कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekārthanāmamālā

एकार्थनाममाला Ekārthanāmamālā

100 verses · text only, tagging comes next

Part 1

सौभरिकृता एकार्थनाममाला ।

॥ श्रीगणेशाय नमः ॥

प्रणम्य सुधियां नाथं देवदेवं रमापतिम् ।एकार्थनाममालां तु कुर्वे चेतःप्रसादनीम् ॥ १ ॥
1 · p. 1
अनुष्टुप्
अः कृष्णः शंकरो ब्रह्मा शक्रः सोमोऽनिलोऽनलः ।सूर्यः प्राणो यमः कालो वसन्तः प्रणवः सुखी ॥ २ ॥
2 · p. 1
अनुष्टुप्
आः स्वयंभूरिभो वाजी खेदः शंकरवासवौ ।पारिजातः समः प्राज्ञो निवासश्चणकः सुतः ॥ ३ ॥
3 · p. 1
अनुष्टुप्
इः कामः स्थाणुरिन्द्रोऽर्को वरुणः पादपो द्विपः ।शुचिः श्रीमानजो बालो विरञ्चिः कृत्तिकासुतः ॥ ४ ॥
4 · p. 1
अनुष्टुप्
ईरीश्वरो भवेच्छत्रुः पुरुषः करुणोऽरुणः ।अप्रजाः सुप्रजाः शङ्कुर्मुकुरो नकुलोऽकुलः ॥ ५ ॥
5 · p. 1
अनुष्टुप्
उर्गौरीपतिरुः कालः सेतुर्नाथः परायणः ।नारदोऽर्कोऽनिलः पाशी मार्कण्डेयोऽथ रावणः ॥ ६ ॥
6 · p. 1
अनुष्टुप्
ऊः परेतोऽण्डजस्त्वष्टा विवस्वानग्निसारथिः ।वह्निर्निशाकरः पूर्णो दरिद्री सरमाधिपः ॥ ७ ॥
7 · p. 1
अनुष्टुप्
ऋर्निऋतिर्नलो नाकः खगराडथ वासुकिः ।शालः पितृस्वसुः पुत्रोऽदितिर्दितिरुमा रमा ॥ ८ ॥
8 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ऋ (wrong syllable)
ॠर्निषेधो भवः पूषा वरुणोऽमरराडजः ।करी तरुर्नरः पाप्मा विद्वानथ रमापतिः ॥ ९ ॥
9 · p. 2
अनुष्टुप्
लृर्म्लेच्छोऽरुणवर्णः स्यात्क्लीबः पापी पराजितः ।वीतरागोऽथ पाखण्डी कमलं मरणं च लृ ॥ १० ॥
10 · p. 2
अनुष्टुप्
लॄर्महात्मा सुरो बालो भूपः स्तोमः कथानकः ।मूर्खः शिश्नो गुदः कक्षा केशः पापरतो नरः ॥ ११ ॥
11 · p. 2
अनुष्टुप्
एः कुमारोऽसुरोऽरातिर्ज्ञातीयोऽहित उद्धतः ।आत्मा शेषो विवस्वांश्च कृतार्थो मध्वरिः शरः ॥ १२ ॥
12 · p. 2
अनुष्टुप्
ऐः क्रूरो धरणीनाथः पूरो मारोऽमरोऽसुरः ।कुलालो राधरः प्राज्ञो मन्दः पुत्रोऽथवा नरः ॥ १३ ॥
13 · p. 2
अनुष्टुप्
ओर्वेधा ज्ञो ध्रुवोऽगस्त्यो गरुडोऽगोऽक्षयोऽसुरः ।आखुः काणोऽथ मार्जारः साधुः सङ्गः पराशरः ॥ १४ ॥
14 · p. 2
अनुष्टुप्
औः श्वा युवा नरो नारी भावः सूक्ष्मः प्रजापतिः ।स्थूलो जारः कलावांश्च सुखी दुर्गा रतिः कविः ॥ १५ ॥
15 · p. 2
अनुष्टुप्
अं सुखं कश्मलं दुःखं पूर्णं दूरं गतं वरम् ।अः प्रागुक्तो जिनाद्येषु विष्णुभृत्येन यः स्तुतः ॥ १६ ॥
16 · p. 3
अनुष्टुप्
