कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaraśabdamālā

एकाक्षरशब्दमाला Ekākṣaraśabdamālā

144 verses · text only, tagging comes next

व्यञ्जनकाण्डः

अथ व्यञ्जनकाण्डः

कः स्यात् पितामहे ब्रघ्ने मारुते शमने बले ॥ २९ ॥
1.29 · p. 19
सितवर्णे मयूरे च हरावात्मनि वारिधौ ।वसौ चाहनि शब्दे च प्रकाशे पुंसि कथ्यते ॥ ३० ॥
1.30 · p. 19
अनुष्टुप्
स्त्रीलिङ्गे वसुमत्यां का कं तु शब्दो नपुंसके ।सलिले च सुखे केशे ब्रह्मण्यपि च मस्तके ॥ ३१ ॥
1.31 · p. 20
अनुष्टुप्
सर्वनामानि किंशब्दस्त्रिषु लिङ्गेषु च स्मृतः ।अथाऽव्ययं किमाक्षेपे तुच्छप्रश्न-वितर्कयोः ॥ ३२ ॥
1.32 · p. 20
अनुष्टुप्
कुशब्दस्तूपसर्गे स्यादुर्व्यां विगर्हितेऽपि च ।चक्रे कोको भवेत् काको ध्वाङ्क्षे चाषे किकिस्तथा ॥ ३३ ॥
1.33 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
कङ्कः पक्षिविशेषे च गुप्तकाय-युधिष्ठिरे ।त्रिलिङ्गे काकुशब्दस्तु ध्वनिवैरूप्यसंभवे ॥ ३४ ॥
1.34 · p. 20
अनुष्टुप्
गायकानां कण्ठदोषे काकिः केका शिखिस्वने ।कस्मिंश्चिन्मुनिभेदे च शास्त्रभेदे च मन्मथे ॥ ३५ ॥
1.35 · p. 20
अनुष्टुप्
क-कोकशब्दः क्रमतः पुं-नपुंसकयोर्भवेत् ।अत्यर्थे चैव तादर्थ्ये कः प्रत्यय उदाहृतः ॥ ३६ ॥
1.36 · p. 20
अनुष्टुप्
खः पुंलिङ्गे कृशे दीने स्वर्ग-शून्यो-दराऽग्निषु ।कृपाणे निश्चये शान्तरसे विहगनायके ॥ ३७ ॥
1.37 · p. 20
अनुष्टुप्
खमिन्द्रिये सुखे क्षेत्रे पुरि बिन्दौ विहायसि ।दन्तधावन-संवेशे घुणाहिफलकेष्वपि ॥ ३८ ॥
1.38 · p. 20
अनुष्टुप्
गः शब्दः पुंसि गान्धारे गन्धर्वे गणनायके ।परमार्थे महीपुत्रे छन्दःसु गुरुवाचके ॥ ३९ ॥
1.39 · p. 20
अनुष्टुप्
स्त्रियां तु सुरशय्यायां गो-गत्योश्चैव गाः स्मृता ।गं शब्दोऽपि तथा प्रोक्तः कोशज्ञानपरायणैः ॥ ४० ॥
1.40 · p. 20
अनुष्टुप्
नपुंसके च संगीते गाने च परिकीर्त्यते ।गौः स्यात् पुंसि निशानाथे क्रतुभेदे प्रभाकरे ॥ ४१ ॥
1.41 · p. 20
अनुष्टुप्
वृषभे मुनिभेदे च स्त्रियां तु धरणी-दिशोः ।अर्जुन्यां च सरस्वत्यां सुरभावपि कथ्यते ॥ ४२ ॥
1.42 · p. 20
अनुष्टुप्
त्रिषु लिङ्गेषु गोशब्दो दृष्टि-दीधिति-वारिषु ।व्योम्नि स्वर्गे शरे वज्रे गङ्गा तु सुरवाहिनी ॥ ४३ ॥
1.43 · p. 20
अनुष्टुप्
घः पुंसि भोगे संवेशे पराक्रम-निदाघयोः ।घण्टा-हननयोश्चापि वैशाखे पुंसि कथ्यते ॥ ४४ ॥
1.44 · p. 20
अनुष्टुप्
घा वार्ता-किङ्किणी-क्ष्मासु घं वाद्य-मृगयोर्भवेत् ।घः श्रवे निनदे पुंसि सुरभौ परिकीर्त्यते ॥ ४५ ॥
