कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaranāmamālā

एकाक्षरनाममाला Ekākṣaranāmamālā

50 verses · text only, tagging comes next

Part 1

क-परिशिष्टम्

मलधारिगच्छीयश्रीसुधाकलशमुनिप्रणीता एकाक्षरनाममाला

श्रीवर्द्धमानमानम्य सर्वातिशयसुन्दरम् ।‘एकाक्षरनाममालां' कीर्तयामि यथाश्रुतम् ॥ १ ॥
1 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
अः पुंल्लिङ्गः शार्ङ्गधारिण्यस्वल्पार्थेऽव्ययः पुनः ।विरञ्चावाश्च पुल्लिङ्ग आ वाक्ये स्मरणेऽव्ययः ॥ २ ॥
2 · p. 119
अनुष्टुप्
आः सन्तापेऽव्यये क्रुध्यामव्ययोऽधृतौ स्मृतौ ।इः कामे पुल्लिङ्ग इ वाऽव्ययः कोपोक्तिखेदयोः ॥ ३ ॥
3 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने ।प्रकोपे सन्निधौ चैव पुल्लिङ्ग उर्वृषध्वजे ॥ ४ ॥
4 · p. 119
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ङ्ग (wrong syllable)
दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
5 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
ऊमव्ययः प्रकोपोक्तौ प्रश्ने ऋर्देवमातरि ।अव्यय ऋ तु कुत्सायां वचनेऽपि तथैव च ॥ ६ ॥
6 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
कुस्त्वजे दानवाञ्छायां ऌश्च स्याद्देवमातरि ।ॡर्वाराह्यां भवेदेस्तु विष्णावैस्तु वृषध्वजे ॥ ७ ॥
7 · p. 119
अनुष्टुप्
ओरूर्ध्वलिङ्ग आहूतावव्ययः स्यादनन्त औः ।सम्बोधने चाव्यय औ परब्रह्मण्यमः शिवे ॥ ८ ॥
8 · p. 119
अनुष्टुप्
कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
9 · p. 119
अनुष्टुप्
कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
10 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 प (wrong syllable)
वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि ।खमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
11 · p. 119
अनुष्टुप्
संविदि शून्यखण्डे च वर्तते खश्च भास्करे ।गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥
12 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 दि (wrong syllable)
गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
13 · p. 120
अनुष्टुप्
घुः कुम्भे हनने घोषान्तर्भावकिङ्किणीष्वपि ।ङो विषये भैरवे च चस्तरौ चन्द्रचोरयोः ॥ १४ ॥
14 · p. 120
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 3 ष (wrong syllable)
चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः ।अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ १५ ॥
15 · p. 120
अनुष्टुप्
पक्षान्तरे समूहार्थे हेताववधृतावपि ।अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥
16 · p. 120
अनुष्टुप्
छः सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् ।छं च छन्दसि तडिति निर्मले च तथा स्मृतः ॥ १७ ॥
17 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
जश्च जेतरि जनने विगते जिस्तु जेतरि ।जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥ १८ ॥
18 · p. 120
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable); pāda 3, syllable 4 य (wrong syllable)
झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
19 · p. 120
अनुष्टुप्
टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
20 · p. 120
अनुष्टुप्
चन्द्रस्य मण्डले रुद्रेऽथो वृषाङ्के ध्वनावपि ।बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥
21 · p. 120
अनुष्टुप्
ढो ढक्कायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ ।णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोः ॥ २२ ॥
22 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
तकारस्तस्करे युद्धे क्रोडे पुच्छे च ता श्रियाम् ।तुः स्यात् पूर्वे निवृत्तौ च पूर्वस्मादवधारणे ॥ २३ ॥
