All kośas › Ekākṣaraśabdamālā
एकाक्षरशब्दमाला Ekākṣaraśabdamālā
144 verses · text only, tagging comes next
Part 1
हरितालराजामात्यमाधकृता
एकाक्षरशब्दमाला
वागीशाद्या सुमनसः सर्वार्थानामुपक्रमे ।यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
1 · p. 19
अनुष्टुप्
अत्रैकधा वा द्विस्त्रिर्वाऽप्येकमारतमक्षरम् ।तत्पदं लिङ्गभेदेन वदामि सुजनामृतम् ॥ ४ ॥
4 · p. 19
अनुष्टुप्
वेधा[धो]-विष्णु-महेशान-कमलेष्वम्बिके-ज्ययोः ।अन्तःपुरे भूषणे च चरणे कारणे रणे ॥ ५ ॥
5 · p. 19
metre not recognisednearly अनुष्टुप्
ईषदर्थे विस्मये च सन्तोषा-ऽमर्षयोरपि ।सुखतत्यां तथा सीम्नि चारे विस्मृत-संस्मृतौ ॥ ७ ॥
7 · p. 19
अनुष्टुप्
लघुवस्तुनि च प्रोक्तः सलिला-ऽऽक्षेपयोरपि ।इकारः कुसुमास्त्रे च हारे चन्द्रमसः करे ॥ ८ ॥
8 · p. 19
अनुष्टुप्
तथा करेणुदन्ते च महीभृत्कुहरेऽपि च ।भुजङ्गफणिरत्नार्चिः ष्वग्रतोऽर्थे निरूप्यते ॥ ९ ॥
9 · p. 19
अनुष्टुप्
क्षोणीभृत्कुहरे पद्मे दले ज्ञानिगुरौ तथा ।उकारः क्षेत्रपे शम्भौ हरमौलौ हरौ शुचौ ॥ ११ ॥
11 · p. 19
अनुष्टुप्
तपो-द्रुमाग्र-चन्द्राभ-गौरी-भूषण-लोचने ।ऊकारो रजनीनाथे पुरुषे राजपुत्रके ॥ १२ ॥
12 · p. 19
अनुष्टुप्
गले मङ्गलकुम्भे च देवे वणिज[जि] रक्षके ।उपमाने प्राङ्गणे च क्वचिदर्थे प्रवर्तते ॥ १३ ॥
13 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वणि (syllable split)
ऋकारस्तु रिपौ बुद्धि-विशेषे कुञ्जरे गिरौ ।भावे देवतटिन्यां च सुरायां देवमातरि ॥ १४ ॥
14 · p. 19
अनुष्टुप्
सर्वकोपे च विज्ञेयः प्राज्ञैरौचित्यकोविदैः ।लृकारो लिप्तगोत्रे च त्रिदिवेशे च नप्तरि ॥ १७ ॥
17 · p. 19
अनुष्टुप्
रुरुदन्ते हस्तिदन्ते कुलीर-कपिदन्तयोः ।सुपर्णमातरि प्रोक्तो रजस्याभि[स्यपि] मनीषिभिः ॥ १८ ॥
18 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 4 स्यपि (syllable split)
लीलागमन-नेत्रा-न्तर्लोचना-ङ्गेषु च स्मृतः ।एकारः कथ्यते विष्णौ रजनी-वारिधारयोः ॥ २० ॥
20 · p. 19
अनुष्टुप्
हर्म्योदरे दिनमुखे गगने मणिकुट्टिमे ।तेजस्येकादशाख्यायां संख्यायामपि दृश्यते ॥ २१ ॥
21 · p. 19
अनुष्टुप्
ऐकारः शङ्करे हस्ति-दिग्भागेष्विन्द्रवारणे ।तूमाल[?]-वर्त्म-दंशेषु त्वचि स्याच्छिखरे गिरौ ॥ २२ ॥
22 · p. 19
अनुष्टुप्
ओकारो ब्रह्म-शीतांशु-पङ्क-दायान्तरेषु च[?] ।त्रिदिवेश-पयोवाह-जीव-स्वसदनेष्वपि ॥ २३ ॥
23 · p. 19
अनुष्टुप्
योगी[गि]-सरोज-तोयेषु कुड्ये च कथितो बुधैः ।औकारः पार्वतीपुत्रे प्रश्ने चौषधि-मानयोः ॥ २४ ॥
24 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विशुद्धकायेऽनन्ते च कलायां रजनीपतेः ।तथा सिद्धे विमाने च कथ्यते कृतबुद्धिभिः ॥ २५ ॥
25 · p. 19
अनुष्टुप्
अं तु स्याद्वज्रसदने मुनौ कम्पा-तिदीर्घयोः ।सप्तस्वरान्ते माने च संगीतज्ञैरुदाहृतम् ॥ २६ ॥
26 · p. 19
अनुष्टुप्
अञ्जलौ नामनि वेगे परस्मिन्नपि तेजसि ।अः शब्दो गिरिजानाथे सिद्धमन्त्रे रमापतौ ॥ २७ ॥
27 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
दिनेशस्यन्दनहये प्रभाते पद्मसंभवे ।शिखायां चन्द्रबिम्बे च चरणायुध-मस्तके ॥ २८ ॥
28 · p. 19
अनुष्टुप्
चक्रार्थे चाभिधानेषु दृष्टो माधवमन्त्रिणा ।
29 · p. 19