1.45 · p. 20
अनुष्टुप्
घशब्दः शब्द-घोरार्थे त्रिषु लिङ्गेषु वर्तते ।ङकारः पुंसि शब्दज्ञे भैरवे विषये जने ॥ ४६ ॥
1.46 · p. 20
अनुष्टुप्
अनुबन्धान्त-निनद-परिपन्थ्य-वसायिषु ।नपुंसके त्वञ्जने स्याद् वाच्यलिङ्गो भयङ्करे ॥ ४७ ॥
1.47 · p. 20
अनुष्टुप्
चः पुंलिङ्गे निशानाथे तुरुष्के तस्करे-श्वरे ।चा शोभायां स्त्रियामुक्ता रुधिरे च नपुंसके ॥ ४८ ॥
1.48 · p. 20
अनुष्टुप्
चशब्दस्त्रिषु लिङ्गेषु त्वमलार्थेऽव्ययं स्मृतम् ।समुच्चया-ऽन्वाचययोः पक्षान्तरनिरूपणे ॥ ४९ ॥
1.49 · p. 20
अनुष्टुप्
समासके समाहारे मिथ्यायोगेऽप्युदाहृतः ।चञ्चुः स्त्रियां पक्षिमुखे चिञ्चा स्याच्चिञ्चिणी तथा ॥ ५० ॥
1.50 · p. 20
अनुष्टुप्
तेनवीत्तोयमित्यर्थे[?] चञ्चुप्रत्यय इष्यते ।छः पुंसिच्छेदने सर्पे छात्रे शक्तिधरे छगे ॥ ५१ ॥
1.51 · p. 20
अनुष्टुप्
सूते प्रलापे मन्त्रस्याऽविभागे त्वचरस्य च ।आच्छादने छ[?]विश्वे च वर्तते पुं-नपुंसके ॥ ५२ ॥
1.52 · p. 20
अनुष्टुप्
नित्य-निर्मलयोरुक्तश्छकारो वाच्यलिङ्गवत् ।जः पुमान् विजये मेरौ विस्तारे मत्सरे जने ॥ ५३ ॥
1.53 · p. 20
अनुष्टुप्
जं तूर्यविवरे शब्दे जा स्त्रियां देववाहिनी ।योनौ समुद्रवेलायां जं नपुंसकमम्बुनि ॥ ५४ ॥
1.54 · p. 20
अनुष्टुप्
कटीविभूषणे पत्न्यां तेजस्यजिन-जन्मनोः ।जाः पुंसि च जले व्योम्नि पिशाचे गणके जने ॥ ५५ ॥
1.55 · p. 20
अनुष्टुप्
जूः स्त्रियां तु सरस्वत्यां जा जीः स्यात् सलिले पुमान् ।पुंलिङ्गे तु झकारः स्यात् सरसीरुहसम्भवे ॥ ५६ ॥
1.56 · p. 20
अनुष्टुप्
झञ्झानिले प्रतापे च हंसके भ्रमरे मदे ।उपाये घर्घरध्वाने झं तु स्याद्भद्र-पद्मयोः ॥ ५७ ॥
1.57 · p. 20
अनुष्टुप्
भयङ्करे झशब्दः स्यात् त्रिषु लिङ्गेषु कीर्तितः ।ञकारोऽपि तथा नष्टे झञ्झा तीव्रसमीरणे ॥ ५८ ॥
1.58 · p. 20
अनुष्टुप्
ञकारः पुंसि विषये व्यूहे गर्दभनिःस्वने ।लोपा-ऽवलोकयोरात्माऽ-भाव-निश्चय-मूर्धसु ॥ ५९ ॥
1.59 · p. 20
अनुष्टुप्
ञकारः सीम्नि नास्तिक्ये स्त्रियामथ नपुंसके ।भयेऽपत्ये त्रिलिङ्गः स्यादुत्ताने मूढरूपके ॥ ६० ॥
1.60 · p. 20
अनुष्टुप्
टः पुंलिङ्गे ध्वनौ सूनौ करटे धूम-तापयोः ।आवर्ते भानुरश्मौ च कवाटे टुः प्रकीर्तितः ॥ ६१ ॥
1.61 · p. 20
अनुष्टुप्
टा स्त्रियां भुवि मृज्यायां व्यावृत्तौ च निगद्यते ।ठशब्दः कथ्यते पुंसि बृहद्ध[ध्वा]न-महेश्वरे ॥ ६२ ॥
