कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaranāmamālikā

एकाक्षरनाममालिका Ekākṣaranāmamālikā

115 verses · text only, tagging comes next

Part 1

विश्वशम्भुप्रणीता

एकाक्षरनाममालिका

ध्यात्वा नत्वा निरीक्ष्यान्तःकरणे कर्मसाक्षिणम् ।क्रियते नूतना नाममालैकाक्षरवाचिका ॥ १ ॥
1 · p. 3
अनुष्टुप्
यतयो ये परं पारं शब्दाम्भोधेर्गता मताः ।एषा तेषामतो मान्या महाभावमनीषिणाम् ॥ २ ॥
2 · p. 3
अनुष्टुप्
स्वमेवार्थं स्वयं रान्ति यतोऽकारादयः स्वराः ।स्वराभावे ककारादिव्यञ्जनं व्यर्थमेव हि ॥ ३ ॥
3 · p. 3
अनुष्टुप्
न क्षरत्यक्षरं तेन स्वर एव तदुच्यते ।व्यञ्जनानि स्वराश्चैव वर्णशब्देन वर्णिताः ॥ ४ ॥
4 · p. 3
अनुष्टुप्
अः शिवे केशवे वायौ ब्रह्म-चन्द्रा-ऽग्नि-भानुषु ।आः स्वयम्भूस्तथोक्ते स्यादव्ययं कोप-पीडयोः ॥ ५ ॥
5 · p. 3
अनुष्टुप्
एषामपत्ये कामे स्यादिः सम्बोधन-कोपयोः ।इः कुत्सार्थेऽपि पापेऽपि निषेधे नयनभ्रमे ॥ ६ ॥
6 · p. 3
अनुष्टुप्
ई रमा-मदिरा-मोहे महानन्दे शिरोभ्रमे ।स्त्रीलिङ्गोऽयमुणाद्यन्तो नातोऽस्माल्लोपनं सुपः ॥ ७ ॥
7 · p. 3
अनुष्टुप्
ईर्यौ योऽत्र जसा रूपं स्यादमा रूपमीं शसीः ।ईशब्दो द्रव्यपर्यायेऽव्ययं वृद्धैः प्रदर्शितम् ॥ ८ ॥
8 · p. 3
अनुष्टुप्
उः शब्दः शङ्करे तोये तोयधौ धरणीधरे ।अवसाने वितर्केऽपि वचनावसरेऽव्ययम् ॥ ९ ॥
9 · p. 3
अनुष्टुप्
एतदर्थे निषेधेऽपि निर्णीतो दीर्घ ऊरपि ।ऊं मान्तोऽव्ययं कोपेऽपि स्वार्थेऽप्यूं च प्रकीर्त्तितः ॥ १० ॥
10 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यं (wrong syllable)
रक्षार्थवाचकावेतौ व्याख्यातौ लघु-दीर्घकौ ।ऋशब्दः पावके सूर्ये धर्मे दाने धने पुमान् ॥ ११ ॥
11 · p. 3
अनुष्टुप्
आ अरौ अर एतानि अरं चारौ ॠंश्च शसि ।ॠर्दीर्घो देवमाता स्याद् ऋभवस्तेन ते सुराः ॥ १२ ॥
12 · p. 3
अनुष्टुप्metre not read in every line
स्त्रीलिङ्गोऽयं धने वह्नौ वासवे वरुणालये ।ॠः रौ रो रूपमेतस्य सन्धिसामान्यसाधनम् ॥ १३ ॥
13 · p. 3
अनुष्टुप्
लृर्ह्रस्वो लघुसंवादे शक्तौ सर्वर्षिमातरि ।लघ्वक्षरेऽपि लृ क्लीबे दीर्घलॄर्देवमातरि ॥ १४ ॥
14 · p. 3
अनुष्टुप्
वाराह्यां वर्त्तते दीर्घः सौदामिन्यामिदं द्वयम् ।सर्पे मन्त्रे तथा तन्त्रे लृद्वयं लुकिते तते ॥ १५ ॥
15 · p. 3
अनुष्टुप्
केऽपि दीर्घं न मन्यन्तेऽनुकृतेर्मन्वतेऽपरे ।कामसम्बोधने स्यादे तत एर्ब्रह्मकेवले ॥ १६ ॥
16 · p. 3
