All kośas › Ekākṣarakoṣa
एकाक्षरकोष Ekākṣarakoṣa
38 verses · text only, tagging comes next
Part 1
अकारो वासुदेवः स्यादाकारस्तु पितामहः ।पूजायामपि माङ्गल्ये आकारः परिकीर्तितः ॥ १ ॥
1 · p. 268
अनुष्टुप्
इकार उच्यते कामो लक्ष्मीरीकार उच्यते ।उकारः शङ्करः प्रोक्त ऊकारश्चापि लक्षणे ॥ २ ॥
2 · p. 268
अनुष्टुप्
रक्षणे चापि ऊकार ऊकारो ब्रह्मणि स्मृतः ।ऋकारो देवमाता स्यादृकारो दनुजप्रसूः ॥ ३ ॥
3 · p. 268
अनुष्टुप्
ऌकारो देवजातीनां माता सद्भिः प्रकीर्तिता ।ॡकारः स्मर्यते पूर्वैर्जननी शब्दकोविदैः ॥ ४ ॥
4 · p. 268
अनुष्टुप्
एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः ।ओकारस्तु भवेद्ब्रह्मा औकारोनन्त उच्यते ॥ ५ ॥
5 · p. 268
अनुष्टुप्
अं स्याच्च परमं ब्रह्म अः स्याच्चैव महेश्वरः ।कः प्रजापतिरुद्दिष्टो कोऽर्कवाय्वनलेषु च ॥ ६ ॥
6 · p. 268
अनुष्टुप्
कश्चाऽत्मनि मयूरे च कः प्रकाश उदाहृतः ।कं शिरो जलमाख्यातं कं सुखं च प्रकीर्तितम् ॥ ७ ॥
7 · p. 268
अनुष्टुप्
पृथिव्यां कुः समाख्यातः कुः शब्देऽपि प्रकीर्तितः ।खमिन्द्रिये खमाकाशे खः स्वर्गेऽपि प्रकीर्तितः ॥ ८ ॥
8 · p. 268
अनुष्टुप्
सामान्ये च तथा शून्ये खशब्दः परिकीर्तितः ।गो गणेशः समुद्दिष्टो गन्धर्वो गः प्रकीर्तितः ॥ ९ ॥
9 · p. 268
अनुष्टुप्
गं गीतं गा च गाथा स्याद् गौश्च धेनुः सरस्वती ।घा घण्टाऽथ समाख्याता घो घनश्च प्रकीर्तितः ॥ १० ॥
10 · p. 268
अनुष्टुप्
घण्टीशे हनने घर्मे घुर्घोणा घूर्ध्वनावपि ।ङकारो भैरवः ख्यातो ङकारो विषयस्पृहा ॥ ११ ॥
11 · p. 268
अनुष्टुप्
चश्चन्द्रमाः समाख्यातो भास्करे तस्करे मतः ।निर्मलं छं समाख्यातं तरले छः प्रकीर्तितः ॥ १२ ॥
12 · p. 268
अनुष्टुप्
छेदके छः समाख्यातो विद्वद्भिः शब्दकोविदैः ।जकारो गायने प्रोक्तो जयने जः प्रकीर्तितः ॥ १३ ॥
13 · p. 268
अनुष्टुप्
जेता जश्च प्रकथितः सूरिभिः शब्दशासने ।रवो झकारः कथितः नष्टे शञ्चोच्यते बुधैः ॥ १४ ॥
14 · p. 269
अनुष्टुप्
झकारश्च तथा वायौ नेपथ्ये समुदाहृतः ।ञकारो गायने प्रोक्तो ञकारो झर्झरध्वनौ ॥ १५ ॥
15 · p. 269
अनुष्टुप्
टो धरित्र्यां च करके टो ध्वनौ च प्रकीर्तितः ।ठकारो जनतायां स्यात् ठो धनौ च शठेऽपि च ॥ १६ ॥
16 · p. 269
अनुष्टुप्
ठो महेशः समाख्यातो ठश्च शून्ये प्रकीर्तितः ।बृहद्धनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ॥ १७ ॥
17 · p. 269
अनुष्टुप्
डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते ।ढकारः कीर्त्तिता ढक्का निर्गुणे निर्धने मतः ॥ १८ ॥
18 · p. 269
अनुष्टुप्
णकारः सूकरे ज्ञाने निश्चये निर्णयेऽपि च ।तकारः कीर्तितश्चोरे क्रोडपुच्छे प्रकीर्तितः ॥ १९ ॥
19 · p. 269
अनुष्टुप्
शिलोच्चये थकारः स्यात् थकारो भयरक्षणे ।दकारोऽभ्रे कलत्रे च छेदे दाने च दातरि ॥ २० ॥
