कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Mātṛkākoṣa

मातृकाकोष Mātṛkākoṣa

53 verses · text only, tagging comes next

Part 1

श्रीगणेशाय नमः ॥

श्रीगणेशं महेशानं भारतीमीश्वरं शिवम् ।नत्वा वक्ष्ये मात्रिकाणान्निघण्टं बालबुद्धये ॥ १ ॥
1 · p. 1
अनुष्टुप्
ॐ ध्रुवस्तारस्त्रिवृद्ब्रह्मवेदादिस्तारकोऽव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओंकारोज्योतिरादितः ॥ २ ॥
2 · p. 1
अनुष्टुप्
अः श्रीकण्ठः केशवश्चापि निवृत्तिश्च स्वरादिकः ।अकारो मात्रिकाद्यश्च वात इत्यभिधीयते ॥ ३ ॥
3 · p. 1
अनुष्टुप्
आ नारायणस्तथाऽनन्तो मुरवृत्तो गुरुस्तथा ।विष्णुशय्या तथा शेषो दीर्घ आकार एव च ॥ ४ ॥
4 · p. 1
अनुष्टुप्
इ माधवः सूक्ष्मसंज्ञश्च विद्यादक्षिणलोचनम् ।गन्धर्वः पाञ्चजन्यश्च इकारश्च मुकाङ्कुरः ॥ ५ ॥
5 · p. 1
अनुष्टुप्
ई गोविन्दश्च त्रिमूर्त्तीशः शांतिः स्याद्वामलोचनम् ।नृसिंहास्त्रन्तथा माया ईकारोऽपि सुरेश्वरः ॥ ६ ॥
6 · p. 1
अनुष्टुप्
उ अमरेशस्तथाविष्णुरिन्धिका च गजाङ्कुशः ।दक्षकर्णश्च विजयी उकारो मन्मथाधिपः ॥ ७ ॥
7 · p. 1
अनुष्टुप्
ऊ अर्व्वाशो दीपिका वामश्रवणम्मधुसूदनः ।इंद्रचापः षण्मुखश्च ऊकारो रक्षणाधिपः ॥ ८ ॥
8 · p. 1
अनुष्टुप्
ऋ देविका दक्षनासा च भारभूतिस्त्रिविक्रमः ।देवमाता रिपुघ्नश्च ऋकारस्तपनस्तथा ॥ ९ ॥
9 · p. 1
अनुष्टुप्
ॠ अतिथीशो वामनश्च मोचिका वामनासिका ।दैत्यमाता च दैवज्ञ ॠकारस्त्रिपुरान्तकः ॥ १० ॥
10 · p. 1
अनुष्टुप्
ऌ श्रीधरश्च परा स्थाणुर्दक्षगण्डस्त्रिवेदकः ।एकाङ्घ्रिर्वज्रदण्डश्च व्योमर्द्धिर्लृस्वरः स्मृतः ॥ ११ ॥
11 · p. 1
अनुष्टुप्
लॄ हृषीकेशो हरः सूक्ष्मो वामगण्डकुबेरदृक् ।अर्द्धर्चो नीलचरणो लॄकारश्च त्रिकूटकः ॥ १२ ॥
12 · p. 1
अनुष्टुप्
ए झिण्टीशः पद्मनाभश्च शक्तिः सूक्ष्मा मृता भगः ।ऊर्द्ध्वोष्टगः कामरूप एकारश्च त्रिकोणकः ॥ १३ ॥
13 · p. 1
अनुष्टुप्
ऐ ज्ञानामृतो भौतिकश्चाधरो दामोदरस्तथा ।वागीशो वर्मभयद ऐकारस्त्रिपुरस्तथा ॥ १४ ॥
14 · p. 1
अनुष्टुप्
औ सद्योजातो वासुदेव ऊर्द्ध्वदन्तस्त्रिमात्रकः ।आप्यायनीमन्त्रनाथ ओकारो नागसञ्ज्ञकः ॥ १५ ॥
15 · p. 1
अनुष्टुप्
औ संकर्षणीऽनुग्रहेशो मुरारिर्व्यापिनी तथा ।अथोदंतगतो मायी नृसिंहाङ्गस्तथौरसः ॥ १६ ॥
16 · p. 1
अनुष्टुप्
अं अंक्रूरोव्योमरूपश्च प्रद्युम्नश्चन्द्रसंज्ञकः ।अनुस्वारस्तथा विन्दुरंकारश्च शिरोऽव्ययः ॥ १७ ॥
17 · p. 1
