कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaranāmamālā

एकाक्षरनाममाला Ekākṣaranāmamālā

47 verses · text only, tagging comes next

Part 1

वररुचिविद्वत्कृता

एकाक्षरनाममाला

गं गामुमामुमौ मामं सन्नम्य व्याहराम्यहम् ।काव्यकौशलसिद्ध्यर्थमेकाक्षरनिघण्टुकम् ॥ १ ॥
1 · p. 36
अनुष्टुप्
अकारो वासुदेवः स्यादाकारस्तु पितामहः ।इकार उच्यते कामो लक्ष्मीरीकार उच्यते ॥ २ ॥
2 · p. 36
अनुष्टुप्
उकारः शङ्करे प्रोक्त ऊकारस्त्विह रक्षणे ।ऋकारो देवमाता स्याद् ऋ धाता तु प्रकीर्त्तितः ॥ ३ ॥
3 · p. 36
अनुष्टुप्
लृकारो देवयोनीनाम् लॄर्धाता तु प्रकीर्त्तितः ।एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः ॥ ४ ॥
4 · p. 36
अनुष्टुप्
ओकार उच्यते ब्रह्मा औकारोऽनन्त उच्यते ।अं भवेत् परमं ब्रह्म अः स्याच्चैव महेश्वरः ॥ ५ ॥
5 · p. 36
अनुष्टुप्
कः प्रजापतिरुद्दिष्टः को वायुरिति शब्दितः ।क आत्मा च समाख्यातः प्रकाशे क उदाहृतः ॥ ६ ॥
6 · p. 36
अनुष्टुप्
सखा कश्च बुधैरुक्तो मुखे सूर्येऽपि कः स्मृतः ।कं शिरो जलमाख्यातं कं सुखे परिकीर्त्तितम् ॥ ७ ॥
7 · p. 36
अनुष्टुप्
पृथिव्यां कुः समाख्यातः कुशब्दः कुत्सितेऽपि च ।खमिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ॥ ८ ॥
8 · p. 36
अनुष्टुप्
स्वर्गेऽपि च खं संप्रोक्तं शून्ये खड्गेऽपि खं स्मृतम् ।खगोऽपि खः समाख्यातः स्वर्गेऽपि ख उदाहृतः ॥ ९ ॥
9 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 खं (wrong syllable)
सूर्येऽपि खः समाख्यातः शून्यार्द्धे खमपि स्मृतम् ।बिन्दौ सुखे श्रोतसि खं कथितं पूर्वसूरिभिः ॥ १० ॥
10 · p. 36
अनुष्टुप्
गो गणपतिरुद्दिष्टो गो गन्धर्वे प्रकीर्त्तितः ।गं च गीतं गश्च गाता गौर्धेनुर्गौः सरस्वती ॥ ११ ॥
11 · p. 36
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
गौर्वाणी च समाख्याता गावो बाणाः प्रकीर्त्तिताः ।दिशि भू-रश्मि-वज्रेषु गौरक्ष्णि स्वर्ग-चारिणि ॥ १२ ॥
12 · p. 36
अनुष्टुप्
घो घण्टायां समाख्यातः किङ्किणी घा प्रकीर्त्तिता ।हनने घर्घरे घोषेऽन्तर्घाते घो घटेऽपि च ॥ १३ ॥
13 · p. 36
अनुष्टुप्
ङकारो भैरवे प्रोक्तो ङकारो विषये स्मृतः ।चश्चन्द्रमाः समाख्यातस्तरवश्चा उदाहृताः ॥ १४ ॥
14 · p. 36
अनुष्टुप्
चुश्चकोरे चकारोऽपि पक्षान्तरे समुच्चये ।निर्मलं छं समाख्यातं तडिच्छः सम्प्रकीर्त्तितः ॥ १५ ॥