अनुष्टुप्
एशब्देनोदिता चण्डी गोचरे गोपतावयम् ।ऐः स्वर्णेऽपि च पुंलिङ्गः शम्भु-श्रीपति-वायुषु ॥ १७ ॥
17 · p. 3
अनुष्टुप्
शारदायां स्वरे सूर्ये मूर्च्छायामैरपि स्मृतः ।ओशब्दो रक्षणे शेषे सूत्रे पुंसि श्रुतावपि ॥ १८ ॥
18 · p. 3
अनुष्टुप्
औः समुद्रे जलेऽनन्ते पीडने पुंसि भाषणे ।अं मान्तो ब्रह्मसंवादे परब्रह्मप्रवाचकः ॥ १९ ॥
19 · p. 3
अनुष्टुप्
व्यसने व्याधिते व्याधौ ज्ञान-विज्ञान-वन्दने ।अः सान्तः शङ्करे सूर्ये दाना-ऽऽदान-प्रदीप्तिषु ॥ २० ॥
20 · p. 3
अनुष्टुप्
सत्तायां क्षेपणे खेदे तथाऽऽश्चर्ये च निन्दके ।को ब्रह्मा-ऽऽत्म-प्रकाशा-ऽर्क-केकि-वायु-यमा-ऽग्निषु ॥ २१ ॥
21 · p. 3
अनुष्टुप्
कं मौलि-सुख-तोयेषु कः शब्दः सर्वलिङ्गकः ।सर्वनामगणोक्तो यस्तस्य रूपं त्रिलिङ्गकम् ॥ २२ ॥
22 · p. 3
अनुष्टुप्
कुः स्त्रियां भुवि कुत्सायामव्ययं कु प्रकीर्त्तितम् ।कुः काक-शब्दयोर्मान्तः कं कान्तौ कामवाचकः ॥ २३ ॥
23 · p. 3
अनुष्टुप्
वाच्यलिङ्गः खशब्दोऽर्के वितर्के व्योम्नि वेदने ।प्रश्न-निन्दा-नृप-क्षेप-सुख-शून्येन्द्रिये दिवि ॥ २४ ॥
24 · p. 3
अनुष्टुप्
अवसानेऽपवर्गेऽपि परब्रह्मण्यपीरितः ।गस्तु गातरि गन्धर्वे शब्द-सङ्गीतयोरपि ॥ २५ ॥
25 · p. 4
अनुष्टुप्
गौर्गणेश-पशु-स्वर्गे वज्रा-ऽऽशा-भूदकेऽक्षिणि ।वाण्यां किरण-बाणा-ऽस्रे पुंलिङ्गोऽयमुदीरितः ॥ २६ ॥
26 · p. 4
अनुष्टुप्
आबन्तो गाऽवनीवाची गैः पुमान् शब्द-गीतयोः ।ईबन्तो गीर्गिरौ वाण्यां धातुवद्गाश्च गाथकः ॥ २७ ॥
27 · p. 4
अनुष्टुप्
मारणे मरणे घाते घण्टायां किङ्किणीरवे ।शक्तौ सभैरवे देवे घो मन्त्रेऽन्यार्थवाचकः ॥ २८ ॥
28 · p. 4
अनुष्टुप्
पुण्ये प्रवाहे पाषण्डे घं च घोरे धुरो रवे ।घिरिदन्तो घृते दीप्तौ घाऽऽबन्तो भूमिवाचकः ॥ २९ ॥
29 · p. 4
अनुष्टुप्
ङः शून्ये दानवाञ्छायां निन्दायामाधिसादरे ।सौदामिन्यां नदे सर्पे सिद्धौ तल्लिङ्गवाचकः ॥ ३० ॥
30 · p. 4
अनुष्टुप्
चः पुंसि चेतने चन्द्रे चौरेऽहौ चारुदर्शने ।इदन्तश्चिः स्त्रियां बुद्धौ ज्ञाने चारे च पावके ॥ ३१ ॥
31 · p. 4
अनुष्टुप्
चान्वाचय-समाहारेतरेतर-समुच्चये ।समासार्थेऽव्ययं चायमाबन्तश्चा दिवि स्मृतः ॥ ३२ ॥
32 · p. 4
अनुष्टुप्
छः सूर्ये सोमनैर्मल्ये छेदे स्वच्छे च ज्ञातरि ।छन्दोनुवर्त्तिनि प्रोक्तश्छाऽऽबन्तो निम्नगा-गिरौ ॥ ३३ ॥
33 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
