All kośas › Ajirādi-ekākṣaranāmamālā
अजिरादि-एकाक्षरनाममाला Ajirādi-ekākṣaranāmamālā
46 verses · text only, tagging comes next
Part 1
अजिरादि-एकाक्षरनाममाला
सुखविततौ परितापे स्यादिह आकार आपकुम्भे च ।चिरविस्मृतसंस्मरणे लघुसम्मतसर्वगे भावे ॥ २ ॥
2 · p. 53
metre not recognised
कुसुमशरे गिरिकुहरे शशधरकिरणे करेणुकक्षौद्रे[?] ।भुजगफणामणिरोचिषि पठित इकारस्तु हीकारे ॥ ३ ॥
3 · p. 53
आर्या
ईकारः कमलायां कमलदले कमलकेसरे भुजगे ।गिरिशिखरे गिरिवारुणि सुरपतिचापे च रचनायाम् ॥ ४ ॥
4 · p. 53
आर्या
तरुशिखरे गिरिमौलौ गौरीहृदये च निगदित उकारः ।शशधररोचिषि शुचेरपि (? शुचिनि च) शुक्ल पक्षेऽत्रपे नेत्रे ॥ ५ ॥
5 · p. 53
metre not recognised
ऊकारो रेजनीकृति पुरुषे राजन्यगवलमङ्गी च ।प्राङ्गणमङ्गलकलशे देवे क्वचिदप्यथोन्मादे ॥ ६ ॥
6 · p. 53
आर्याmetre not read in every line
विभवे महति ऋकारो रिपुसूदन्यां गजे गिरौ विवरे ।ऋद्धिविशेषे देवे विनये योनौ सुराणां च ॥ ७ ॥
7 · p. 53
आर्या
अम्बुनि चिहुरे फणिदृशि ॠकारस्तुहिन-कमल-करुणासु ।ॠयुक्ते त्रिदशेऽपि च फणिपतिबाह्वोरलङ्कारे ॥ ८ ॥
8 · p. 53
आर्या
मरुदशने करिदशने दानवदशने कुलीरदशने च ।लिप्ताङ्गहृदयदेहे ऋजुर्लृकारं सदा पठितम् ॥ ९ ॥
9 · p. 53
आर्या
शक्रशरे कृकलासे नीलीजातौ स्वरे च लॄकारः ।मकरे शितमकरेन्द्रे नयनच्छवि-लोचनापाङ्गे ॥ १० ॥
10 · p. 53
आर्या
मणिकुट्टिम-हर्म्योदर-वासरमुख-गगन-नीरधारासु ।एकारो निशि निगदित एकादशमे पशावपि च ॥ ११ ॥
11 · p. 53
आर्याmetre not read in every line
ऐकारो दिग्दन्तिनि सुरपतिदन्तावले च सितपिच्छे ।ऐरावत इभभेदे पर्वतशिखरेऽपि चार्वर्थे ॥ १२ ॥
12 · p. 53
आर्या
ओतौ केतौ धनदे शरा-ऽसि-जम्बाल-सरसिज-जलेषु ।कुड्या-ऽम्बुनामदेवे विदित ओकारः खट्वासु ॥ १३ ॥
13 · p. 53
आर्याmetre not read in every line
औकारः परमार्थे सिद्धविमाने विशुद्धकार्ये च ।औषधपाने नेमि(?) च चन्द्रकलायामुमातनये ॥ १४ ॥
14 · p. 53
आर्या
अंकारः सुखवपने मन्त्रे द्राघीयसि सुनिष्कम्पे ।अञ्जन-योग-नियोगे सप्तस्वरसे(?) सुगाने च ॥ १५ ॥
15 · p. 53
आर्याmetre not read in every line
रविरथतुरङ्गरश्मौ अःकारः कथितः सिद्धमन्त्रे च ।शशिमण्डले च चक्रे कुर्कुटशिरसः शिखायां च ॥ १६ ॥