15 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
छेदने छः समाख्यातः सूक्ष्मेऽपिच्छ उदाहृतः ।छन्दःसुच्छं समाख्यातं छश्च संवरणेऽपि च ॥ १६ ॥
16 · p. 36
अनुष्टुप्
वेगिते जः समाख्यातो जनने जः प्रकीर्त्तितः ।जस्तेजसि समाख्यातो जेता जश्च प्रकीर्त्तितः ॥ १७ ॥
17 · p. 36
अनुष्टुप्
चारुचारो झकारः स्यान्नक्तं झः समुदाहृतः ।झञ्झावायुर्झकारः स्याज्झषो झः समुदाहृतः ॥ १८ ॥
18 · p. 36
अनुष्टुप्
ञकारो गूढरूपेषु ञकारो व्यूहितेऽपि च ।ञकारो गायने प्रोक्तो ञकारो घर्घरे ध्वनौ ॥ १९ ॥
19 · p. 36
अनुष्टुप्
टः पृथिव्यां चकोरेऽब्दे टं टो वायौ प्रकीर्त्तितः ।ठो महेशः समाख्यातष्ठश्च शून्ये प्रकीर्त्तितः ॥ २० ॥
20 · p. 36
अनुष्टुप्
बन्दिवृन्दे च डः प्रोक्तो डकारश्चन्द्रमण्डले ।डकारः शङ्करे त्रासे डकारो ध्वनिरुच्यते ॥ २१ ॥
21 · p. 36
अनुष्टुप्
ढकारः कीर्त्तितो ढक्का निर्गुणे च ध्वनावपि ।णकारः कीर्त्तितो ज्ञाने निर्गुणे णः प्रकीर्त्तितः ॥ २२ ॥
22 · p. 36
अनुष्टुप्
णकारः प्रकटे बन्धे णुः स्तुतौ च प्रकीर्त्तितः ।तकारः कथितश्चौरे क्रोडे युद्धे च कीर्तितः ॥ २३ ॥
23 · p. 36
अनुष्टुप्
तुः स्यात् पूर्वनिवृत्तौ च पूर्वस्माच्च विलक्षणे ।अवधारणे तुकारो विकल्पार्थे तथोदितः ॥ २४ ॥
24 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
शिलोच्चये थकारः स्यात् थकारो भार उच्यते ।दं कलत्रं बुधैः प्रोक्तं दो दानेऽपि च दातरि ॥ २५ ॥
25 · p. 36
अनुष्टुप्
धं धने धनदे धीरे धी धीरिषुधिरुच्यते ।धूर्धुरा कम्पने धूते धश्चाऽश्ववार-चित्रयोः ॥ २६ ॥
26 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्व (wrong syllable)
रथाङ्गे धूः समाख्याता चिन्तायां धूः प्रकीर्त्तिता ।नकारः कीर्त्तितो ज्ञाने नुः स्तुतौ च प्रकीर्त्तितः ॥ २७ ॥
27 · p. 37
अनुष्टुप्
नेता नीर्ना मनुष्ये च तरण्यां नौः प्रकीर्त्तिता ।नो निषेधे नकारेऽपि निःश्रुतेऽपि प्रकीर्त्तितः ॥ २८ ॥
28 · p. 37
अनुष्टुप्
नौ निषेधे नकारेऽपि नौ तथाप्यावयोस्तु नौ ।अस्मानस्माकमस्मभ्यमित्यस्मिन्नः प्रकीर्त्तितः ॥ २९ ॥
29 · p. 37
अनुष्टुप्
पकारः पवने प्रोक्तः पा स्तुतौ पा च पातरि ।पकारो वर्णके प्रौढे पकारः प्रकटे पथि ॥ ३० ॥
30 · p. 37
अनुष्टुप्
फम्फावाते फकारः स्यात् तथा निष्फलभाषणे ।पुष्करेऽपि फकारः स्यात् फकारो भयरक्षणे ॥ ३१ ॥
31 · p. 37