23 · p. 120
अनुष्टुप्
विलक्षणे विकल्पार्थे थो भवेद्भयरक्षणे ।भूधरे च तथा भारे दो दाने दायकेऽपि च ॥ २४ ॥
24 · p. 120
अनुष्टुप्
दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः ।दं कलत्रं तथा धं च धीरे च धनदे धने ॥ २५ ॥
25 · p. 120
अनुष्टुप्
धस्तु चित्रेऽश्ववारे च धीर्बुद्धाविषुधावपि ।गुह्यकेशे विरञ्चौ धा तथा धूर्भारकम्पयोः ॥ २६ ॥
26 · p. 121
अनुष्टुप्
धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः ।अस्मानमभ्यममाकमेषां स्थाने भवेञ्च नः ॥ २७ ॥
27 · p. 121
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
निषेधार्थेऽव्ययो नो च नकारस्तु नरस्तु ना ।निः श्रुते नेतरि ख्यातौ नुः स्तुतावव्ययस्तु नौ ॥ २८ ॥
28 · p. 121
अनुष्टुप्
निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
29 · p. 121
अनुष्टुप्
अधोभावोपरमयोः सन्निधानेऽव्ययो मतः ।नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः ॥ ३० ॥
30 · p. 121
अनुष्टुप्
तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
31 · p. 121
अनुष्टुप्
फूत्कारफकारो निष्फले जल्पे पुष्करे भयरक्षणे ।झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
32 · p. 121
अनुष्टुप्metre not read in every line
बकारो वरुणे पद्मे कलहे विगतौ तथा ।भश्चालिशुक्रयोर्भावे भश्च दीप्तौ भये च भीः ॥ ३३ ॥
33 · p. 121
अनुष्टुप्
भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे तु विधौ शिवे ।मौलौ च बन्धने मूः स्यात् मा माने वारणेऽव्ययः ॥ ३४ ॥
34 · p. 121
अनुष्टुप्
अस्मच्छब्दे द्वितीयायां मा च षष्ठ्यां च मे पुनः ।मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च ॥ ३५ ॥
35 · p. 121
अनुष्टुप्
धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
36 · p. 121
अनुष्टुप्
रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
37 · p. 121
अनुष्टुप्
भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः ।ला दाने लूश्च लवने लश्च लौश्च विडौजसि ॥ ३८ ॥
38 · p. 121
अनुष्टुप्
लश्चामृते दिशायां च लीः श्लेषे वलये तथा ।वो वाते वरुणे रुद्रे सान्त्वने वाऽव्ययः पुनः ॥ ३९ ॥
39 · p. 121
अनुष्टुप्
पदार्थ उपमाने च विकल्पे च समुच्चये ।विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥
40 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके ।वश्चासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥
41 · p. 122
अनुष्टुप्
आकाशे विहगे विश्च शं श्रेयसि सुखेऽव्ययः ।शा तु शान्ते च सास्नायां शीः शये हिंसनेऽपि च ॥ ४२ ॥
42 · p. 122
अनुष्टुप्
शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु षूः ।सः सूर्ये च परोक्षे च सं शङ्का वाऽव्ययस्तु सः ॥ ४३ ॥
43 · p. 122
अनुष्टुप्
सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः ।प्रथमान्ततदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते ॥ ४४ ॥
44 · p. 122
अनुष्टुप्
हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
45 · p. 122
अनुष्टुप्
अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः ।हि हेतौ पादपूर्तौ च विशेषे चावधारणे ॥ ४६ ॥
46 · p. 122
अनुष्टुप्
स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
47 · p. 122
अनुष्टुप्
हुमव्ययः परिप्रश्ने वितर्के वचने तु हौ ।हे कुत्सायां तथा हे तु हेतौ सम्बोधने तु हौ ॥ ४८ ॥
48 · p. 122
अनुष्टुप्
राक्षसे क्षस्तथा क्षेत्रेशब्दा ये द्व्यक्षरादयः ।स्वरान्ता व्यञ्जनान्ताश्च ज्ञेया ग्रन्थान्तरात् तु ते ॥ ४९ ॥
49 · p. 122
अनुष्टुप्
मलधारिगच्छभर्तुः सूरेः श्रीराजशेखरस्य गुरोः ।शिष्यः सुधाकलश इत्येकाक्षरमालिकामतनोत् ॥ ५० ॥
50 · p. 122
आर्या