को ब्रह्मा का मही दुर्गा किः सुग्रीवो रमापतिः ।आखण्डलोऽथ सूर्योऽग्निर्व्याधः कर्षक इत्यपि ॥ १७ ॥
17 · p. 3
अनुष्टुप्
कीर्गजस्तुरगो व्यालो जारो जीवः पिपीलिका ।धरा रमा च द्विट् रुट् च पुरुषः पाटलश्च गौः ॥ १८ ॥
18 · p. 3
अनुष्टुप्
कुः पृथ्वी कुः कुचः कूलं कूः कृत्या भूरपि स्मृता ।केः प्राणोऽर्को मदः सारः क्लीबः कैः प्रणतः शुचिः ॥ १९ ॥
19 · p. 3
अनुष्टुप्
कोः कुर्कुरो जनः श्यावः श्यानः शोकश्च कौर्वृषः ।कं शिरः कं सुखं तोयं पयो दुःखं विषं भयम् ॥ २० ॥
20 · p. 3
अनुष्टुप्
कः प्रागुक्तोऽथ खः सूर्यः खोमा क्ष्मा कमला च गीः ।खिः कामः खीर्गुदो धाता खुर्वह्निः खूर्बृहस्पतिः ॥ २१ ॥
21 · p. 3
अनुष्टुप्
खेः प्राणः खैर्भवो भ्राता पुत्रः खोः खञ्ज उच्यते ।खौः सुरेशोऽग्निरीशोऽर्कः खं व्योम च खमिन्द्रियम् ॥ २२ ॥
22 · p. 3
अनुष्टुप्
खः प्रागुक्तोऽथ गः प्रीतो भवः श्रीपतिरुत्तमः ।गा क्ष्मोमा च रमा गिर्धीर्गीः श्रीमानथ बुद्धिमान् ॥ २३ ॥
23 · p. 3
अनुष्टुप्
गीर्वाणी गीः सुरा पत्नी सुधा गुः प्राण आसवः ।गुः कान्तिर्मदनो भीरुर्गूश्च सेतुः सखा रविः ॥ २४ ॥
24 · p. 4
अनुष्टुप्
गुरुः पुरीषं गूः श्वादो गेः पापी जनवञ्चकः ।गैः पलाशोऽप्यशोकोऽग्निः सूर्यो गोर्द्विपदः करी ॥ २५ ॥
25 · p. 4
अनुष्टुप्
गौर्वज्रं गौः प्रभा भूमिर्वाणी तोयं त्रिविष्टपम् ।धेनुर्बस्तो वृषो दिग्गौर्नेत्रं लज्जा गुरू रमा ॥ २६ ॥
26 · p. 4
अनुष्टुप्
इन्द्रियं श्रीरुमा गं च वादित्रं शरणं वरम् ।गः प्रागुक्तोऽथ घः सूनुर्वह्निः पूषा नृपो गजः ॥ २७ ॥
27 · p. 4
अनुष्टुप्
घा रमा च शची दुर्गा भूमिर्घिर्धृतधर्मकः ।घीः कुमारोऽमराचार्यो घुर्मूढोऽकरुणः फणी ॥ २८ ॥
28 · p. 4
अनुष्टुप्
घूर्भूमिर्घूः सुराधीशो गुदः संकर्षणोऽमलः ।घेः शङ्खः कुर्कुरः कीलो घैः सूर्यः सरमासुतः ॥ २९ ॥
29 · p. 4
अनुष्टुप्
घोर्घोषो घौः सुरावासः पाप्मा घं पापमुच्यते ।घः प्रागुक्तोऽथ ङः प्राणस्तुरगो ङा धरा रमा ॥ ३० ॥
30 · p. 4
अनुष्टुप्
ङिर्बीभत्सुर्नृगः सूक्ष्मो ङीर्भूपः कृकलासपः ।ङुः सूकरोऽथ ङूर्व्याध्रो ङेः सूतो ङैः पराशरः ॥ ३१ ॥
31 · p. 4
अनुष्टुप्
ङोश्च सिंहोऽथ ङौः सूर्योऽरुणो वह्निः कलानिधिः ।ङं वितानं सुखं ब्रह्म सर्पिस्तोयं विषं पयः ॥ ३२ ॥
32 · p. 4
अनुष्टुप्
ङः प्रागुक्तोऽथ चश्चञ्चुश्चरणोऽर्चिर्मुखो रविः ।चा कद्रूरदितिः कन्या चिः पूषा माष एव च ॥ ३३ ॥
33 · p. 5
अनुष्टुप्
