कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣarīmātṛkākoṣa

एकाक्षरीमातृकाकोष Ekākṣarīmātṛkākoṣa

53 verses · text only, tagging comes next

Part 1

एकाक्षरीमातृकाकोषः

श्रीगणेशं महेशानं भारतीमीश्वरं शिवम् ।नत्वा वक्ष्ये मातृकाणां निघण्टं बालबुद्धये ॥ १ ॥
1 · p. 51
अनुष्टुप्

ॐ

ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदादिस्तारकोऽव्ययः ।प्रणवश्च त्रिमात्रोऽपि ॐकारो ज्योतिरादितः ॥ २ ॥
2 · p. 51
अनुष्टुप्

अः

श्रीकण्ठः केशवश्चापि निवृत्तिश्च स्वरादिकः ।अकारो मात्रि(तृ)काद्यश्च वात इत्यभिधीयते ॥ ३ ॥
3 · p. 51
अनुष्टुप्

आ

नारायणस्तथाऽनन्तो मुरवृत्तो गुरुस्तथा ।विष्णुः(ष्णु)शय्या तथा शेषो दीर्घ आकार एव च ॥ ४ ॥
4 · p. 51
अनुष्टुप्

इ

माधवः सूक्ष्मः(क्ष्म)संज्ञश्च विद्या दक्षिणलोचनम् ।गन्धर्वः पाञ्चजन्यश्च इकारश्चमुकाङ्कुरः ॥ ५ ॥
5 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्ष्मः (wrong syllable)

ई

गोविन्दश्च त्रिमूर्तीशः शान्तिः स्याद्वामलोचनम् ।नृसिंहास्त्रं तथा माया ईकारोऽपि सुरेश्वरः ॥ ६ ॥
6 · p. 51
अनुष्टुप्

उ

अमरेशस्तथा विष्णुरिन्धिका च गजाङ्कुशः ।दक्षकर्णश्च विजयी उकारो मन्मथाधिपः ॥ ७ ॥
7 · p. 51
अनुष्टुप्

ऊ

अर्वाशो(उर्वीशो) दीपिका वामश्रवणं मधुसूदनः ।इन्द्रचापः षण्मुखश्च ऊकारो रक्षणाधिपः ॥ ८ ॥
8 · p. 51
अनुष्टुप्

ऋ

देविका दक्षनाशा च भारभूतिस्त्रिविक्रमः ।देवमाता रिपुघ्नश्च ऋकारस्तापनस्तथा ॥ ९ ॥
9 · p. 51
अनुष्टुप्

ॠ

अतिथीशो वामनश्च मोचिका वामनासिका ।दैत्यमाता च दैवज्ञ ॠकारस्त्रिपुरान्तकः ॥ १० ॥
10 · p. 51
अनुष्टुप्

लृ

श्रीधरश्च परास्थाणुर्दक्षगण्डस्त्रिवेदकः ।एकाङ्घ्रिर्व्रज्रदण्डश्च व्योमर्द्धिर्लृस्वरः स्मृतः ॥ ११ ॥
11 · p. 51
अनुष्टुप्

लॄ

हृषीकेशो हरः सूक्ष्मो वामगण्डः कुबेरदृक् ।अर्द्धर्चो नीलचरणी लॄकारश्च त्रिकूटकः ॥ १२ ॥
12 · p. 51
अनुष्टुप्

ए

झण्टीशः पद्मनाभश्च शक्तिः सूक्ष्मामृता भगः ।ऊर्द्ध्वोष्ठगः कामरूप एकारश्च त्रिकोणकः ॥ १३ ॥
13 · p. 51
अनुष्टुप्

ऐ

ज्ञानामृतो भौतिकश्चाधरो दामोदरस्तथा ।वागीशो वर्म भयद ऐकारस्त्रिपुरस्तथा ॥ १४ ॥
14 · p. 51
अनुष्टुप्

ओ

सद्योजातो वासुदेव ऊर्द्ध्वदन्तस्त्रिमात्रकः ।आप्यायनीमन्त्रनाथ ओकारो नागसंज्ञकः ॥ १५ ॥
15 · p. 51
अनुष्टुप्

औ

सङ्कर्षणी तु ग्रहेशो मुरारिर्व्यापिनी तथा ।अधौदन्तगतो मायी नृसिंहाङ्गस्तथौस्वरः ॥ १६ ॥
16 · p. 51
अनुष्टुप्

अं

अक्रूरो व्योमरूपश्च प्रद्युम्नश्चन्द्रसंज्ञकः ।अनुस्वारस्तथा बिन्दुरङ्कारश्च शिरोऽव्ययः ॥ १७ ॥
17 · p. 51
अनुष्टुप्