16 · p. 53
आर्याmetre not read in every line
ब्रह्मणि शिरसि च सलिलेऽनाहतशब्दे च निगदितः ककारः ।चामीकरेऽप्युदात्ते यज्ञविधौ शुक्लवर्णे च ॥ १७ ॥
17 · p. 53
आर्याmetre not read in every line
खः स्यादिह खगराजो नभोगतौ निश्चये तथा दीने ।पावनमपि दन्तीनां शान्तरसे चैव उदराग्नौ ॥ १८ ॥
18 · p. 53
आर्या
क्षितिनयने परमार्थे सुरसिद्यां च इह निगदितो गकारः ।गत्याक्षेपे वस्तुनि गान्धारेऽप्यथ च वाचायाम् ॥ १९ ॥
19 · p. 53
आर्याmetre not read in every line
घर्घरशब्द-पराक्रम-निदाघ-संवेग-वाद्यभूमिश्च ।विशिखश्विगवेतस्याभोगीने स्याच्च घः शब्दः ॥ २० ॥
20 · p. 53
आर्या
नित्यविशेषे विरसे स्याद्दिव्ये केपये(?) पराभागे ।विप्रकनिष्ठाङ्गुल्यां भरहररेखासु च चकारः ॥ २१ ॥
21 · p. 53
आर्या
भवति प्रलापनित्ये शक्तिपरे चाम्बुदे फणिपतौ च ।त्र्यक्षरमन्त्रविभागे छः शब्दः पारदे दाने ॥ २२ ॥
22 · p. 53
आर्या
योन्यामधरितशब्दे जः स्यादिह नीरदेऽप्यसम्बध्ये ।कार्याधरण-महोत्सव-विस्तार-समुद्रवेलासु ॥ २३ ॥
23 · p. 53
आर्या
पक्वौषध्यापाने पात्रविशेषे च निगदितो झकारः ।पद्मासने च दर्पे भद्रोपायाप्रतापे च ॥ २४ ॥
24 · p. 53
आर्याmetre not read in every line
तीव्रनिनादोत्ताने ञः शब्दः स्यादले विपत्तौ च ।दावाग्नौ चापि गते उपलेप-कलाप-सीमासु ॥ २५ ॥
25 · p. 54
metre not recognised
रक्षोदर-सव्याकृति-धूमर्दास्येतनो(?) रथावर्ते ।ठः शब्दः स्याद्भवने दिनकरकिरणेषु परितापे ॥ २६ ॥
26 · p. 54
आर्या
भवति डकारोऽतिशये रतदुरसाविस्मये च दुर्गपथे ।आन्दोलने च नारी[र्याम्] इक्षुरसे वाम-दक्षिणयोः ॥ २७ ॥
27 · p. 54
आर्या
ढः शब्दस्तु पिशाचे मूका-ऽलस-मूर्ख-मुग्ध-रोगेषु ।सव्या-ऽपसव्ययोरपि सुभगेऽप्यधिके भगे चैव ॥ २८ ॥
28 · p. 54
आर्या
नाशाग्नौ परिवर्त्तन-जात्यन्ध-कृकाटिकासु णः शब्दः ।स्यादिह पङ्कजपत्रे वेदनिनादे च विप्रसङ्गत्याम् ॥ २९ ॥
29 · p. 54
गीतिः
पश्चादर्ध-परिश्रम-वियोग-सम्भोग-तत्त्व-करुणासु ।धातुर्वादविधावपि तः स्याद्वीणादिके वाद्ये ॥ ३० ॥
30 · p. 54
आर्या
गृह-कल्लोल-सितासित-धुताधुतश्चारनालशब्देषु ।सन्मिषया परिमार्जन-कल्प-विरामेषु च थकारः ॥ ३१ ॥
31 · p. 54
आर्या