ची मषिर्दन्तिपत्नी स्याच्चुः कालोऽथ पविः शरः ।भीरुश्चूर्मार्गणोऽपि स्यात्पक्षी भूमिजराड्रविः ॥ ३४ ॥
34 · p. 5
अनुष्टुप्
चेः कृष्णोऽर्कस्तुराषाट् च चैः सोमो विनतासुतः ।चोः पाखण्डी च चौर्धेनुरनड्वानग्निरुद्धतः ॥ ३५ ॥
35 · p. 5
अनुष्टुप्
चं चरित्रं सुखं दुःखं कश्मलं भ्रमणं पयः ।चः प्रागुक्तोऽथ छः सोमः छा च रुट् छिः कुलालकः ॥ ३६ ॥
36 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थ (wrong syllable)
छी छविश्छुः शुकश्छूर्भूश्छेः पाशी छैः सुरालयः ।छोः पूर्णोऽलंकृतो वायुश्छौः समीरस्तरुर्नगः ॥ ३७ ॥
37 · p. 5
अनुष्टुप्
छमर्चिर्भूतलं स्वः स्यात्कूटं कूलं मुखं कुलम् ।छः प्रागुक्तोऽथ जो जारो जा योनिर्जिः सदाशिवः ॥ ३८ ॥
38 · p. 5
अनुष्टुप्
जीर्जिष्णुः करुणो यूका जुर्विष्णुर्जूः कुलालजः ।जेः शुनीजोऽथ जैः पूषा वह्निर्जोः कमलासनः ॥ ३९ ॥
39 · p. 5
अनुष्टुप्
जौर्जारोऽजो युवा जं च जातं रजतमेव च ।जः प्रागुक्तोऽथ झो हस्तो झा योनिर्झिः कला कपिः ॥ ४० ॥
40 · p. 5
अनुष्टुप्
झीः करी झुर्भृगुर्झूश्च ध्रुवः संघोऽमरोऽरुणः ।झेश्चर्मकृद्भवः सोमो रोमा रामोऽथ झैर्गुरुः ॥ ४१ ॥
41 · p. 5
अनुष्टुप्
झोः कर्णो झौः स्मृतो नाको झं मैथुनमिति स्मृतम् ।झः प्रागुक्तोऽथ ञश्चाग्निर्ञा जरा राशिरेव च ॥ ४२ ॥
42 · p. 6
अनुष्टुप्
ञिः सम्राड्ज्ञानवृद्धोऽग्निर्ञीः पाखण्डी सुराप्रियः ।ञुः सुनेत्रा ञूः सुवासा ञेः कार्तस्वरसंनिभः ॥ ४३ ॥
43 · p. 6
अनुष्टुप्
ञैः कृष्णा ञोः पलाशः स्याद् ञौर्गौः पाखण्डवाक्करी ।पूर्वा ध्रुवा च ञं सर्पिः परं ब्रह्म निगद्यते ॥ ४४ ॥
44 · p. 6
अनुष्टुप्
ञः प्रागुक्तोऽथ टः प्लीहो मूत्रकृच्छ्रोऽथ पिप्पलः ।टासूया टिः करेणुर्भूः सरमा टीर्धराधरः ॥ ४५ ॥
45 · p. 6
अनुष्टुप्
टुः कङ्कणोऽथ चूडः स्याट्टूर्ननन्दा स्वसा च भीः ।टेः काणष्टैर्द्विडन्धः स्याट्टैः प्रोतो नभसी हयः ॥ ४६ ॥
46 · p. 6
अनुष्टुप्
टोः परेतो गुरुः शिष्यः टौर्विनीतो दवो वृषः ।टं नेत्रं श्रवणं पात्रं भ्रमणं मरणं तथा ॥ ४७ ॥
47 · p. 6
अनुष्टुप्
टः प्रागुक्तोऽथ ठः सूनुर्ज्ञानी मध्वरिरेव च ।वाचालः शून्य आसारः ठा शून्या नासिकेत्यपि ॥ ४८ ॥
48 · p. 6
अनुष्टुप्
ठिः कुमारोऽमरारातिष्ठीः कुटुम्ब्यथ पुत्रवान् ।ठुः कदम्बो यमस्त्वष्टा ठूः प्रज्ञा धृतिरेव च ॥ ४९ ॥
49 · p. 7
अनुष्टुप्
ठेः समासोऽपि ठैर्व्यासः ठोः समष्ठौश्च गौतमः ।ठं ज्ञानं विवरं शून्यममृतं शारदं पयः ॥ ५० ॥
50 · p. 7
अनुष्टुप्
