक्तस्तथा निष्फलभाषणे ।वरुणे बः समाख्यातः कलशे ब उदाहृतः ॥ १७ ॥
17 · p. 45
अनुष्टुप्
पक्षिचञ्चू(?ञ्चौ) निगदितो गगनं बिः प्रकीर्त्तितम् ।नक्षत्रं भं बुधाः प्राहुर्भ्रमरे भः प्रकीर्त्तितः ॥ १८ ॥
18 · p. 45
अनुष्टुप्
दीप्तिर्भा भूश्च भूमिश्च भीर्भयं समुदाहृतम् ।मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ॥ १९ ॥
19 · p. 45
अनुष्टुप्
मार्गे माताऽभिमाने च बन्धने मूः प्रकीर्त्तितः ।(… ॥ २० ॥
20 · p. 45
अनुष्टुप्metre not read in every line
… ।)वदन्ति शं बुधाः श्रेयः शास्तु शास्ता निगद्यते ॥ २२ ॥
22 · p. 45
अनुष्टुप्metre not read in every line
शी (च) शयनमित्याहुर्हिंसा शु[श्]च निगद्यते ।षश्च संकीर्त्तितः श्लेष्मा षु[श्]च गर्भविमोचने ॥ २३ ॥
23 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सः परोक्षः समाख्यातः सा च लक्ष्मीर्निगद्यते ।सः कोपे वारणे हः स्यात् तथा शूलिनि कीर्त्तितः ॥ २४ ॥
24 · p. 45
अनुष्टुप्
क्षेत्रे वपुषि क्षः प्रोक्तः प्रवदन्ति मनीषिणः ।अः केशवे निषेधे च आकारश्च पितामहः ॥ २५ ॥
25 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षि (wrong syllable)
अत्यर्थवाचि मण्डन्यामाशब्दः परिकीर्त्तितः ।इकार उच्यते कामो लक्ष्मीरीकार इष्यते ॥ २६ ॥
26 · p. 45
अनुष्टुप्
उकारः शङ्करः प्रोक्त ऊकारश्चैव रक्षणे ।ऋकारो देवमाता स्याद् ऋकारो दनुजप्रसूः ॥ २७ ॥
27 · p. 45
अनुष्टुप्
लृकारो देवयोनीनां माता सद्भिः प्रकीर्त्तिता ।एकारो विष्णुराख्यात ऐकारः स्यान्महेश्वरः ॥ २८ ॥
28 · p. 45
अनुष्टुप्
ओकारस्तु भवेद्ब्रह्मा औकारोऽनन्त उच्यते ।अं चापि स्यात् परंब्रह्म अः स्याच्चैव महेश्वरः ॥ २९ ॥
29 · p. 45
अनुष्टुप्