भवति दकारो दाने भावे सम्बोधने च वैराग्ये ।द्रावकवस्तुविशेषे गृहीतमुक्तेषु च विशुद्धौ ॥ ३२ ॥
32 · p. 54
आर्या
ऐरावतस्य कुम्भे आश्लेषे पावनेऽपि सामर्थ्ये ।धन्वन्तरे बिभीते धः शब्दः स्यात् कलत्रे च ॥ ३३ ॥
33 · p. 54
metre not recognised
नः शब्दः प्रतिषेधे स्थिर-निश्चय-शुष्कवाद-शून्येषु ।स्यादपरपरिश्लिष्टे चर्वित-छिन्ना-ऽतिभिन्नेषु ॥ ३४ ॥
34 · p. 54
आर्या
पः शब्दः स्यादमृते प्रसन्न-कलभोरु[रू]-वारिधारासु ।कौस्तुभमणि-प्रकाशे सन्ततिशुभलक्षणोपेते ॥ ३५ ॥
35 · p. 54
आर्या
फोऽविहतगतौ परोक्षे चन्द्रकलायां कलेवरे कुट्याम् ।केकायां शुचिभक्ते प्रभवेऽपाच्यां प्रतीकारे ॥ ३६ ॥
36 · p. 54
आर्याmetre not read in every line
बः शब्दः स्याद्विमले बिन्दु-विसर्गे च कुवलये चैव ।बलभद्राकर्षणनिभविकल्पबप्पीहके क्षिपि च ॥ ३७ ॥
37 · p. 54
आर्या
आकाश-दीप्ति-नक्षत्र-चार-दैवज्ञ-सिद्धमन्त्रे च ।अभिमतभावे भौमे भः शब्दः स्यादलङ्कारे ॥ ३८ ॥
38 · p. 54
आर्या
मो भवेदिह मेधायां निवारणे साक्षिसत्यवादे च ।हुतभुक्-सेनान्यङ्गज-पिङ्गलवर्ण-प्रकोष्ठेषु ॥ ३९ ॥
39 · p. 54
आर्याmetre not read in every line
शोभनावयवनिर्माण-रूपबीभत्स-अञ्जने पाके ।कल्पद्रुममञ्जर्यां भवति यकारोऽत्र पिण्डाक्षे ॥ ४० ॥
40 · p. 54
metre not recognised
लः स्याद्द्रुमशाखायां ललितललितचाटुकारवचनेषु ।षट्चरणे मकरेन्द्रे मधुमत्ते मन्दगत्यां च ॥ ४१ ॥
41 · p. 54
आर्या
वः शब्दस्तु विकल्पे स्यादिन्द्रियसंयमेषु पञ्चशरे ।तूर्ण-समुच्चय-जाग्रद-सृष्टादर-विनिर्गम-वटेषु ॥ ४२ ॥
42 · p. 54
आर्याmetre not read in every line
इन्द्रधनौ वल्मीके कच्छप-नृपभक्ति-देवपूजासु ।कुस्त्रीकृतेऽपि दग्धे भवति शकारस्तु कमलायाम् ॥ ४३ ॥
43 · p. 54
आर्या
सो भवेदिह साकारे प्रभञ्जने अविचले च शकटपथे ।ध्याने सद्धर्मशून्ये देहकलायामुमातनये ॥ ४४ ॥
44 · p. 54
आर्याmetre not read in every line
हः शब्दो हास्यरसे चतुर्मुखे चैव राजहंसे च ।वीणायाः क्वणितेऽपि च शोणमणिरुचिषु रोमाञ्चे ॥ ४५ ॥
45 · p. 54
आर्याmetre not read in every line
क्षः स्यात् क्षेपविशेषे दण्डधरे भार्गवे च भद्रायाम् ।दुःस्वप्नोपम-विग्रह-निर्भय-तट-कालकूटेषु ॥ ४६ ॥
46 · p. 54
आर्या