1.62 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नपुंसके साहसे स्यात् ठं भवेच्चन्द्रमण्डले ।त्रिलिङ्ग्यां तु शठे शून्ये मनोजे कठिनेऽपि च ॥ ६३ ॥
1.63 · p. 21
अनुष्टुप्
डकारः कथ्यते पुंसि विषये शङ्करेऽधरे ।हास्ये कुड[ठ]-निनादे च क्षये रौद्ररसे ध्वनौ ॥ ६४ ॥
1.64 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्त्रियां तु वाचि शिक्षायां व्रीडायामपि डा स्मृता ।भवेन्नपुंसके दुर्गपथे डमरुगे तथा ॥ ६५ ॥
1.65 · p. 21
अनुष्टुप्
आन्दोलने चामरे च त्रिलिङ्ग्यां गायके जडे ।डिण्डिश्च डिण्डिमे पुंसि डस्तु पुंसि भगन्दरे ॥ ६६ ॥
1.66 · p. 21
अनुष्टुप्
पिशाचे पथिके काले रागे च परिकथ्यते ।स्त्रीलिङ्गे डा भवेड्ढक्का पण्डितैरिह कथ्यते ॥ ६७ ॥
1.67 · p. 21
अनुष्टुप्
ढं तु ज्ञाने तूर्यमुखे ढस्त्रिलिङ्ग्यां च निर्गुणे ।वर्तने निगूढे मूढे सौम्ये सव्या-ऽपसव्ययोः ॥ ६८ ॥
1.68 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गू (wrong syllable)
णशब्दः कण्टके जारे भैरवे चाध्वरे पुमान् ।णा तु स्त्री रजनी-शय्या-धेनु-नाशा-कथास्वपि ॥ ६९ ॥
1.69 · p. 21
अनुष्टुप्
णं सरोजदले ज्ञाने गगने चरणे रणे ।णशब्दस्तु त्रिलिङ्गेषु भवेन्निस्तुषवस्तुनि ॥ ७० ॥
1.70 · p. 21
अनुष्टुप्
तकारः पुंसि संयोगे निश्चये वितरे श्रमे ।धातुवादे विधौ क्रोधे ता कृपायां स्त्रियां मता ॥ ७१ ॥
1.71 · p. 21
अनुष्टुप्
पश्चादर्थे विपक्षायां तच्छब्दोऽव्ययमुच्यते ।तुः स्यात् समुच्चये हेतौ निश्चये अ[चा]वधारणे ॥ ७२ ॥
1.72 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ततः शब्दोऽनन्तरार्थे तातस्तु जनके पुमान् ।तन्तुः पुंसि गणे स्तोमे स्त्रियां ततिरुदाहृता ॥ ७३ ॥
1.73 · p. 21
अनुष्टुप्
नपुंसके तन्तुवाद्ये वीणाद्ये परिकीर्त्यते ।ततस्तु त्रिषु लिङ्गेषु विश्रुतार्थे प्रदृश्यते ॥ ७४ ॥
1.74 · p. 21
अनुष्टुप्
थः पुमानिन्दुके शैले विरामे च महीधरे ।स्यादास्फालनशब्दे च ज्यायां तु स्त्रियां नदे ॥ ७५ ॥
1.75 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
थं नपुंसकलिङ्गे तु भवेद्भयनिवारणे ।त्रिलिङ्ग्यां तु थकारोऽसौ सिता-ऽसित-पृथुष्वपि ॥ ७६ ॥
1.76 · p. 21
अनुष्टुप्
पुमान् दातरि दः प्राणे दा स्त्रियां क्षान्ति-दानयोः ।दं नपुंसकलिङ्गे तु भवेत् पुत्र-कलत्रयोः ॥ ७७ ॥
1.77 · p. 21
अनुष्टुप्
दा तु सम्बोधने दीने वैराग्ये चावबोधने ।दस्त्रिलिङ्ग्यां चले मूले गृहीते द्रावके शुचौ ॥ ७८ ॥
1.78 · p. 21
अनुष्टुप्
पुं-नपुंसकयोर्बाहौ दोः स्यात् क्ष्वण्डे च दौः स्त्रियाम् ।तुच्छार्थे निन्दिते दुःखे चोपसर्गे च दुर्मतः ॥ ७९ ॥