20 · p. 269
अनुष्टुप्
धं धने सधने धः स्यात् विधातरि मनावपि ।धिषणा धीः समाख्याता धूश्चैव भारवित्तयोः ॥ २१ ॥
21 · p. 269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
नेता तश्च समाख्यातस्तरणौ नः प्रकीर्तितः ।नकारः सौगते बुद्धौ स्तुतौ नस्तु प्रकीर्तितः ॥ २२ ॥
22 · p. 269
अनुष्टुप्
नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः ।पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥ २३ ॥
23 · p. 269
अनुष्टुप्
पवने पः समाख्यातः पः स्यात् पाने च पातरि ।कफे वाते फकारः स्यात् तथाऽह्वाने प्रकीर्तितः ॥ २४ ॥
24 · p. 269
अनुष्टुप्
फूत्कारोऽपि च फः प्रोक्तस्तथा निष्कलभाषणे ।बकारो वरुणः प्रोक्तः कलशे बः फलेऽपि च ॥ २५ ॥
25 · p. 269
अनुष्टुप्
वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः ।नक्षत्रे भं बुधाः प्राहुर्भवने भः प्रकीर्तितः ॥ २६ ॥
26 · p. 269
अनुष्टुप्
दीप्तिर्भाः स्याच्च भूर्भूमिर्भीर्भयं कथितं बुधैः ।मः शिवश्चन्द्रमा वेधा मा लक्ष्मीश्च प्रकीर्तिता ॥ २७ ॥
27 · p. 269
अनुष्टुप्
मा च मातरि माने च बन्धने मः प्रकीर्तितः ।यशो यः कथितः प्राज्ञैर्यो वायुरिति शब्दितः ॥ २८ ॥
28 · p. 269
अनुष्टुप्
याने यातरि यस्त्यागे कथितः शब्दवेदिभिः ।रश्च रामेऽनिले वह्नौ भूमावपि धनेऽपि च ॥ २९ ॥
29 · p. 270
अनुष्टुप्
इन्द्रियेन्धनरोधे च रुर्भये च प्रकीर्तितः ।लो दीप्तौ द्यां लश्च भूमौ भये चाऽऽह्लादनेऽपि च ॥ ३० ॥
30 · p. 270
अनुष्टुप्
लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः ।लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥ ३१ ॥
31 · p. 270
अनुष्टुप्
मानसे वरुणे चैव वकारः सान्त्वनेऽपि च ।विश्च पक्षी निगदितो गगनं परिकीर्तितम् ॥ ३२ ॥
32 · p. 270
अनुष्टुप्
शं सुखं शङ्करः श्रेयः शश्च सीम्नि निगद्यते ।शयने शः समाख्यातो हिंसायां शो निगद्यते ॥ ३३ ॥
33 · p. 270
अनुष्टुप्
षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने ।उपसर्गे परोक्षे च षकारः परिकीर्तितः ॥ ३४ ॥
34 · p. 270
अनुष्टुप्
सः कोपे वारणे सः स्यात्तथा शूलिनि कीर्तितः ।सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः ॥ ३५ ॥
35 · p. 270
अनुष्टुप्
हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः ।हिः पद्यावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥ ३६ ॥
36 · p. 270
अनुष्टुप्
क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैः क्षः शब्दशासने ।क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः ॥ ३७ ॥
37 · p. 270
अनुष्टुप्
आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् ।एवमेकाक्षरं नामाभिधानं क्रियते मया ॥ ३८ ॥
38 · p. 270
अनुष्टुप्