अनुष्टुप्
अः अनन्तश्च महासेनोऽनिरुद्धो रसवर्णकः ।कन्यास्तननिभः सर्गो विसर्गश्चान्तिमः स्वरः ॥ १८ ॥
18 · p. 2
अनुष्टुप्
कः क्रोधीशो धातृसंज्ञश्चक्री सृष्टिश्च करादिगः ।वर्गादिगः पादवेषः ककारः कामगः स्मृतः ॥ १९ ॥
19 · p. 2
अनुष्टुप्
ख क्रुधर्द्धिगदिचण्डीशाः खेटो दक्षिणकूर्परः ।कैटभारिश्च मातङ्गः संहारः खार्णकःस्मृतः ॥ २० ॥
20 · p. 2
अनुष्टुप्
गस्मृतिः पञ्चान्तकः शार्ङ्गी गणेशो मणिबन्धगः ।गोमुखो गजकुम्भश्च गकारः सिंहसंज्ञकः ॥ २१ ॥
21 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घ खड्गी शिवोत्तमो मेधा दक्षिणाङ्गुलिमूलगः ।घनो घनस्वरश्चैव घकारो ङादिमः स्मृतः ॥ २२ ॥
22 · p. 2
अनुष्टुप्
ङसंज्ञाको रुद्रकान्तिश्च दक्षाङ्गुल्यग्रसंस्थितः ।क्लीववक्त्रश्च भद्रेशो ङकारश्चानुनासिकः ॥ २३ ॥
23 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
च हली कूर्मेश्वरो लक्ष्मी वीमवाह्वादिगस्तथा ।चित्रधारी चञ्चलश्च चकारः संस्मृतो बुधैः ॥ २४ ॥
24 · p. 2
अनुष्टुप्
छ एकनेत्रश्च मुशली वामकूर्परगोद्युतिः ।त्रिषिन्दुकस्तथा चारी छकार श्लेष्मकाभिधः ॥ २५ ॥
25 · p. 2
अनुष्टुप्
ज स्थिराजपन्नौ जपजः शूली च चतुराननः ।मणिबन्धगतो वामे जकाराञ्जनकोत्तमः ॥ २६ ॥
26 · p. 2
अनुष्टुप्
झ स्थितिः पाशी तथाजेशो वामाङ्गुलितलस्थितः ।स्वस्तिकः स्थाणुसंज्ञश्च झकारो जान्तसंज्ञकः ॥ २७ ॥
27 · p. 2
अनुष्टुप्
ञ वामाङ्गुल्यग्रतः सिद्धिरङ्कुशी सर्वसंज्ञकः ।मातङ्गो ह्यनुगासनश्च ञकारश्च निरञ्जनः ॥ २८ ॥
28 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ट जरा मुकुंदः सोमेशो दक्षपादादिगोमुखः ।गजाङ्कुशश्च बालेंदुरमृताद्यष्टकः स्मृतः ॥ २९ ॥
29 · p. 2
अनुष्टुप्
ठ लांगलीशो नन्दजश्च पालिनी च कमण्डलुः ।दक्षजानुगतः स्थायी ठकारः स्थविरः स्मृतः ॥ ३० ॥
30 · p. 2
अनुष्टुप्
ड नन्दीक्षान्तिर्दारकश्च डामरो दक्षगुल्फगः ।व्याघ्रपादः शुभाङ्घ्रिश्च डकारस्तोमरो मतः ॥ ३१ ॥
31 · p. 2
अनुष्टुप्
ढ ऐश्वरी चार्द्धनारीशो नरः शाखान्तराकृतिः ।दक्षपादाङ्गुलीमूलो ढलो ढक्कोढकारकः ॥ ३२ ॥
32 · p. 2
अनुष्टुप्
ण उमाकान्तो नरकजिद्रतिर्दक्षपदाग्रगः ।निर्वाणस्त्रिगुणाकारस्त्रिरेखो णस्समीरितः ॥ ३३ ॥
33 · p. 2
अनुष्टुप्
त वामोरूमूलनिलय आषाढी कामिका हरिः ।तीव्रश्चतरलो नीलस्तकारः कीर्तितो बुधैः ॥ ३४ ॥
34 · p. 2
अनुष्टुप्
थ दण्डीशो वरदः कृष्णो वामजानुगतः स्मरः ।शौरी चापि विशालाक्षस्थकारः परिकीर्तितः ॥ ३५ ॥