1.79 · p. 21
अनुष्टुप्
धा पुमानिभकुम्भे स्याद् धन्वन्तरि-कुबेरयोः ।दाने माने विशेषे च निनदेषु च दातृषु ॥ ८० ॥
1.80 · p. 21
अनुष्टुप्
क्लीबे तु धं धूनने च खड्ग[गे] सामर्थ्य-गेहयोः ।धने धान्ये स्त्रियां धा स्याद् बुधौ[द्धौ] धूपे च धूः पुमान् ॥ ८१ ॥
1.81 · p. 21
metre not recognisednearly अनुष्टुप्
स्त्रीलिङ्गे धूर्भवेदङ्गे भारे च युग-विश्वयोः ।नकारः पुंसि हेरम्बे ना भवेत् पुरुषे तथा ॥ ८२ ॥
1.82 · p. 21
अनुष्टुप्
नकारस्तु स्त्रियां नाभावज्ञान-ज्ञानयोर्भवेत् ।नशब्दस्त्रिषु लिङ्गेषु वाद्ये चाऽभिन्न-सूक्ष्मयोः ॥ ८३ ॥
1.83 · p. 21
अनुष्टुप्
प्रस्तुते चापरिश्लिष्टे शून्ये निर्नेतरि स्मृतः ।नुः स्त्रियां तु स्तुतौ ज्ञाने नौस्तथैव निरूप्यते ॥ ८४ ॥
1.84 · p. 21
अनुष्टुप्
नुन्नशब्दस्त्रिलिङ्गः स्यान्निष्ठुरे कथ्यते बुधैः ।अव्ययः प्रतिषेधार्थे नकारः स्थिर-निश्चये ॥ ८५ ॥
1.85 · p. 21
अनुष्टुप्
नाना प्रकारभेदे स्याद् भवेन्नु त्ववधारणे ।पुंलिङ्गे तु पकारः स्यात् पवने पर्वते क्षणे ॥ ८६ ॥
1.86 · p. 21
अनुष्टुप्
पकारः शुभलग्ने च पत्र-शास्त्र-चयेऽपि च ।पा स्त्रियां संगतौ वारि-धरा[धार]-पान-सुधास्वपि ॥ ८७ ॥
1.87 · p. 21
अनुष्टुप्metre not read in every line
नपुंसके पं कनके प्रसन्ने वाच्यलिङ्गवत् ।आप्ये चापि तथैव स्यात् स्त्रियां पु[पू]र्नगरी स्मृता ॥ ८८ ॥
1.88 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पूपशब्दस्त्वपूपार्थे बुद्धौ पुंसि निगद्यते ।पम्पा सरोविशेषे स्त्री पापं पुण्योत्त[येत]रक्रिया ॥ ८९ ॥
1.89 · p. 21
अनुष्टुप्
तद्वति त्रिषु लिङ्गेषु पाप्युक्तः शब्दशासनैः ।झञ्झावाते फकारः स्यादास्वादे वारणे रणे ॥ ९० ॥
1.90 · p. 21
अनुष्टुप्
फकारोऽहीन्द्रफूत्कारे पुंसि स्यादथ फा स्त्रियाम् ।निष्ठुरोक्ति-कला-केश-कुटी-धनुःषु कथ्यते ॥ ९१ ॥
1.91 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
विशेष्यनिघ्नः फश्शब्दः परोक्षे पलिते तथा ।बः पुमान् पुरुषे कुम्भे विकल्पे गगने गुरौ ॥ ९२ ॥
1.92 · p. 21
अनुष्टुप्
कलहे खगभेदे च मदे बाल्ये च पर्वणि ।विभूतिकारे बिन्दौ च बलाकृष्टविसर्जने ॥ ९३ ॥
1.93 · p. 21
अनुष्टुप्
बाकारस्तु स्त्रियां वल्ली-काहली-शृङ्खलास्वपि ।नपुंसके बले बं स्यादमले वाच्यलिङ्गवत् ॥ ९४ ॥
1.94 · p. 21
अनुष्टुप्
बिः पुमानण्डजे व्योम्नि बिम्बत्वेऽथ नपुंसके ।फणभेदे पुष्पदन्ते मण्डले पुं-नपुंसके ॥ ९५ ॥