छौः स्त्रियां लोहधारायां छौस्तु पुंसि परश्वधे ।वानरे हरिणे छागे छिः पुंसि प्रोच्यते छले ॥ ३४ ॥
34 · p. 4
अनुष्टुप्
जो जेता जं च जीवेऽपि जुर्वेगे नभसि स्वके ।जाया-जनन्योर्जाऽऽबन्तः शय्यायामपि जारजे ॥ ३५ ॥
35 · p. 4
अनुष्टुप्
स्त्रियां जूर्गतिवाची स्याज्जापे शापेऽपि जिः पुमान् ।ह्रस्वो दीर्घोऽपि जृशब्दो जरायां दुर्गतावपि ॥ ३६ ॥
36 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 जृ (wrong syllable)
जी रेफान्तस्तदर्थः स्त्री जूर्जुवौ जुव इत्यपि ।प्रादुर्भावे नवे जः स्यादपत्ये जं च जन्मनि ॥ ३७ ॥
37 · p. 4
अनुष्टुप्
झशब्दः स्वपने शून्ये तथोर्द्ध्वक्षेपणेऽपि झः ।विनष्टे विवरे भृङ्गे स्त्रियां झा तडिति स्मृतः ॥ ३८ ॥
38 · p. 4
अनुष्टुप्
वने च भुवने झं स्यादेकान्ते सङ्गते च झम् ।स्रवद्द्रव्ये भगे भोगे सविलासा सुन्दरी च झा ॥ ३९ ॥
39 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सवि (syllable split)
अकस्माद्दर्शने शोके मूढास्रमोचने च झुः ।ऊदन्तः स्त्रीलिङ्गो झिश्च सर्वधातुध्वनौ च झीः ॥ ४० ॥
40 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable); pāda 3, syllable 5 लि (wrong syllable)
झीर्झिरौ झिर इत्येवंरूपो हानौ जरार्थकः ।ञो ज्ञाने गायने दाने घुर्घुरध्वनिते च ञम् ॥ ४१ ॥
41 · p. 4
अनुष्टुप्
ञोऽर्द्धेन्दुमण्डले मन्त्रे वाप्यां ञा ञिस्तु पर्वते ।निषेधे चञ्चले ञुः स्यान्निर्माणे ञीरिति ध्वनिः ॥ ४२ ॥
42 · p. 4
अनुष्टुप्
टः स्थिरे ताडने त्रासे विश्वासेऽश्वे च पुंस्ययम् ।टाऽऽबन्तो घटिकावाची पृथिव्यां टं करङ्कके ॥ ४३ ॥
43 · p. 4
अनुष्टुप्
भूषायां च मणौ मेण्ढ्रे टुः स्याद्भ्रष्टे टि पक्षिणि ।पारस्त्रैणे टिशब्दोऽस्ति फटायां टा जटास्वपि ॥ ४४ ॥
44 · p. 4
अनुष्टुप्
मुद्रो-र्मि-महिलासु स्त्री टीबन्तः पटहेऽपि टम् ।ठो महेशे महामन्त्रे मन्त्रि-भूपा-ऽऽधि-ताण्डवे ॥ ४५ ॥
45 · p. 4
अनुष्टुप्
आसने शयने शून्ये तथाऽऽकाशे जलाशये ।घटे चक्रे च मुद्रायां कुण्डले भाग्यवत् कचे ॥ ४६ ॥
46 · p. 4
अनुष्टुप्
ठीबन्तो मत्स्यसङ्घाते ठाऽऽबन्तः कर्णकोटरे ।विलये विजये देवसेवने ठुः प्रियाऽर्जिते ॥ ४७ ॥
47 · p. 4
अनुष्टुप्
नखोच्छूनकुचे काञ्च्यां ठुः स्त्री कृत्रिमरोदने ।ठेरेदन्तो वृथाहास्ये सूर्ये तारासु ठौः स्त्रियाम् ॥ ४८ ॥
48 · p. 4
अनुष्टुप्
वञ्चके वेषकारे ठुष्ठं बिन्दौ जलबुद्बुदे ।ठशब्देऽन्येऽपि सन्त्यर्थास्ते नोच्यन्तेऽतिविस्तृतेः ॥ ४९ ॥
