All kośas › Ekākṣarakoṣābhidhāna
एकाक्षरकोषाभिधान Ekākṣarakoṣābhidhāna
30 verses · text only, tagging comes next
Part 1
भास्करपण्डितविरचितम्
एकाक्षरकोषाभिधानम्
अकारो वासुदेवः स्यादाकारस्तु पितामहः ।इकार उच्यते कामे लक्ष्मीरीकार उच्यते ॥ १ ॥
1 · p. 130
अनुष्टुप्
उकारः शङ्करः प्रोक्त ऊकारश्चापि रक्षणे ।ऋकारो देवमाता स्यादॄकारः स्वर्ग उच्यते ॥ २ ॥
2 · p. 130
अनुष्टुप्
लृकारो देवमाता स्याद् लृकारो दनुजप्रसूः ।एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः ॥ ३ ॥
3 · p. 130
अनुष्टुप्
ओकारस्तु भवेद्ब्रह्मा औकारोनन्त उच्यते ।अं स्यात् तु परमं ब्रह्म अः स्याच्चैव महेश्वरः ॥ ४ ॥
4 · p. 130
अनुष्टुप्
कः प्रजापतिरुद्दिष्टः को वायुरिति संज्ञितः ।कश्चैवात्मा समाख्यातः प्रकाशे क उदाहृतः ॥ ५ ॥
5 · p. 130
अनुष्टुप्
कं शि… खं समाख्यातं खं शून्ये तथोदितम् ।गो गणपतिरुद्दिष्टो गन्धर्वो गः प्रकीर्तितः ॥ ६ ॥
6 · p. 130
metre not recognised
गञ्च गीतं गञ्च गतौ गौश्च धेनुः सरस्वती ।घो घण्टा च समाख्यातः किङ्किणी घः प्रकीर्तिता ॥ ७ ॥
7 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
हनने घः समाख्यातो घुर्ध्वनौ [तु] प्रकीर्तितः ।ङकारो भैरवः ख्यातो ङकारो विषयस्पृहा ॥ ८ ॥
8 · p. 130
अनुष्टुप्
चन्द्रमाश्चः समाख्यात[स्तस्कर]श्च उदाहृतः ।निर्म्मले छं समाख्यातं तरणे छं प्रकीर्तितम् ॥ ९ ॥
9 · p. 130
अनुष्टुप्
छेदने छः समाख्यातो विद्वद्भिः शब्दशासने ।तेजने जः समाख्यातो जवने जः प्रकीर्तितः ॥ १० ॥
10 · p. 130
अनुष्टुप्
जितो जश्च समाख्यातो विद्वद्भिः शब्दशासने ।झञ्झावाते झकारः स्या[न्नष्टे] झः समुदाहृतः ॥ ११ ॥
11 · p. 130
अनुष्टुप्
ञकारो गायने प्रोक्तो ञकारो घर्घरे ध्वनौ ।टङ्कारे टः पृथिव्यां टा टो ध्वनौ च प्रकीर्तितः ॥ १२ ॥
12 · p. 130
अनुष्टुप्
ठो महेशः समाख्यातः शून्येऽपि ठः प्रकीर्तितः ।बृहद्धनौ च ठः प्रोक्तस्तथा [च] चन्द्रमण्डले ॥ १३ ॥
13 · p. 130
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
डकारः शङ्करे त्रासे डकारो ध्वनिरुच्यते ।ढकारः कीर्तिता ढक्का निर्गुणे च ध्वनावपि ॥ १४ ॥
14 · p. 130
अनुष्टुप्
णकारः कीर्तितो ज्ञाने निर्ण्णयोपि प्रकीर्तितः ।तकारः कथितश्चौरे क्रोडे पुच्छे च कीर्तितः ॥ १५ ॥
15 · p. 130
अनुष्टुप्
शिलोच्चये थकारः स्यात्थकारो भयलक्षणे ।दं कलत्रं बुधैरुक्तं दो दान[च्छेद]दातृषु ॥ १६ ॥
16 · p. 130
अनुष्टुप्
धं कणे च धनेशो धो [धा] धातरि निदर्शितः ।धिषणा धीः समाख्यातो धुश्चैव भावचिन्तयोः ॥ १७ ॥
17 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
नकारः स्वगते [बन्धे] नुः स्तुतौ च प्रकीर्तितः ।नेता च नीः समाख्यातस्तरणे नौरुदाहृता ॥ १८ ॥
18 · p. 130
अनुष्टुप्
पवने पः समाख्यातः पा तु पाने च पातरि ।झञ्झावाते फकारः स्यादक्षरोऽपि प्रकीर्तितः ॥ १९ ॥
19 · p. 130
अनुष्टुप्
फकारोऽपि च फुः प्रोक्तस्तथा निष्फलभाषणे ।प्रचेता बः समाख्यातः कलसो ब उदाहृतः ॥ २० ॥
20 · p. 130
अनुष्टुप्
दीप्तिर्भा भूश्च भूमिः स्याद् भीर्भये कथिता बुधैः ।नक्षत्रे भं बुधाः प्राहुरमरो भः प्रकीर्तितः ॥ २१ ॥
21 · p. 130
अनुष्टुप्
मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्तिता ।मा च मातृ-विमाने च बन्धने मुः प्रकीर्तितः ॥ २२ ॥
22 · p. 130
अनुष्टुप्
यशो यं कथितं देवैर्यो वायुरिति शब्दितः ।याने यातरि यस्त्यागे कथितः शब्दवेदिभिः ॥ २३ ॥
23 · p. 130
अनुष्टुप्
वस्तु कामानले वह्नौ शब्दैरुच्च ? प्रकीर्तितः ।धने वा वीर्गतिः ख्यातो वा दाने च प्रकीर्तिता ॥ २४ ॥
24 · p. 130
अनुष्टुप्
ल इन्द्रे लवने लूः स्याल्ल्वादाने श्लेषणेऽपि लीः ।सान्तने वरुणे वाते बन्धने षः प्रकीर्तितः ॥ २५ ॥
25 · p. 130
अनुष्टुप्
ब्रुवन्ति वं बुधाः श्रेयः श्यामा वा परिकीर्तिता ।शश्च शास्त्रे तथा प्रोक्तः शब्दः शोऽपि निगद्यते ॥ २६ ॥
26 · p. 130
अनुष्टुप्
शीश्च शायनमित्याहुर्हिमनि शूर्निगद्यते ।षकारः कीर्तितः शेषे षुश्च गर्भविमोचने ॥ २७ ॥
27 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
सोऽपि स्वर्गः समाख्यातः सा लक्ष्मीस्तु निगद्यते ।सा च गौरी तथा प्रोक्ता सस्तु शूलिनिः कीर्तितः ॥ २८ ॥
28 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 निः (wrong syllable)
सः कोपे वानवे ? हं स्यात्तथाहनि च कीर्तितः ।क्षः क्षेत्रे रक्षसि प्रोक्तो नृसिंहे चैव दृश्यते ॥ २९ ॥
29 · p. 131
अनुष्टुप्
विदित्वा सर्वशास्त्राणि तथा कोषादिकञ्च यत् ।इदमेकाक्षरं कोषमाह पण्डितभास्करः ॥ ३० ॥
30 · p. 131
अनुष्टुप्