1.95 · p. 22
अनुष्टुप्
भकारः पुंसि जलधौ भावे शम्भौ शिलीमुखे ।सिद्धे स्त्रियां तु भा दीप्तौ स्याद्धारायामलङ्कृतौ ॥ ९६ ॥
1.96 · p. 22
अनुष्टुप्
नपुंसके भं नक्षत्रे गगने मन्त्र-चन्द्रयोः ।भीः स्त्रियां साध्वसे भूश्च रतौ भूर्भूमिरव्ययम् ॥ ९७ ॥
1.97 · p. 22
अनुष्टुप्
भो भोः संबोधने भूरि बह्वर्थे च निगद्यते ।पुमान् मकारः श्रीकण्ठे चन्द्रे वह्नौ विभावसौ ॥ ९८ ॥
1.98 · p. 22
अनुष्टुप्
सत्यवादे प्रकोष्ठे च तत्साक्षि…दे तथा ।कपिले पिङ्गले वर्णे बिम्बके मुः प्रकीर्तितः ॥ ९९ ॥
1.99 · p. 22
अनुष्टुप्metre not read in every line
मा श्रियामिन्दिकायां वा मृतौ माने च मातरि ।मदिरा-मेघयोः सेना-वेलयोरपि दृश्यते ॥ १०० ॥
1.100 · p. 22
अनुष्टुप्
नपुंसके जने मं स्यादव्ययं मा निवारणे ।यकारः पुंसि पवने यमे दातरि यातरि ॥ १०१ ॥
1.101 · p. 22
अनुष्टुप्
त्यागे चावयवे शिष्ये विनये कल्पपादपे ।या स्त्रियां यान-मञ्जर्योः शोभा-लक्ष्म्योश्च निर्मिता ॥ १०२ ॥
1.102 · p. 22
अनुष्टुप्
नपुंसके यकारस्तु यशो-रूपकयोर्भवेत् ।ययुः पुमान् भवेदश्वमेधयोग्यतुरङ्गमे ॥ १०३ ॥
1.103 · p. 22
अनुष्टुप्
यायी गमनशीले च प्रोक्तो माधवमन्त्रिणा ।रः स्यात् पुमान् शिवे वह्नौ वज्रे कामे रवौ गुरौ ॥ १०४ ॥
1.104 · p. 22
अनुष्टुप्
आराधने विधौ पिण्डे वीरे पाके चरे श्रवे ।नपुंसके रशब्दस्तु ध्यान-व्योमा-ऽण्ड-कुक्षिषु ॥ १०५ ॥
1.105 · p. 22
अनुष्टुप्
रस्तु शब्दो नये युद्धे भये चैव हि रा स्त्रियाम् ।आशायां च धने व्योम्नि शालायां च गतौ तथा ॥ १०६ ॥
1.106 · p. 22
अनुष्टुप्
उत्तमाङ्गे च वदने रुधिरे चापि साध्वसे ।विशेष्यनिघ्नो रं शब्द-विवरे जल-तीक्ष्णयोः ॥ १०७ ॥
1.107 · p. 22
अनुष्टुप्
नीचसम्बोधने रे स्यादव्ययं परिकीर्तितम् ।मुनिभेदे रुरुः पुंसि मृगभेदे च कथ्यते ॥ १०८ ॥
1.108 · p. 22
अनुष्टुप्
लः पुंसि शक्रे ला स्त्री स्याल्लं दाने[थ] नपुंसके ।लकारो लवने लूने वाच्यलिङ्गो भवेदसौ ॥ १०९ ॥
1.109 · p. 22
अनुष्टुप्
मुखनिसृतनिष्ठू[यू]ते लाला लीला तु नर्मणि ।लोलः सतृष्ण-चलयोर्वाच्यलिङ्गो निविद्यते ॥ ११० ॥
1.110 · p. 22
अनुष्टुप्metre not read in every line
वः पुमान् सान्त्वने वाते वरुणे संयमेऽधरे ।प्रबोधे मदने चैव विहङ्गे गगने च विः ॥ १११ ॥
1.111 · p. 22
अनुष्टुप्
शिक्षा-मृगा-ऽण्ड-गतिषु वा स्त्री वस्त्रे नपुंसके ।विशब्दो नयने पत्रे वाऽव्ययं [स्यात्] समुच्चये ॥ ११२ ॥
1.112 · p. 22
अनुष्टुप्
