कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaranāmamālā

एकाक्षरनाममाला Ekākṣaranāmamālā

50 verses · text only, tagging comes next

Part 1

अज्ञातविद्वत्कृता

एकाक्षरनाममाला

अकारं ब्रह्मदैवत्वं श्वेतं सर्ववशङ्करम् ।सर्वज्ञत्वं मनोज्ञत्वं कामरूपत्वमम्बिके ! ॥ १ ॥
1 · p. 47
अनुष्टुप्
आकारं तु परा शक्तिः श्वेतमाकर्षसिद्धिदम् ।इच्छासिद्धिं स्वात्मसिद्धिं रससिद्धिं वरानने ! ॥ २ ॥
2 · p. 47
अनुष्टुप्
इकारं विष्णुदैवत्वं शामरक्षाकरं भवेत् ।रूप-कान्तिकरं श्रेष्ठं वरेण्यं मोहसिद्धिदम् ॥ ३ ॥
3 · p. 47
अनुष्टुप्
ईकारं दैवतं माया शाममोहकरं परम् ।वीराणां वनितानां च वशीकारं वरानने ! ॥ ४ ॥
4 · p. 47
अनुष्टुप्
उकारं कालदैवत्वं शामलोकवशङ्करम् ।मातृकोत्थापनं पुण्यं क्रूररोगविनाशनम् ॥ ५ ॥
5 · p. 47
अनुष्टुप्
ऊकारं पृथिवीबीजं शामरक्षाकरं परम् ।भूत-प्रेत-पिशाचानां नाशनं रिपुनाशनम् ॥ ६ ॥
6 · p. 47
अनुष्टुप्
ऋकारं विधिदैवत्वं पीतं सर्वार्थसिद्धिदम् ।चिरायुष्यं तपःसिद्धिं पराभोगं वरानने ! ॥ ७ ॥
7 · p. 47
अनुष्टुप्
ऋकारं शिवदैवत्वं रक्तं सर्ववशङ्करम् ।जन्म-मृत्यु-जरा-व्याधिवर्जितं श्री-जयप्रदम् ॥ ८ ॥
8 · p. 47
अनुष्टुप्
अश्विनीभ्यां लृ लॄ च स्याद् रक्तं रोगविनाशनम् ।तीव्रसिद्धिं भिषक्सिद्धिमौषधीनां च सिद्धिदम् ॥ ९ ॥
9 · p. 47
अनुष्टुप्
एकारं वीरभद्राख्यं पीतं सर्वार्थसिद्धिदम् ।निग्रहा-ऽनुग्रहकरं भीषणं जयवर्द्धनम् ॥ १० ॥
10 · p. 47
अनुष्टुप्
ऐंकारं भारतीविद्यास्फटिकं ज्ञानसिद्धिदम् ।चतुःषष्टिकलासिद्धिदायकं परमं शिवे ॥ ११ ॥
11 · p. 47
अनुष्टुप्
ओकारं शिवदैवत्वं ज्योतिर्मयमनुग्रहम् ।मनोवेगप्रदं श्रेष्ठं शान्तं सर्वफलप्रदम् ॥ १२ ॥
12 · p. 47
अनुष्टुप्
औकारं शाङ्करीविद्यास्फटिकं सर्वसिद्धिदम् ।सारस्वतं विशेषेण शत्रूणां कोपनाशनम् ॥ १३ ॥
13 · p. 47
अनुष्टुप्
अंकारं बीजरुद्रं स्याद् रक्तं देववशङ्करम् ।सर्वलोकजयं कार्यसिद्धिदं चित्तशुद्धिदम् ॥ १४ ॥
14 · p. 47
अनुष्टुप्
अःकारं कालरुद्रं स्याद् रक्तं पापनिकृन्तनम् ।स्वप्रपञ्चोपसंहारं परमात्मप्रबोधकम् ॥ १५ ॥
15 · p. 47
अनुष्टुप्
ककारं ब्रह्मणो बीजं पीतं वृष्टिकरं परम् ।सञ्जीवनमशेषाणां लोकानां वृद्धिदायकम् ॥ १६ ॥