ठः प्रागुक्तोऽथ डः साथो डा क्ष्मा च सरमा रमा ।डिर्गौरी डी शिवा धात्री डुश्चन्द्रो डूः कलापवान् ॥ ५१ ॥
51 · p. 7
अनुष्टुप्
डेर्धर्मो डैर्वृषः कर्णो डोः पापी पुरूषाधमः ।डौर्धेनुश्च करो जारो डं नेत्रं च पयस्तथा ॥ ५२ ॥
52 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
डः प्रागुक्तोऽथ ढः श्वादः श्वा मार्जारस्तथा खरः ।ढा नाभिर्ढिर्गुदो मेढ्रो ढ्रीर्धूमो वह्निरुत्कटः ॥ ५३ ॥
53 · p. 7
अनुष्टुप्
ढुः कूर्मः सूकरो व्यालो ढूः कुचो ढेः कुरङ्गजः ।ढैर्मारो ढोः सुखी वर्यो ढौर्भूमिर्ढं पयो वरम् ॥ ५४ ॥
54 · p. 7
अनुष्टुप्
ढः प्रागुक्तोऽथ णो नक्रो णा नाभिर्णिर्वृकोऽजरः ।णीः स्वर्गो णुः करेणुर्भूर्णूः कालिन्दी सटा जरा ॥ ५५ ॥
55 · p. 7
अनुष्टुप्
णेर्मार्जारो विडङ्गश्च णैः शृगाली हरीतकी ।णोः सर्षपोऽथ णौर्माया णं दर्शनमिति स्मृतम् ॥ ५६ ॥
56 · p. 7
अनुष्टुप्
तः सुवेषोऽथ ता नारी तिर्मूषक उमेश्वरः ।तीर्नदी जलधिः प्रोक्तस्तुः सारङ्गो रमेश्वरः ॥ ५७ ॥
57 · p. 7
अनुष्टुप्
तूर्म्लेच्छस्तेः करी नक्रस्तैः कलापी दितिः प्रसूः ।तोः सूर्ये विघ्नकृत्स्वामी तौः स्वर्गो भूस्तथा गरः ॥ ५८ ॥
58 · p. 8
अनुष्टुप्
आचार्यो यजमानश्च तं तृणं जलमेव च ।तः प्रागुक्तोऽथ थः सूर्यो गणेशो विनतासुतः ॥ ५९ ॥
59 · p. 8
अनुष्टुप्
था धरित्री प्रभा गङ्गा थिर्गोदा यमुना तथा ।थीः समुद्रो व्रणो रेवा थुः साक्षी थूः पराशरः ॥ ६० ॥
60 · p. 8
अनुष्टुप्
थेर्व्यासस्थैः शुकः प्रोक्तः थोर्धर्मो गाधिपुत्रकः ।थौः शङ्खस्थं विषं कर्म बहुलं सूक्ष्ममेव वा ॥ ६१ ॥
61 · p. 8
अनुष्टुप्
थः प्रागुक्तोऽथ दो दाता दा दात्री धरणी शुभा ।दिर्दानी दिः सुधानाथो दुर्दरिद्री करोऽवरः ॥ ६२ ॥
62 · p. 8
अनुष्टुप्
दूर्दुःखी देः स्मृता जाया दैर्मत्स्यो वामनर्षभः ।दोर्हस्तश्चरणः शिश्नो दौः स्वर्गः प्राण आत्मजः ॥ ६३ ॥
63 · p. 8
अनुष्टुप्
दं दानं शरणं कर्म भव्यं न्यूनमकिल्बिषम् ।दः प्रागुक्तोऽथ धो धाता विष्णुर्वा गिरिजात्मजः ॥ ६४ ॥
64 · p. 8
अनुष्टुप्
धा धरित्री रमा गौरी धिर्धर्मो धीर्वृकासुरः ।धुस्तनुर्धूः करो भारो धेर्वृषो धैश्च रावणः ॥ ६५ ॥
65 · p. 8
अनुष्टुप्
धोः पापी वृषणः पूषा धौर्धर्मः पृथिवी गिरा ।धं धनं धूननं दानं धारणं करणं सुखम् ॥ ६६ ॥
66 · p. 9
अनुष्टुप्
धः प्रागुक्तोऽथ नोऽभावो नास्तीति पुमान्गरिमा तथा ।निर्दुर्गतिश्च नी रागो नुर्देहो नूः कलत्रवान् ॥ ६७ ॥
67 · p. 9