उपमायां विकल्पे च निश्चये च निगद्यते ।विलये च विशेषे च विहृतौ वि भवेत् तथा ॥ ११३ ॥
1.113 · p. 22
अनुष्टुप्
विश्राणने व्यवाये च वैपरीत्यादिषु स्मृतः ।शकारः पुंसि गिरि[री]शे शिष्ये स्वस्ति-तनूकृतौ ॥ ११४ ॥
1.114 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वल्मीके कच्छपे भूते शकारस्तु सदाशिवे ।शा स्त्रियां देवपूजायां शान्तौ शोभा-वरेण्ययोः ॥ ११५ ॥
1.115 · p. 22
अनुष्टुप्
शक्तो भक्तौ रमायां च शकारः शयना-ऽऽशिषोः ।विततावपि शूकारो हिंसायां च निगद्यते ॥ ११६ ॥
1.116 · p. 22
अनुष्टुप्
शं स्यान्नपुंसके शास्त्रे यशसी-न्द्र-शरासने ।तूष्णींगते सुखे नाके श्रेयसि स्यात् तु मङ्गले ॥ ११७ ॥
1.117 · p. 22
अनुष्टुप्
शान्ते नीतौ शकारस्तु परोक्षे वाच्यलिङ्ग[व]त् ।उदात्ते च विपक्षे च शशी पुंसि कलानिधौ ॥ ११८ ॥
1.118 · p. 22
अनुष्टुप्
शशो मृगविशेषे च बाले च शिशुरुच्यते ।षकारस्त्रिदिवे पुंसि परोक्षे विभवे तथा ॥ ११९ ॥
1.119 · p. 22
अनुष्टुप्
षा स्त्रियां मदिरायां स्यात् षकारोऽथ नपुंसके ।अवसाने गर्भमोक्षे मर्षणे च निरूप्यते ॥ १२० ॥
1.120 · p. 22
अनुष्टुप्
नित्राणने विवाहे च रवौ [दितौ] च पुष्पके ।विशेष्यनिघ्नः षः शब्दः श्रेष्ठार्थे समुदाहृतः ॥ १२१ ॥
1.121 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
सकारः पुंसि साकारे गौरीपुत्रे प्रभञ्जने ।धर्मे हिते च साकारो देहकान्तौ स्त्रियां मतः ॥ १२२ ॥
1.122 · p. 22
अनुष्टुप्
सूस्तथा गर्भमोक्षे च सन्धाने विनिवारणे ।ज्ञाने रथपथे चैव त्रिलिङ्ग्यामपि संस्मृतम् ॥ १२३ ॥
1.123 · p. 22
अनुष्टुप्
श्रेष्ठ-विकल्पयोः सं स्यात् सद्धर्म उपसर्जने ।सीसं नपुंसके प्रोक्तं धातुभेदे मनीषिभिः ॥ १२४ ॥
1.124 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
हकारः पुंसि जनने हरिण्यां हरि-सिंहयोः ।ईश्वरे चावकेषे? च रण-रोमाञ्च-वाजिषु ॥ १२५ ॥
1.125 · p. 22
अनुष्टुप्
हा स्त्रियां त्यजने गत्यां वीणायां च निगद्यते ।पुंसि के च? हकारस्तु क्वणिते मणिरोचिषि ॥ १२६ ॥
1.126 · p. 22
अनुष्टुप्
धारणे च परब्रह्मे शस्त्रे चामन्त्रणेऽपि च ।सुखे विशेषणे चैव त्रिलिङ्गमपि कथ्यते ॥ १२७ ॥
1.127 · p. 23
अनुष्टुप्
उन्मत्त-हास्ययोश्चैव हाऽव्यये कष्ट-शोकयोः ।आर्ति-गर्जनयोरुक्ते हौ च संबोधने भवेत् ॥ १२८ ॥
1.128 · p. 23
अनुष्टुप्
हि हेतौ च प्रसिद्धौ च हमङ्गीकरणे रुचौ ।हाहा हूहूश्च गन्धर्वे हंहो संबोधनेऽव्ययम् ॥ १२९ ॥
1.129 · p. 23
अनुष्टुप्