16 · p. 47
अनुष्टुप्
खकारं जाह्नवीबीजं स्फटिकं पापनाशनम् ।भोग-मोक्षप्रदं पुण्यं भुक्ति-मुक्तिप्रदायकम् ॥ १७ ॥
17 · p. 47
अनुष्टुप्
गकारं तु गणेशः स्यात् पीताभं विघ्ननाशनम् ।पूर्वा-ऽपरस्थितिज्ञानं भूलोकविजयं शुभम् ॥ १८ ॥
18 · p. 47
अनुष्टुप्
घकारं भैरवं विद्याद् रक्ताभं शत्रुनाशनम् ।महाघोरग्रहहरं सारूप्य-जयवर्द्धनम् ॥ १९ ॥
19 · p. 47
अनुष्टुप्
ङकारं कालबीजं स्यात् कृष्णजीवजयं परम् ।महाभीमजगत्क्षोभ-मरणापत्तिभञ्जनम् ॥ २० ॥
20 · p. 47
अनुष्टुप्
चकारं भद्रकालीयं रक्ताभं शोभनं भवेत् ।स्वेच्छाकर्षणसिद्धिः स्यात् स्वस्थावेशमयत्नतः ॥ २१ ॥
21 · p. 47
अनुष्टुप्
छकारं भीमकालीयं रक्ताभं वैरिनाशनम् ।सङ्क्रमेण त्रिलोकघ्नं समरे विजयप्रदम् ॥ २२ ॥
22 · p. 47
अनुष्टुप्
जकारं जातवेदाख्यं सूर्य-सौदामिनीप्रभम् ।अभिचारं महाघोरमपमृत्युभयापहम् ॥ २३ ॥
23 · p. 47
अनुष्टुप्
झकारमर्द्धनारीशं शामं रक्तसमाकुलम् ।सर्वसौख्यकरं श्रेष्ठं भोग-मोक्षफलप्रदम् ॥ २४ ॥
24 · p. 47
अनुष्टुप्
ञकारं परमात्मीयमवाङ्मनसगोचरम् ।सर्वज्ञानप्रदं ब्रह्मज्ञानदं श्री-जयप्रदम् ॥ २५ ॥
25 · p. 47
अनुष्टुप्
टकारं पृथिवीबीजं श्वेतं संहारकारकम् ।क्रव्यादावोषधीवृद्धिः पातालनिधिदर्शनम् ॥ २६ ॥
26 · p. 47
अनुष्टुप्
ठकारं चन्द्रबीजं स्यात् स्फटिकं शत्रुनाशनम् ।रोग-क्ष्वेडहरं दिव्यं महाज्वरहरं परम् ॥ २७ ॥
27 · p. 47
अनुष्टुप्
डकारं शुक्रबीजं स्यात् पीताभं विजयं भवेत् ।मृतसञ्जीवनं चास्य महामायावशं शिवे ॥ २८ ॥
28 · p. 47
अनुष्टुप्
ढंकारं वैष्णवं विद्यात् पीतं सर्वार्थसिद्धिदम् ।बलप्रदं जलं स्तम्भं पातालस्यापि दर्शनम् ॥ २९ ॥
29 · p. 47
अनुष्टुप्
णंकारं बलभद्रीयं श्वेतं बलविवर्धनम् ।नित्यत्वं युद्धवीर्यत्वं रिपुदर्पविनाशनम् ॥ ३० ॥
30 · p. 47
अनुष्टुप्
तकारं धनदं विद्यात् पीतमैश्वर्यवर्धनम् ।यक्ष-किन्नर-सिद्धानां वशीकारं जगद्वशम् ॥ ३१ ॥
31 · p. 47
अनुष्टुप्
थंकारं तु परा शक्तिरक्तं कालजयं भवेत् ।शान्तिदं पौष्टिकं चैव भाग्यमायुष्यवर्धनम् ॥ ३२ ॥
32 · p. 47
अनुष्टुप्
दकारं दुर्गाबीजं स्यात् शामं सर्वार्थसिद्धिदम् ।निग्रहा-ऽनुग्रहकरं भोग-मोक्षैकसाधनम् ॥ ३३ ॥
33 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्गा (wrong syllable)