अः

अनन्तश्च महासेनोऽनिरुद्धो रसवर्णकः ।कन्यास्तननिभः सर्गो विसर्गश्चान्तिमस्वरः ॥ १८ ॥
18 · p. 51
अनुष्टुप्

क

क्रोधीशो धातृसंज्ञश्च चक्री सृष्टिः करादिगः ।वर्गादिगः पादवेषः ककारः कामगः स्मृतः ॥ १९ ॥
19 · p. 51
अनुष्टुप्

ख

क्रुधर्द्धि-गदि-चण्डीशाः खेटो दक्षिणकूर्परः ।कैटभारिश्च मातङ्गः संहारः खार्णकः स्मृतः ॥ २० ॥
20 · p. 51
अनुष्टुप्

ग

स्मृतिः पञ्चान्तकः शार्ङ्गी गणेशो मणिबन्धगः ।गोमुखो गजकुम्भश्च गकारः सिंहसंज्ञकः ॥ २१ ॥
21 · p. 51
अनुष्टुप्

घ

खड्गी शिवोत्तमो मेधा दक्षिणाङ्गुलिमूलगः ।घनो घनस्वरश्चैव घकारो ङादिमः स्मृतः ॥ २२ ॥
22 · p. 51
अनुष्टुप्

ङ

शङ्खाङ्को रुद्रकान्तिश्च दक्षाङ्गुल्यग्रसंस्थितः ।क्लीबवक्त्रश्च भद्रेशो ङकारश्चानुनासिकः ॥ २३ ॥
23 · p. 51
अनुष्टुप्

च

हली कूर्मेश्वरो लक्ष्मीर्वामबाह्वादिगस्तथा ।चित्रधारी चञ्चलश्च चकारः संस्मृतो बुधैः ॥ २४ ॥
24 · p. 51
अनुष्टुप्

छ

एकनेत्रश्च मुशली वामकूर्परगोद्युतिः ।त्रिबिन्दुकस्तथा चारी छकारः श्लेष्मकाभिधः ॥ २५ ॥
25 · p. 51
अनुष्टुप्

ज

स्थिराजपन्नोजपजः शूली च चतुराननः ।मणिबन्धगतो वामे जकारो जनकोत्तमः ॥ २६ ॥
26 · p. 51
अनुष्टुप्

झ

स्थितिः पाशी तथाऽजेशो वामाङ्गुलितलस्थितिः ।स्वस्तिकः स्थाणुसंज्ञश्च झकारो जान्तसंज्ञकः ॥ २७ ॥
27 · p. 51
अनुष्टुप्

ञ

वामाङ्गुल्यग्रगः सिद्धिरङ्कुशी शर्वसंज्ञकः ।झान्तगो ह्यनुनासश्च ञकारश्च निरञ्जनः ॥ २८ ॥
28 · p. 51
अनुष्टुप्

ट

जरा मुकुन्दः सोमेशो दक्षपादादिगोमुखः ।गजाङ्कुशश्च बालेन्दुरमृताद्यष्टकः स्मृतः ॥ २९ ॥
29 · p. 51
अनुष्टुप्

ठ

लाङ्गलीशो नन्दजश्च पालिनी च कमण्डलुः ।दक्षाजानुगतः स्थायी ठकारः स्थविरः स्मृतः ॥ ३० ॥
30 · p. 51
अनुष्टुप्

ड

नन्दी क्षान्तिर्दारकश्च डामरो दक्षगुल्फगः ।व्याघ्रपादः शुभाङ्घ्रिश्च डकारस्तोमरो मतः ॥ ३१ ॥
31 · p. 52
अनुष्टुप्

ढ

ऐश्वरी चार्द्धनारीशो नरः शाखान्तराकृतिः ।दक्षपादाङ्गुलीमूलो ढलो ढक्को ढकारकः ॥ ३२ ॥
32 · p. 52
अनुष्टुप्

ण

उमाकान्तो नरकजिद् रतिर्दक्षपदाग्रगः ।निर्वाणस्त्रिगुणाकारस्त्रिरेखो णः समीरितः ॥ ३३ ॥
33 · p. 52
अनुष्टुप्

त

वामोरूमूलनिलय आषाढी कामिका हरिः ।तीव्रश्च तरलो नीलस्तकारः कीर्त्तितो बुधैः ॥ ३४ ॥
34 · p. 52
अनुष्टुप्

थ

दण्डीशो वरदः कृष्णो वामजानुगतः स्मरः ।शौरी चापि विशालाक्षस्थकारः परिकीर्तितः ॥ ३५ ॥
35 · p. 52
अनुष्टुप्