49 · p. 4
अनुष्टुप्
डो भयङ्करनादेषु चन्द्रे चञ्चलयोषिति ।जिह्वायां कुण्डलिन्यां डा चण्डिका-भूतभाषयोः ॥ ५० ॥
50 · p. 4
अनुष्टुप्
धातुवड्डूश्च हिंसायां वधे क्षेपे च डौर्द्वयोः ।डूर्डुवौ डुव इत्येवं डौर्डावावपरस्य च ॥ ५१ ॥
51 · p. 4
अनुष्टुप्
भ्रान्ते सर्ववधे बाले बलहीने वृथाकुले ।पुंसि डुर्व्यर्थवाचाले सर्पे शापे च डूः स्त्रियाम् ॥ ५२ ॥
52 · p. 5
अनुष्टुप्
कालक्षेपे तथा दण्डे डीः पुंसि व्योमगामिनि ।उत्पाते जरत्काये डुः फेने दानेऽल्परोदने ॥ ५३ ॥
53 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
व्रणे वा पुंसि डं प्राहुः क्षुद्रजन्तौ वृथोदिते ।मुस्तापत्रे करे डी स्त्री डोरोदन्तोऽन्त्यजे नरि ॥ ५४ ॥
54 · p. 5
अनुष्टुप्
ढो ढक्का निर्गुणे लास्ये गोमुखे ढं नपुंसके ।ढीर्ना शुनी समाख्याता पक्षिभेदे स्त्रियां ढिर्वा ॥ ५५ ॥
55 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ढि (wrong syllable)
प्रहारे चायुधे ढः स्यात् पाते ढोऽपाठि पण्डितैः ।श्वापदे दुर्जने मूढे वाद्यभेदे ढ उच्यते ॥ ५६ ॥
56 · p. 5
अनुष्टुप्
कर्णरोगेप्यतिस्थूले गुदवाते ध्वनौ च ढुः ।प्राभृते वन्दनायां ढा ढः स्वभावे विमत्सरे ॥ ५७ ॥
57 · p. 5
अनुष्टुप्
णो निर्गुणे जपे योग्ये दुष्टे क्रोडे च तस्करे ।पशुपुच्छे स्त्रियां णा स्त्री बृहन्माने च णुः पुमान् ॥ ५८ ॥
58 · p. 5
अनुष्टुप्
संप्रत्यये तथा स्वार्थे णः कोणे चैकचक्षुषि ।क्षीरे रणे धने धान्ये णीः पुमान् णीर्णियौ णियः ॥ ५९ ॥
59 · p. 5
अनुष्टुप्
समे स्वरे चये चारे चरणे णिश्चोभयात्मकः ।तः प्रेते निष्फले शाते पौनःपुन्येऽव्ययं च तुः ॥ ६० ॥
60 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 चर (syllable split)
रङ्गे रागे तुलादण्डे भानौ तूर्यध्वनौ च ता ।पूजायां तिः स्त्रियां तोके मनोमाने महाघने ॥ ६१ ॥
61 · p. 5
अनुष्टुप्
अविलम्बे जले क्लीबे तस्तन्तौ तन्तुवायके ।तौश्च तौरेतदर्थेऽस्ति तैर्वसाने वयत्यपि ॥ ६२ ॥
62 · p. 5
अनुष्टुप्
तैस्तायौ ताय इत्येवंरूपं स्त्री-पुंसयोरपि ।ह्रस्वदीर्घौ तु-तू भेदे प्रश्ने ध्यानेऽव्ययं द्वयम् ॥ ६३ ॥
63 · p. 5
अनुष्टुप्
थो मिथ्यावाचके श्रान्ते शोके थाऽऽरब्धवस्तुनि ।निमग्ने चातिगम्भीरे थं स्तोकार्थे नपुंसकम् ॥ ६४ ॥
64 · p. 5
अनुष्टुप्
मरुदेशप्रदेशेऽपि थाबन्तः स्थूलयोषिति ।देवकूटे कषाये स्त्री दृढे परिवृढेऽपि था ॥ ६५ ॥
65 · p. 5
अनुष्टुप्