अहाहोऽत्यद्भुते भेद आश्चर्ये नामशासने ।अहो विकल्पे हर्षे च मदिरा-मोदयोरपि ॥ १३० ॥
1.130 · p. 23
अनुष्टुप्
क्षकारः पुंसि दुःस्वप्ने क्षेत्रेऽपि राक्षसे तथा ।क्षेमे दुर्विषये रोधे विशेषे च निगद्यते ॥ १३१ ॥
1.131 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
क्षा क्षमायां च निद्रायां क्षं स्याद्वृक्षे नपुंसके ।क्षेत्रे निर्भर्त्सने चैव क्षोऽव्ययं मञ्जुवाचके ॥ १३२ ॥
1.132 · p. 23
अनुष्टुप्

इति व्यञ्जनकाण्डः

द्युशब्दोऽव्ययरूपः स्याद् दुर्देशे प्रश्नवाचके ।ख्यातौ स्त्रियां तु ख्याशब्दो ग्लौः स्यात् पुंसि कलानिधौ ॥ १३३ ॥
1.133 · p. 23
अनुष्टुप्
ज्ञशब्दः सौम्य-विदुषोर्ज्ञा स्त्रियां चावबोधने ।ज्याशब्दः कार्मुकगुणे स्त्रीलिङ्ग्यां कथितो बुधैः ॥ १३४ ॥
1.134 · p. 23
अनुष्टुप्
त्राकारः कथितस्त्राणे स्त्रियां द्वार्द्वारि कथ्यते ।द्रुशब्दः कथितो धीरैः पुंलिङ्गो वृक्षवाचकः ॥ १३५ ॥
1.135 · p. 23
अनुष्टुप्
संख्याभेदे त्रिलिङ्ग्यां च त्रिशब्दः परिकीर्तितः ।द्यौः स्त्रियां नभसि स्वर्गे वाच्यः स्यात् पूरणे स्त्रियाम् ॥ १३६ ॥
1.136 · p. 23
अनुष्टुप्
उपसर्गः प्रकारस्तु प्रकृष्टार्थस्य वाचकः ।जयार्थवाचकः शब्दस्त्रिलिङ्गः कथितो बुधैः ॥ १३७ ॥
1.137 · p. 23
अनुष्टुप्
बिल्ववृक्षे विषे लक्ष्म्यां श्रीशब्दः कथ्यते स्त्रियाम् ।स्वशब्दः स्वात्मनि ज्ञातौ पुमान् वित्ते नपुंसके ॥ १३८ ॥
1.138 · p. 23
अनुष्टुप्
स्वकीये तु त्रिलिङ्गः स्यादव्ययं स्वस्तु[त्रि]विष्टपे ।आगामिनि दिने श्वः स्यादव्ययं परिकीर्तितम् ॥ १३९ ॥
1.139 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उषायां जन्तुभेदे च स्त्रीशब्दः कथ्यते स्त्रियाम् ।स्नुशब्दः शैलकटके पुं-नपुंसकयोर्भवेत् ॥ १४० ॥
1.140 · p. 23
अनुष्टुप्
ह्रीः स्त्रियां कथ्यते व्रीडा ह्योऽव्ययं दिवसे गते ।क्ष्माशब्दः कथ्यते प्राज्ञैः स्त्रीलिङ्गे भूमिवाचकः ॥ १४१ ॥
1.141 · p. 23
अनुष्टुप्
अनुसम्बोधने धीरैर्जिह्वामूलीय उच्यते ।वा शान्ते वाऽपि शक्तौ च उपध्मानीय पी[इ]ष्यते ॥ १४२ ॥
1.142 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यस्य ज्ञान-सुरद्रुमं रघुपतिं स्याङ्गेन धर्मात्मजंधर्मेणानुकरोत्यसौ हरि-हरनाम्ना रमावल्लभः ।तत्सायुज्यधुरन्धरो गुणनिधिः श्रीमायणाख्यात्मजोमन्त्री माधवको निघण्टुमकरोन्नानार्थ ए[मे]काक्षरम् ॥ १४३ ॥
1.143 · p. 23
metre not recognisednearly शार्दूलविक्रीडितम्: pāda 2, syllable 12 र (wrong syllable)