अनुष्टुप्
प्रचेता बः समाख्यातः कलहे ब उदाहृतः ।पक्षी च बिर्निगदितो गगनं बिस्तथोदितम् ॥ ३२ ॥
32 · p. 37
अनुष्टुप्
नक्षत्रं भं बुधाः प्राहुर्भ्रमरे भः प्रकीर्त्तितः ।दीप्तिर्भा भूर्भवेद्भूमिर्भीर्भयं कथितं बुधैः ॥ ३३ ॥
33 · p. 37
अनुष्टुप्
मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ।मा तु मातरि माने च बन्धने मुः प्रकीर्त्तितः ॥ ३४ ॥
34 · p. 37
अनुष्टुप्
मे ममार्थे निषेधे मा मामित्यत्र प्रकीर्त्तितः ।यमो यः कथितः शिष्टैर्यो धातरि च सम्मतः ॥ ३५ ॥
35 · p. 37
अनुष्टुप्
या नियन्तरि या लक्ष्मीः कथिता शब्दकोविदैः ।रश्च रामेऽनले वज्रे शब्दे रश्च प्रकीर्त्तितः ॥ ३६ ॥
36 · p. 37
अनुष्टुप्
धने रा आश्रये ख्यातो रुर्भये रक्षणेऽपि च ।इन्द्रेऽपि लवने चैव लूर्लाऽऽदाने प्रकीर्त्तितः ॥ ३७ ॥
37 · p. 37
अनुष्टुप्
दिशश्चापि लवश्चैव लकारश्चामृते स्मृतः ।लेः श्लेषणे समाख्यातः शब्दशासनकोविदैः ॥ ३८ ॥
38 · p. 37
अनुष्टुप्
सान्त्वने वरुणे वाते वकारः सम्प्रकीर्त्तितः ।वा वितर्के विकल्पे च युष्माकं वः प्रकीर्त्तितः ॥ ३९ ॥
39 · p. 37
अनुष्टुप्
युष्मभ्यं च तथा युष्मान् वां युवयोश्च कीर्त्तितः ।पक्षिणि गगने चैव विश्च प्रोक्तो मनीषिभिः ॥ ४० ॥
40 · p. 37
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 3 णि (wrong syllable)
ब्रुवन्ति शं बुधाः श्रेयः शान्ते शा च निगद्यते ।शीश्चापि शयने प्रोक्ता हिंसायां शुर्निगद्यते ॥ ४१ ॥
41 · p. 37
अनुष्टुप्
षकारः कीर्त्तितः श्लेष्मा षूश्च गर्भविमोचने ।सदारः षः समाख्यातः सा च लक्ष्मीः प्रकीर्त्तिता ॥ ४२ ॥
42 · p. 37
अनुष्टुप्
सः परोक्षे च कामे च सः कोपे वारुणे स्मृतः ।सः सूर्येऽपि समाख्यातः सं सम्यक् परिकीर्त्तितम् ॥ ४३ ॥
43 · p. 37
अनुष्टुप्
हः कोपवाची रणे हस्तथा शूले निगद्यते ।हिः स्याद्धेतौ वितरणे तथा हिरवधारणे ॥ ४४ ॥
44 · p. 37
अनुष्टुप्
हे तु सम्बोधने प्रोक्तो है हा चेति (तु) कष्टयोः ।हुं प्रश्ने चाथ होमे च हं परब्रह्मलक्षणम् ॥ ४५ ॥
45 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हो निपाते च बोधे हो हस्ते दारुणि शूलिनि ।क्षः क्षेत्रे राक्षसे चापि क्षिः क्षये सम्प्रकीर्त्तितः ॥ ४६ ॥
46 · p. 37
अनुष्टुप्
इति वाररुचं प्रोक्तं यो वेत्त्येनं निघण्टुकम् ।वागर्णवे यथाकामं तस्य स्वान्तं प्रवर्त्तते ॥ ४७ ॥
47 · p. 37
अनुष्टुप्