थुः पुंसि पर्वते द्रोणे व्रणे थुर्निन्दिते पुमान् ।निष्ठीवने बले भूते थीबन्तो भाजने भुवि ॥ ६६ ॥
66 · p. 5
अनुष्टुप्
दो दाने पूजने क्षीणे दानशौण्डे च पालके ।देवे दीप्तौ दुराधर्षे दोर्भुजे दीर्घदेशके ॥ ६७ ॥
67 · p. 5
अनुष्टुप्
दयायां दमने दीने दन्दशूकेऽपि दः स्मृतः ।बन्धे च बन्धने बोधे बाले बीजे बलोदिते ॥ ६८ ॥
68 · p. 5
अनुष्टुप्
विदोषेऽपि पुमानेष चालने चीवरे वरे ।दाऽऽबन्तो दिवि गङ्गायां कुले कालकृते च दा ॥ ६९ ॥
69 · p. 5
अनुष्टुप्
उपदायां च नैवेद्ये निर्नाथा वनिता च दा ।दैः स्त्रियां देवकन्यायां दीबन्तो देवतर्पणे ॥ ७० ॥
70 · p. 5
अनुष्टुप्
धो विधाता धनं धर्मे धो गुह्ये गुह्यकेश्वरे ।धश्चाऽश्वाधारभूतेऽपि वह्नौ वादेऽवधायके ॥ ७१ ॥
71 · p. 5
अनुष्टुप्
देशभेदे भृते भीते धस्तथोपरि वर्त्तते ।धं च षण्ढे च पारुष्ये धूर्वधूवद्धुरि स्मृतः ॥ ७२ ॥
72 · p. 5
अनुष्टुप्
भारे धौर्नौवदादिष्टा धीर्बुद्धौ धातुवत् स्त्रियाम् ।ध्याने धेनौ धरायां च धैरैदन्तः पुमानयम् ॥ ७३ ॥
73 · p. 5
अनुष्टुप्
धृ ता(ना) पतिरपि प्रोक्तो धुश्च धूर्तोऽतिधृष्टकः ।वञ्चने धं च तत्सेना धा स्त्रियां च तथाऽधिके ॥ ७४ ॥
74 · p. 5
अनुष्टुप्
धिः समग्रे सुधावार्द्धौ लोहे धौरपि चेष्यते ।धोशब्दः के निपातेषु प्राहुः पदविचक्षणाः ॥ ७५ ॥
75 · p. 5
अनुष्टुप्
नो नरे च सनाथेऽपि नोऽनर्थेऽपि प्रदर्श्यते ।नृशब्दोऽपि नरे नाथे ना नरौ नर इत्यपि ॥ ७६ ॥
76 · p. 5
अनुष्टुप्
न नो इति निपातौ द्वौ नू दीर्घोऽपि तथोदितः ।पृच्छायां नु वितर्केऽपि नि-र्निशब्दौ तथाऽव्ययम् ॥ ७७ ॥
77 · p. 5
अनुष्टुप्
नीबन्तो लक्ष्मीवाच्यः स्यान्नीर्नेतरि नियौ नियः ।नुः स्तुतौ दीर्घह्रस्वः स्त्री नैर्नौश्च तरणौ स्त्रियाम् ॥ ७८ ॥
78 · p. 6
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्ष्मी (wrong syllable); pāda 3, syllable 5 र्घ (wrong syllable)
नूशब्दः पातके पुंसि वायौ क्लीबे नु वारिणि ।नं ब्रह्मणि तथाऽनन्ते सानन्दे नं च नन्दने ॥ ७९ ॥
79 · p. 6
अनुष्टुप्
पः सूर्ये शोषणे वह्नौ पाताले वरुणेऽनिले ।परित्राणे क्षमे क्षेत्रे निपाते पङ्कसङ्कुले ॥ ८० ॥
80 · p. 6
अनुष्टुप्
उच्चदेशे स्थले पं स्यात् पूः पवित्रे पुवौ पुवः ।पूः पृथिव्यां वधूवत् स्यात् पौरपि स्त्री यथा च नौः ॥ ८१ ॥
81 · p. 6
अनुष्टुप्
पाबन्तः पी च पा लक्ष्मीपर्यायौ धातुवच्च पाः ।पाशब्दार्थे पुमानेष षष्ठ्यां पः पोस्तथा च पाम् ॥ ८२ ॥