35 · p. 2
अनुष्टुप्
द सत्यो त्रीशोह्लादिनी च वामगुल्फगतस्तथा ।शूली कुबेरो दाता च दकारो धादिमः स्मृतः ॥ ३६ ॥
36 · p. 3
अनुष्टुप्
ध मीनेशः सात्वतप्रीतिर्वामपादाङ्गुलीगतः ।धनेशो धरणीशश्च धकारो दान्तिमः स्मृतः ॥ ३७ ॥
37 · p. 3
अनुष्टुप्
न शौरी मेषेश्वरी दीर्घा वामपादाग्रसंस्थितः ।नरो नदीनोनादी च नकारश्चानुनासिकः ॥ ३८ ॥
38 · p. 3
अनुष्टुप्
प तीक्ष्णा च लोहितः शूरो दक्षपार्श्वश्च पार्थिवः ।पद्मेशो नान्तिमः फादि पकारोऽपि प्रकीर्तितः ॥ ३९ ॥
39 · p. 3
अनुष्टुप्
फ जनार्दनी शिखी रौद्री वामपार्श्वकृतालयः ।फट्कारः प्रोच्यते सद्भिः फकारः पान्तिमः स्मृतः ॥ ४० ॥
40 · p. 3
अनुष्टुप्
ब छलगण्डो भूधरश्च भयापृष्ठगतस्तथा ।सुरसो वज्रमुष्टिश्च बकारो भादिमो मतः ॥ ४१ ॥
41 · p. 3
अनुष्टुप्
भ विश्वमूर्त्तिर्द्विरण्डेशो निद्रा नाभिगतोऽपि च ।भ्रुकुटी च भरद्वाजो भकारश्च जयापहः ॥ ४२ ॥
42 · p. 3
अनुष्टुप्
म वैकुण्ठश्च महाकालस्तन्द्री जठरसंस्थितः ।मन्त्रेशो मण्डलो मानी विषः सूर्यो मकारकः ॥ ४३ ॥
43 · p. 3
अनुष्टुप्
य क्षुधा वाला च वायुस्त्वग्धृतश्च पुरुषोत्तमः ।यमुनो यामुनेयश्च यकारो यान्तिमः स्मृतः ॥ ४४ ॥
44 · p. 3
अनुष्टुप्
रः क्रोधिनी च भुजङ्गेशी ज्वाली रुधिरपावकौ ।रोचिष्मान् दक्षिणांशश्च रुचिरो रेफ ईरितः ॥ ४५ ॥
45 · p. 3
अनुष्टुप्
ल क्रिया ककुद्गतो मांसं पिनाकी भूर्वलानुजः ।लम्पटः शक्रसंज्ञश्च वाद्यो रान्तो लकारकः ॥ ४६ ॥
46 · p. 3
अनुष्टुप्
व वालो वामांसनिलयो मेदो वारिदवारुणौ ।उत्कारी जलसंज्ञश्च खड्गीशोऽपि वकारकः ॥ ४७ ॥
47 · p. 3
अनुष्टुप्
श मृत्युर्वको वृषघ्नश्च हृदो दक्षकरस्थितः ।शङ्कुकर्णोऽस्थिसंज्ञश्च शकारो विद्भिरीरितः ॥ ४८ ॥
48 · p. 3
अनुष्टुप्
ष वृषः श्वेतेश्वरः पीता मज्जाः हृद्वामबाहुगः ।षडाननः षकारश्च कीर्तितश्च बुधैः खरः ॥ ४९ ॥
49 · p. 3
अनुष्टुप्
स भृगुः श्वेतस्तथा हंसो हृदो दक्षिणपादगः ।समयः सामगः शुक्रः संगतिः सार्णकः शशी ॥ ५० ॥
50 · p. 3
अनुष्टुप्
ह नभो वराहो नकुलो हृदो वामपदस्थितः ।सदाशिवोऽरुणप्राणो हकारश्च हयाननः ॥ ५१ ॥
51 · p. 3
अनुष्टुप्
लुं हृदयान्नाभिसंस्थानः शिवेशो विमलो सितः ।लघुप्रयत्नश्चोपान्त्यो लुंकारः प्रोच्यते बुधैः ॥ ५२ ॥
52 · p. 3
अनुष्टुप्
क्ष संवर्त्तको नृसिंहश्च हृदयान्मुखसंस्थितः ।अनन्तः परमात्मा च वज्रकायोऽन्तिमाक्षरः ॥ ५३ ॥
53 · p. 3
अनुष्टुप्