अनुष्टुप्metre not read in every line
नेः समो नैः कुरङ्गोऽग्निर्नौस्तरिः पुरुषोऽमरः ।नं नेत्रमञ्जनं श्रोत्रं करणं कारणं सुखम् ॥ ६८ ॥
68 · p. 9
अनुष्टुप्
नः प्रागुक्तोऽथ पः पापी पूषा वृषण आत्मजः ।पापर्णा पिः पवित्रोऽग्निः पी स्मृताऽथ पिपीलिका ॥ ६९ ॥
69 · p. 9
अनुष्टुप्
पुः पुत्रः पूः पुरं देहः पेः पेशी पैश्च गालवः ।पोः पौत्रः पौः पुमान्भूमिः पं प्रीणनमृणं पयः ॥ ७० ॥
70 · p. 9
अनुष्टुप्
पः प्रागुक्तोऽथ फो माघः फा फूत्कारवती विषा ।फुः कार्तिकोऽथ फूः सर्पो वासवः शरणागतः ॥ ७१ ॥
71 · p. 9
अनुष्टुप्
फेः फाल्गुनोऽथ फैः शङ्खः फोः कालः फौः फणीश्वरः ।गर्गो द्रोणो रणो बाणः फं फल्गु चारु च स्मृतम् ॥ ७२ ॥
72 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्गु (wrong syllable)
फः प्रागुक्तोऽथ बो बिम्बो बा स्मृता नर्मदासरित् ।बिः पूपो बीर्बटुः पादो बेः साक्षी बैः कणो रणः ॥ ७३ ॥
73 · p. 9
अनुष्टुप्
बोः प्राणो बौः सरिद्गङ्गा बं बलं बहुलं स्मृतम् ।बः प्रागुक्तोऽथ भः सोमो भा कान्तिर्मदिरेन्दिरा ॥ ७४ ॥
74 · p. 10
अनुष्टुप्
भिः पत्नी भीश्च भीतिः स्याद्भुर्भुजंगोऽथ भूर्मही ।जाता जातश्च भेः कान्तिर्भौर्ब्रह्मा वरुणो यमः ॥ ७५ ॥
75 · p. 10
अनुष्टुप्
भैः प्रहारोऽथ भीरुः स्याद्बोः कंसो भौ रमापतिः ।भं नक्षत्रं भयं ब्रह्म भरणं धरणं पयः ॥ ७६ ॥
76 · p. 10
अनुष्टुप्
भः प्रागुक्तोऽथ मः स्तोमः सोमो रामो रणो गजः ।मा जालन्ध्री व्यथा लक्ष्मीर्माता माः मास ईरितः ॥ ७७ ॥
77 · p. 10
अनुष्टुप्
मिः कर्णो मीर्महाबाहुर्मुर्माता मूर्महाबलः ।मेः सारङ्गोऽथ मैः पूषा सारथिः प्रणतो वरः ॥ ७८ ॥
78 · p. 10
अनुष्टुप्
मोः पत्नी मौः सुरावासो मं गलं मलिनं पलम् ।मः प्रागुक्तोऽथ यः पुञ्जः सुदेवीसूनुरीश्वरः ॥ ७९ ॥
79 · p. 10
अनुष्टुप्
या योनिर्यिश्च संग्रामो यीर्गजः सारथिर्द्रुमः ।युः सर्पे यूः स्मृता यूका येः सार्थो यैश्च वासवः ॥ ८० ॥
80 · p. 10
अनुष्टुप्
योः पादो यौः कणः स्वर्गो यं यत्नं करुणं मधु ।यः प्रागुक्तोऽथ रः कामो वह्निः सूर्योऽथ तोयधिः ॥ ८१ ॥
81 · p. 10
अनुष्टुप्
रा लक्ष्मी राः समृद्धिः स्याद्रिः कर्पूरो महेश्वरः ।रीः कामो नृगपत्न्यग्नी रुर्मृगो रूः प्रजापतिः ॥ ८२ ॥
82 · p. 10
अनुष्टुप्
रेः खेदो वापि संबुद्वी रैः कृष्णो वर्ण उच्यते ।रो रोषो रौर्भवः स्वर्गो रं रत्नं रोदनं धनम् ॥ ८३ ॥
83 · p. 11
अनुष्टुप्