82 · p. 6
अनुष्टुप्
भानुवत् पण्डिते पुः स्यात् पटहे पुरुषोत्तमे ।पिः पुंसि पीडितारावे सागरे सादरे दरे ॥ ८३ ॥
83 · p. 6
अनुष्टुप्
फोऽपारदर्शने देवे न्याये ज्ञाने च नीरधौ ।फं चायतन-बीजे फं फले फं निष्फले ध्वनौ ॥ ८४ ॥
84 · p. 6
अनुष्टुप्
फाऽऽबन्तो मृग-मारीचे फा फणा फं फणे च फा ।चक्रवर्त्तिनि फं क्लीबे लाभे लोभे विपर्यये ॥ ८५ ॥
85 · p. 6
अनुष्टुप्
मूर्त्तौ डयने फं चार्के माहेन्द्रे जालके च फम् ।सगर्भा योषिता फी स्यात् फूर्वधूवद्रुषाकुले ॥ ८६ ॥
86 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
बो दन्त्यौष्ठ्यस्तथौष्ठ्योऽपि वरुणे वारुणे वरे ।शोषणे पवने गन्धे वासे वृन्दे च वारिधौ ॥ ८७ ॥
87 · p. 6
अनुष्टुप्
वन्दने वदने वादे वेदनायां च बा स्त्रियाम् ।झञ्झावाते तथा मन्त्रे सर्वमन्त्रेऽमृतात्मकः ॥ ८८ ॥
88 · p. 6
अनुष्टुप्
बी गतार्थे विशेषार्थे विनिपातितखादने ।जनने प्रजने कान्तौ तद्रूपं बीर्बियौ बियः ॥ ८९ ॥
89 · p. 6
अनुष्टुप्
बीबन्तो बी नदीनाथे बाऽऽबन्तो बा च वासने ।धातुवद्बा च शब्दार्थे बे बो बौ बि ङिति स्मृतः ॥ ९० ॥
90 · p. 6
अनुष्टुप्
भा भास्करे भास्वरेऽपि भायां भा भोगयोषिति ।पितृ-भ्रातृ-पितृव्येषु भोऽतिभीते भ आकुले ॥ ९१ ॥
91 · p. 6
अनुष्टुप्
भं नक्षत्रे भगे भोगे भीतौ भीः स्त्री भियौ भियः ।भूः पुमान् वेदनायुक्ते भूर्भूमिः स्त्री भुवौ भुवः ॥ ९२ ॥
92 · p. 6
अनुष्टुप्
भाऽऽबन्तो धातुवच्चापि भाषितोऽर्थे भवा-ऽऽशयोः ।वधूवद्भूर्द्धने भूः स्त्री भू सत्तायां द्वयोरपि ॥ ९३ ॥
93 · p. 6
अनुष्टुप्
मो मन्त्रे मन्दिरे माने सूर्ये चन्द्रे शिवे विधौ ।मायाविनि वृथामन्त्रे मारण-प्रतिदानयोः ॥ ९४ ॥
94 · p. 6
अनुष्टुप्
मं मौलौ मोघवृत्तौ मं माऽऽबन्तः स्त्री रमा-ऽर्चयोः ।भुवि माने च मात्रा मा मा निपातो निषेधकः ॥ ९५ ॥
95 · p. 6
अनुष्टुप्
दीर्घ-ह्रस्वौ मु-मूशब्दौ बन्धनार्थे त्रिलिङ्गकौ ।मेरेदन्तः प्रतिदाने हिंसायां मीर्मियौ मियः ॥ ९६ ॥
96 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
धातुवन्मा धने माने बन्धने मौर्यथाऽस्ति गौः ।स्त्री-पुंसयोर्मितेर्मिः स्यात् प्रेरणे मैस्तथा रणे ॥ ९७ ॥
97 · p. 6
अनुष्टुप्
यः सूर्ये तारके चन्द्रे या रमा-मातृ-यातृषु ।वायुवेगे जले यं स्याद् याचके योऽतिकुत्सने ॥ ९८ ॥
98 · p. 6
अनुष्टुप्
यो यातरि रुजां लग्ने शयने याने च वाहने ।युक्तौ च या च यात्रायां यो यथार्थे स्त्रियां च या ॥ ९९ ॥
