कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣarakoṣa

एकाक्षरकोष Ekākṣarakoṣa

32 verses · text only, tagging comes next

Part 1

पण्डितमनोहरकृतः

एकाक्षरकोषः

वाङ्मयीं वरदां देवीं नत्वा च शिवमव्ययम् ।लिखाम्येकाक्षरं कोशं दिव्यज्ञानविवृद्धये ॥ १ ॥
1 · p. 58
अनुष्टुप्
अकारो विष्णुरुद्दिष्ट आकारश्च महेश्वरः ।इकारः कथ्यते कामो लक्ष्मीरीकार उच्यते ॥ २ ॥
2 · p. 58
अनुष्टुप्
उकारः शंकरः प्रोक्त ऊकारश्चापि रक्षणे ।ऋकारो देवमाता स्याद् ॠकारः स्वर्ग उच्यते ॥ ३ ॥
3 · p. 58
अनुष्टुप्
लृकारो दैत्यमाता स्याद् लॄकारो दनुजप्रसूः ।एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः ॥ ४ ॥
4 · p. 58
अनुष्टुप्
ओकारस्तु भवेद्ब्रह्मा औकारोऽनन्त उच्यते ।अमिति स्यात्परं ब्रह्म अः स्याच्चैव महेश्वरः ॥ ५ ॥
5 · p. 58
अनुष्टुप्
कः प्रजापतिरुद्दिष्टः को वायुरिति शब्दितः ।क आत्मा च समाख्यातः प्रकाशे क उदाहृतः ॥ ६ ॥
6 · p. 58
अनुष्टुप्
कं शिरो जलमाख्यातं कं सुखं च प्रकीर्त्तितम् ।पृथिवी कुः समाख्याता कुः कुत्सेति प्रकीर्त्तिता ॥ ७ ॥
7 · p. 58
अनुष्टुप्
खमिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ।गुह्येऽपि खं समाख्यातं खं सुखं च प्रकीर्त्तितम् ॥ ८ ॥
8 · p. 58
अनुष्टुप्
गो गणपतिरुद्दिष्टो गन्धर्वे गः प्रकीर्त्तितः ।गीतं गमुक्तं याता गो गौस्तु पश्वादिषु त्रिषु ॥ ९ ॥
9 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
घो घण्टायां समाख्यातः किङ्किण्यादौ प्रकीर्त्तितः ।हनने घा समाख्याता घुः कलौ च प्रकीर्त्तितः ॥ १० ॥
10 · p. 58
अनुष्टुप्
ङकारो भैरवे प्रोक्तो ङकारो विषयस्पृहा ।चश्चन्द्रमाः समाख्यातस्तारकाश्च उदाहृताः ॥ ११ ॥
11 · p. 58
अनुष्टुप्
निर्मलं छं समाख्यातं तरलं छं प्रकीर्त्तितम् ।छेदने छा समाख्याता विद्वद्भिः शब्दकोविदैः ॥ १२ ॥
12 · p. 58
अनुष्टुप्
वेगिनि जः समाख्यातो जवने जः प्रकीर्त्तितः ।जेता च जः समाख्यातः सूरिभिः शब्दशासने ॥ १३ ॥
13 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
झञ्झावाते झकारः स्यान्नष्टे झः समुदाहृतः ।ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ ॥ १४ ॥
14 · p. 58
अनुष्टुप्
टंकारे टः पृथिव्यां टा टो ध्वनौ च प्रकीर्त्तितः ।टो महेश्वर आख्यातः शून्येऽपि टः प्रकीर्त्तितः ॥ १५ ॥
15 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
बृहद्ध्वनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ।डकारः शंकरे जापे ध्वनौ त्राणे निगद्यते ॥ १६ ॥
16 · p. 58
अनुष्टुप्
ढकारः कीर्त्तिता ढक्का निर्णये च प्रकीर्त्तितः ।णकारः कथितो ध्वाने निर्णये णः प्रकीर्त्तितः ॥ १७ ॥
17 · p. 58
अनुष्टुप्
तकारः सुगते बुद्धे क्रोडपुच्छे प्रकीर्त्तितः ।शिलोच्चये थकारः स्यात् थकारो भयलक्षणे ॥ १८ ॥
18 · p. 58
अनुष्टुप्
दं कलत्रं बुधैः प्रक्तं दा दाने छेदनेऽपि च ।धं धने च धनेशेऽब्धौ धो धावति निदर्शितः ॥ १९ ॥
19 · p. 58
अनुष्टुप्
धिषणा धीः समाख्याता धूर्भार-चिन्तयोस्तथा ।नकारः सुगते वृन्दे नः स्तुतौ च प्रकीर्त्तितः ॥ २० ॥
20 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
नीश्च नेता समाख्यातो नौकायां नौरुदाहृता ।पूरणे पः समाख्यातः पा पाने पाश्च पातरि ॥ २१ ॥
21 · p. 58
अनुष्टुप्
झञ्झावाते फकारः स्यादक्षरेऽपि प्रकीर्त्तितः ।कोपेऽपि फः समाख्यातस्तथा निष्फलभाषणे ॥ २२ ॥
22 · p. 58
अनुष्टुप्
प्रचेता बः समाख्यातः कलशो बः प्रकीर्त्तितः ।पक्षी च बिर्निगदितो गमने बिः प्रकीर्त्तितः ॥ २३ ॥
23 · p. 58
अनुष्टुप्
नक्षत्रं भं बुधाः प्राहुर्भ्रमरो भः प्रकीर्त्तितः ।भा दीप्तिरपि भूर्भूमिर्भो भयं कथितो बुधैः ॥ २४ ॥
24 · p. 58
अनुष्टुप्
मः शिवश्चन्द्रमा वेधा मा लक्ष्मीः कथिता बुधैः ।मा मातरि च माने च बन्धने मुः प्रकीर्त्तितः ॥ २५ ॥
25 · p. 58
अनुष्टुप्
यशो यः कथितः शिष्टैर्यो वायुरिति शब्दितः ।याने यातरि त्यागे च यकारः कथितो बुधैः ॥ २६ ॥
26 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रि (wrong syllable)
रश्च कामेऽनिले वह्नौ शब्दे रुश्च प्रकीर्त्तितः ।धने रा रिर्गतिः ख्याता रा दानेऽपि प्रकीर्त्तितः ॥ २७ ॥
27 · p. 58
अनुष्टुप्
ल इन्द्रे लवणे लूः स्याल्ला दाने श्लेषणेऽपि लोः ।सान्त्वने वरुणे वाते वकारश्च प्रकीर्त्तितः ॥ २८ ॥
28 · p. 58
अनुष्टुप्
वदन्ति शं बुधाः श्रेयः शं च शास्त्रं निगद्यते ।शी शयनमिति प्राहुर्हिंसायां शूर्निगद्यते ॥ २९ ॥
29 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
षकारः कीर्त्तितः खड्गे षूश्च गर्भविमोचने ।सः परोक्षे समाख्यातः सा च लक्ष्मीर्निगद्यते ॥ ३० ॥
30 · p. 59
अनुष्टुप्
सा च गौरी समाख्याता स ईश्वर उदाहृतः ।सत्कार-वारणे हं स्यात् तथा शूलिनि कीर्त्तितः ॥ ३१ ॥
31 · p. 59
अनुष्टुप्
क्षः क्षेत्रे वक्षसि प्रोक्तः क्षकारः स्याच्च शासने ।इत्येकाक्षरकोशश्चागात् समाप्तिं मनोहरः ॥ ३२ ॥
32 · p. 59
अनुष्टुप्