रः प्रागुक्तोऽथ लश्चोरो लक्ष्मणो ललना च ला ।लिः सर्पो ली धरा लुर्भूर्लू रुद्रो गरुडोऽरुणः ॥ ८४ ॥
84 · p. 11
अनुष्टुप्
लेर्लवो लैः कुशो रामी लोर्मत्स्यो लौः प्रजापतिः ।लं लक्ष्मणं सुखं नाम रक्षः श्रोत्रं वचो विषम् ॥ ८५ ॥
85 · p. 11
अनुष्टुप्
लः प्रागुक्तोऽथ वः पङ्गुः सुखी वा त्रिदशप्रसूः ।विः पक्षी गरुडः सूर्यो जलधिः सोम उच्यते ॥ ८६ ॥
86 · p. 11
अनुष्टुप्
वीर्विष्णुर्वुः पदातिः स्याद्वूः संघो गज उच्यते ।वेः पारिजातो वैः सारो वोः कालो वौः सुखावहः ॥ ८७ ॥
87 · p. 11
अनुष्टुप्
वं सुखं वसनं रक्तं वपुर्वचनमासुरम् ।वः प्रागुक्तोऽथ शः शंभुः शा गौरी कमलालया ॥ ८८ ॥
88 · p. 11
अनुष्टुप्
शिः पक्षी श्यथ सौभाग्यः शिशुः शुः शार्क्करोऽचलः ।शूः शूद्रः शेः शिरीषोऽगः शौः स्मृतो धन्धुहा नृपः ॥ ८९ ॥
89 · p. 11
अनुष्टुप्
शोर्दोषः शौः शिशुः शङ्खः शं सुखं शरणं वपुः ।शः प्रागुक्तोऽथ षः षञ्जो वह्निः सूर्यो रणः कणः ॥ ९० ॥
90 · p. 11
अनुष्टुप्
परिखा षा खरी शावा षिः शङ्खो वर्तुलः स्मृतः ।षीः पुत्रः षुः खुरः पूरः षूः सोमो म्लेच्छ एव च ॥ ९१ ॥
91 · p. 11
अनुष्टुप्
षेः सार्थः षैः खरः पारः षोर्देहो मलिनो जनः ।षौः खट्वा धरणी बुद्धिः षं सस्यं मधु धारणम् ॥ ९२ ॥
92 · p. 11
अनुष्टुप्
षः प्रागुक्तोऽथ सः सूर्यः सा सीता सिः सखामरः ।सीः सुखी सुः कुठारोऽर्कः रूर्धरा गर्भिणी नरी ॥ ९३ ॥
93 · p. 12
अनुष्टुप्
सेः सारः सैः शुकः श्वादः सोः सोमः सौः सहोदरः ।सं सुखं शरणं कार्यं प्रधानं सरणं वरम् ॥ ९४ ॥
94 · p. 12
अनुष्टुप्
सः प्रागुक्तोऽथ हो हर्षो हिरण्याक्षोऽथ तस्करः ।हा गन्धर्वोऽथ हिः सर्पो हिर्नरो हर्षवान्मृगः ॥ ९५ ॥
95 · p. 12
अनुष्टुप्
हुः स्मृतो नहुषो राजा हूर्विप्रो हेः प्रसादकृत् ।हैर्हासो होश्च संबुद्धिर्हौर्विरञ्चिः षडाननः ॥ ९६ ॥
96 · p. 12
अनुष्टुप्
हं चौर्यं हरणं पूर्णं भासुरं भरणं भरम् ।हः प्रागुक्तः स्मृतं लक्षणमुक्तम् तु परं ब्रह्म सनातनम् ॥ ९७ ॥
97 · p. 12
अनुष्टुप्
क्षः क्षान्तः क्षा मही सीता क्षिर्ज्योतिः क्षीर्हुताशनः ।क्षुः क्षुद्रो वासवो वार्कः क्षूः पापिष्ठः प्रणाशनः ॥ ९८ ॥
98 · p. 12
अनुष्टुप्
क्षेः कर्षकोऽथ क्षैर्मूर्खो जारः क्षोः क्षुरको व्रणः ।क्षौः खञ्जो धरणीधर्ता क्षं क्षेत्रं क्षं पयो मधु ॥ ९९ ॥
99 · p. 12
अनुष्टुप्
क्षः प्रागुक्त इयं माला शाब्दी सौभरिणा कृता ।सा श्रुताङ्गिरसा चास्तु विद्धच्चेतःप्रसादनी ॥ १०० ॥
100 · p. 12
अनुष्टुप्