99 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 शय (syllable split)
धातुवद्या च शब्दार्थो गमने निर्धनेऽशने ।यमाहुर्योगयोगाढ्यं यं ससारे सरित्पतौ ॥ १०० ॥
100 · p. 6
अनुष्टुप्
रः सूर्येऽग्नौ धने कामे रं जले रङ्ग-वेगयोः ।रा रमा रमणी बाला रं तीक्ष्णे कर्कटे दृढे ॥ १०१ ॥
101 · p. 6
अनुष्टुप्
रैशब्दोऽथ जले स्वर्णे राध्ये रन्ध्रे च रं स्मृतम् ।रो नादे वेदने छेदे रा दाने धातुवत् स्मृतः ॥ १०२ ॥
102 · p. 6
अनुष्टुप्
रु-रौ शब्दौ पुमांसौ द्वौ शम्भुशब्दार्थवाचकौ ।री श्रवणे रुर्भये क्लीबे री च नारी पतिव्रता ॥ १०३ ॥
103 · p. 6
अनुष्टुप्
मेरोः परिभ्रमे भानौ रुः पुंसि रसने स्त्रियाम् ।महेन्द्रे लो मृते गत्यां ला च लक्ष्मीर्लमम्बरम् ॥ १०४ ॥
104 · p. 6
अनुष्टुप्
लिः पुंसि लावे शब्दे लीर्धातुवल्लवने त्रिषु ।लं क्लीबे लोपनेऽपि स्यादपूर्णे लं प्रकीर्तितम् ॥ १०५ ॥
105 · p. 6
अनुष्टुप्
ला दाने धातुवल्लं च दानाऽऽदाने ल आलये ।आश्लेषे लं सुखे वादे दृश्ये लौश्चेति भाषितः ॥ १०६ ॥
106 · p. 7
अनुष्टुप्
लूर्धातुवच्छेदने लौः स्त्री ला लीला-विलासयोः ।उपालम्भे तथा लाभे लोभेऽपि लैर्दया-ऽऽदरे ॥ १०७ ॥
107 · p. 7
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 पि (wrong syllable)
शः सूर्ये शोभने शीते शं सुखे शा रमा-ऽम्बयोः ।आशीर्वादे च शीबन्तः शः शशाङ्केऽच्छवारिणि ॥ १०८ ॥
108 · p. 7
अनुष्टुप्
रश्मौ शस्ते तथा स्वच्छे शो महेशे महार्णवे ।षोऽतिरोषेऽपवर्गे षः प्रक्षरे सानु-वेधसोः ॥ १०९ ॥
109 · p. 7
अनुष्टुप्
नार्याश्लेषे सुखे षं स्यात् पण्डितेऽपि षमादृतम् ।षडूर्मिरहिते षं स्याज्जालके भेषजे च षम् ॥ ११० ॥
110 · p. 7
अनुष्टुप्
सुख-दुःखे समे षौर्ना षुरनित्ये नृपोत्तमे ।वृषस्यन्ती सती षा स्त्री नभो-नक्षत्रयोरपि ॥ १११ ॥
111 · p. 7
अनुष्टुप्
सः सोमे सोमपानेऽपि सूर्ये पक्षिणि तापसे ।वृषे च सः सदानन्दे सा श्रियां सं वनं धनम् ॥ ११२ ॥
112 · p. 7
अनुष्टुप्
यौवनेऽपि समाख्यातं वस्तुवृन्दे समाहृतम् ।पूजायां सु निपातोऽस्ति सूर्वधूवच्च मातरि ॥ ११३ ॥
113 · p. 7
अनुष्टुप्
सोमसूः सूः सुवौ पुंसि प्रसवार्त्ता नितम्बिनी ।सं सिः पुंसि परोक्षेऽपि सा च देवी सरस्वती ॥ ११४ ॥
114 · p. 7
अनुष्टुप्
हं हर्षे चैव हिंसायां हीरे हारे हरौ च हः ।हौस्त्यागे चरणे व्याधौ क्षः क्षं क्षेत्रे क्षये गृहे ॥ ११५ ॥
115 · p. 7
अनुष्टुप्