धकारं धर्मबीजं स्यात् श्वेतं पुण्यविवर्धनम् ।सर्वदेवमयं दिव्यं सर्वदर्शनदर्शकम् ॥ ३४ ॥
34 · p. 48
अनुष्टुप्
नकारं निर्विकल्पं स्यादप्रमेयाभमक्षरम् ।वायुवेगं मनोवेगमिच्छारूपं भवेद्ध्रुवम् ॥ ३५ ॥
35 · p. 48
अनुष्टुप्
पकारमग्निबीजं स्याद् रक्तं सर्वहरक्षणम् ।स्त्री-पुं-नपुंसकादीनां भवेदाकर्षणं शिवे ॥ ३६ ॥
36 · p. 48
अनुष्टुप्
फंकारं भैरवं विद्याद् रक्ताभं विजयप्रदम् ।महाग्रहहरं सर्वज्वररोगविनाशनम् ॥ ३७ ॥
37 · p. 48
अनुष्टुप्
बकारमश्विनीबीजं पीतं रोगहरं परम् ।औषधस्य महावीर्यं वृद्धिदं जयवर्द्धनम् ॥ ३८ ॥
38 · p. 48
अनुष्टुप्
भकारं भार्गवं ज्ञेयं ज्योतिषाभमनामयम् ।आयुरारोग्यदं श्रेष्ठमशेषं श्रीविवर्द्धनम् ॥ ३९ ॥
39 · p. 48
अनुष्टुप्
मकारमीश्वरं विद्याज्ज्योतिरक्तं सुखावहम् ।वश्या-ऽऽकर्षण-सन्तान-सिद्धिदानैकतत्परम् ॥ ४० ॥
40 · p. 48
अनुष्टुप्
यकारं वायुबीजं स्यात् कृष्णं बलविवर्धनम् ।सर्वोच्चाटकर क्रूरं सङ्ग्रामे जयवर्धनम् ॥ ४१ ॥
41 · p. 48
अनुष्टुप्
रेफं कृशानुबीजं स्याद् रक्ताभं सर्वनाशनम् ।जङ्गमाकर्षणं युद्धे दिष्टसेनाबलं तथा ॥ ४२ ॥
42 · p. 48
अनुष्टुप्
लकारं शक्रबीजं स्यात् पीतं सर्वफलप्रदम् ।अग्निस्तम्भं जलस्तम्भं स्वेच्छास्तम्भं विशेषतः ॥ ४३ ॥
43 · p. 48
अनुष्टुप्
वकारं वरुणं विद्यात् श्वेतं स्वेच्छाभिवृद्धिदम् ।आकर्षणं जलध्वानमशेषं ज्वरनाशनम् ॥ ४४ ॥
44 · p. 48
अनुष्टुप्
शकारं शङ्करं विद्यात् तेजः-सौभाग्यवर्धनम् ।अन्योन्यकलहा(द्) देववैरिणां नाशनं भवेत् ॥ ४५ ॥
45 · p. 48
अनुष्टुप्
षकारं द्वादशादित्यं ज्योतिरारोग्यवर्धनम् ।शमनं सर्वरोगाणामायु-र्विद्याभिवर्धनम् ॥ ४६ ॥
46 · p. 48
अनुष्टुप्
सकारं भारतीबीजं श्वेतं सारस्वतप्रदम् ।प्रतिविद्वज्जनजयं वराणां योषितां वशम् ॥ ४७ ॥
47 · p. 48
अनुष्टुप्
सदाशिवं हकारं स्याद् धूम्रं ज्ञानार्थसिद्धिदम् ।अणिमाद्यष्टसिद्धिः स्याच्चतुःषष्टिकला अपि ॥ ४८ ॥
48 · p. 48
अनुष्टुप्
ळंकारं पृथिवीबीजं शामं सिद्धिकरं परम् ।संहरेद्दोषराशीनामपि भूद्रव्यदर्शनम् ॥ ४९ ॥
49 · p. 48
अनुष्टुप्
क्षकारं श्रीनृसिंहः स्यात् स्फटिकं मोक्षसिद्धिदम् ।रिपुगर्वहरं सर्वलोकक्षोभकरं परम् ॥ ५० ॥
50 · p. 48
अनुष्टुप्