द

सत्योऽत्रीशो ह्लादिनी च वामगुल्फगतस्तथा ।शूली कुबेरो दाता च दकारो धादिमः स्मृतः ॥ ३६ ॥
36 · p. 52
अनुष्टुप्

ध

मीनेशः सात्वतः प्रीतिर्वामपादाङ्गुलीगतः ।धनेशो धरणीशश्च धकारो दान्तिमः स्मृतः ॥ ३७ ॥
37 · p. 52
अनुष्टुप्

न

शौरी मेषेश्वरी दीर्घा वामपादोग्रसंस्थितः ।नरो नदीनो नादी च नकारश्चानुनासिकः ॥ ३८ ॥
38 · p. 52
अनुष्टुप्

प

तीक्ष्णश्च लोहितः शूरो दक्षपार्श्वश्च पार्थिवः ।पद्मेशो नान्तिमः फादिः पकारोऽपि प्रकीर्त्तितः ॥ ३९ ॥
39 · p. 52
अनुष्टुप्

फ

जनार्दनः शिखी रौद्री वामपार्श्वकृतालयः ।फट्कारः प्रोच्यते सद्भिः फकारः पान्तिमः स्मृतः ॥ ४० ॥
40 · p. 52
अनुष्टुप्

ब

छलगण्डो भूधरश्च भयपृष्ठगतस्तथा ।सुरसो वज्रमुष्टिश्च बकारो भादिमो मतः ॥ ४१ ॥
41 · p. 52
अनुष्टुप्

भ

विश्वमूर्त्तिर्द्विरण्डेशो निद्रा नाभिगतोऽपि च ।भ्रकुटी च भरद्वाजो भकारश्च जयावहः ॥ ४२ ॥
42 · p. 52
अनुष्टुप्

म

वैकुण्ठश्च महाकालस्तन्द्री जठरसंस्थितः ।मन्त्रेशो मण्डलो मानी विषः सूर्यो मकारकः ॥ ४३ ॥
43 · p. 52
अनुष्टुप्

य

क्षुधा बाला च वायुस्त्वग् हृद्गतः पुरुषोत्तमः ।यमुनो यामुनेयश्च यकारो मान्तिमः स्मृतः ॥ ४४ ॥
44 · p. 52
अनुष्टुप्

र

क्रोधिनी च भुजङ्गेशी ज्वाली रुधिर-पावकौ ।रोचिष्मान् दक्षिणांशश्च रुचिरो रेफ ईरितः ॥ ४५ ॥
45 · p. 52
अनुष्टुप्

ल

क्रिया ककुद्गतो मांसं पिनाकी भूर्बलानुजः ।लम्पटः शक्रसंज्ञश्च वाद्यो रान्तो लकारकः ॥ ४६ ॥
46 · p. 52
अनुष्टुप्

व

वालो वामांसनिलयो मेदो वारिद-वारुणौ ।उत्कारी जलसंज्ञश्च खड्गीशोऽपि वकारकः ॥ ४७ ॥
47 · p. 52
अनुष्टुप्

श

मृत्युर्बको वृषघ्नश्च हृदो दक्षकरस्थितिः ।शङ्कुकर्णोऽस्थिसंज्ञश्च शकारो विद्भिरीरितः ॥ ४८ ॥
48 · p. 52
अनुष्टुप्

ष

वृषः श्वेतेश्वरः पीता मज्जा हृद्वामबाहुगः ।षडाननः षकारश्च कीर्त्तितश्च बुधैः खरः ॥ ४९ ॥
49 · p. 52
अनुष्टुप्

स

भृगुः श्वेतस्तथा हंसो हृदो दक्षिणपादगः ।समयः सामगः शुक्रः सङ्गतिः सार्णकः शशी ॥ ५० ॥
50 · p. 52
अनुष्टुप्

ह

नभो वराहो नकुलो हृदो वामपदस्थितः ।सदाशिवोऽरुणप्राणो हकारश्च हयाननः ॥ ५१ ॥
51 · p. 52
अनुष्टुप्

ळ

हृदयान्नाभिसंस्थानः शिवेशो विमलोऽसितः ।लघुप्रयत्नश्चोपान्त्यो ल(ळ)कारः प्रोच्यते बुधैः ॥ ५२ ॥
52 · p. 52
अनुष्टुप्

क्ष

संवर्त्तको नृसिंहश्च हृदयान्मुखसंस्थितः ।अनन्तः परमात्मा च वज्रकायोऽन्तिमाक्षरः ॥ ५३ ॥
53 · p. 52
अनुष्टुप्