All kośas › Ekākṣarakoṣamālā
एकाक्षरकोषमाला Ekākṣarakoṣamālā
56 verses · text only, tagging comes next
Part 1
श्रीसुशीलसूरिकृता
एकाक्षरकोशमाला
वर्द्धमानं जिनं नत्वा कोशार्थे वध[र्ध]नेच्छया ।अकाराद्यक्षराणाञ्च दर्श्यतेऽर्थः क्रमादिह ॥ १ ॥
1 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अः पुमान् विष्णुरूपार्थे स्वल्पार्थेऽव्यय उच्यते ।आकारो धातरि ख्यात आ वाक्ये स्मरणेऽव्ययः ॥ २ ॥
2 · p. 71
अनुष्टुप्
सन्तापार्थक आवर्णः प्रयोगे दृश्यतेऽव्ययः ।इः कामः पठ्यते पुंसि क्लीबे इ कोपखेदयोः ॥ ३ ॥
3 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 इ (wrong syllable)
ईरिति ज्ञायते पुंसि लक्ष्मीबोधनहेतवे ।प्रत्यक्षे दुःखभावे च ई भवेदव्ययः सदा ॥ ४ ॥
4 · p. 71
अनुष्टुप्
प्रकोपार्थे समीपार्थे ई अव्ययः प्रयुज्यते ।उर्महादेव आख्यातः पुंलिङ्गः पण्डितैः सदा ॥ ५ ॥
5 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व्य (wrong syllable)
रोषार्थे मन्त्रणार्थे च उं भवेदव्ययः पुनः ।प्रश्नस्वीकारयो रोषे ऊरस्ति रक्षणे पुमान् ॥ ६ ॥
6 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्ति (wrong syllable)
ऊमव्ययः प्रकर्षोक्तौ प्रश्ने ऋर्देवमातरि ।कुत्सायां वचनार्थे च ऋवर्णोऽव्ययः स्मृतः ॥ ७ ॥
7 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ॠः पुमानुच्यते छागे दानेऽर्थेऽपि च कथ्यते ।ॠः पुंसि देवजननी वाराह्यामॄः प्रयुज्यते ॥ ८ ॥
8 · p. 71
अनुष्टुप्
एर्विष्णौ युज्यते पुंसि वृषभध्वज ऐः स्मृतः ।ओरूर्ध्वलिङ्ग आहूतावव्ययः स्यादनन्त ओ ॥ ९ ॥
9 · p. 71
अनुष्टुप्
परब्रह्मणि शम्भौ च ओं शब्द उच्यतेऽव्ययः ।सूर्ये मित्रेऽनले वायौ ब्रह्मात्मयमकेलि[कि]षु ॥ १० ॥
10 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ब्द (wrong syllable)
कः पुमानुच्यते विज्ञैः प्रकाशे वदने पुनः ।जले सुखे मस्तके कं नपुंसके प्रयुज्यते ॥ ११ ॥
11 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
भुवि कुत्सितशब्दार्थे पापीयसि निवारणे ।कः पुंसि पण्डितैः प्रायः प्रयोगः क्रियते सदा ॥ १२ ॥
12 · p. 71
अनुष्टुप्
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ।वितर्काश्चर्यनिन्दासु किं शब्दोऽव्ययः स्मृतः ॥ १३ ॥
13 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 प (wrong syllable)
खमिन्द्रियस्वर्गशून्यभूषा[पा]ऽकाशमुखे स्मृतम् ।शून्ये संविदि खं प्रोक्तं सूर्यार्थे पुंसि खः स्मृतः ॥ १४ ॥
14 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गन्धर्वार्थे गणेशे च गः पुमान् गश्च गातरि ।गीते गं क्लीबलिङ्गमुच्यते पण्डितैरिह ॥ १५ ॥
15 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वाग्बाणभूमिरश्मिवज्रस्वर्गाक्षिवारिषु ।दिशि धेनौ श्रुतेश्वर्यां गणेशे गौः सदा स्मृतः ॥ १६ ॥
16 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुम्भे तथा च हनने घोषान्तर्भावकिङ्किणीषु घः ।विषयो भैरवो ङार्थः[श्]चस्तरौ चन्द्रचौरयोः ॥ १७ ॥
17 · p. 71
अनुष्टुप्metre not read in every line
किन्तु निम्नार्थबोधेषु चमा[का]रोऽव्यय इष्यते ।अन्योन्याऽर्थे विकल्पार्थे समासे पादपूरणे ॥ १८ ॥
18 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चुश्चकोरे प्रयुज्येत पुमानेव सदा बुधैः ।छेदके छस्तथा सूर्ये संवरणेऽपि छः पुमान् ॥ २० ॥
20 · p. 71
अनुष्टुप्metre not read in every line
तडिन्निर्मलछ[च्छ]न्दः सु[च्]छमिति संप्रयुज्यते ।जनने जेतरि जः स्यात्[द्] विगतेऽपि प्रकीर्त्तितः ॥ २१ ॥
21 · p. 71
metre not recognised
जेतरि केवलं जिः स्यात् पुमानेवेति निश्चयः ।जूर्विहायसि विगते पिशाच्यां जवने तथा ॥ २२ ॥
22 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable); pāda 3, syllable 4 य (wrong syllable)
झः पुंसि गायने नष्टे घर्घरध्वनिनामनि ।व्यूहने गूढपादे झः[श्]चारुवाक्चरणे पुनः ॥ २३ ॥
23 · p. 71
अनुष्टुप्
ध्वनौ वायौ पृथिव्यां टः करङ्के भुवि टं स्मृतम् ।चकोरेऽब्दे तथा ठः स्यात्[द्] घटे शून्ये बृहद्ध्वनौ ॥ २४ ॥
24 · p. 71
अनुष्टुप्
डः स्याद्ध्वनौ वृषाङ्केऽपि रुद्रे चन्द्रस्य मण्डले ।बन्दिवृन्देऽपि डः प्रोक्तो यामिनीपतिमण्डले ॥ २५ ॥
25 · p. 71
अनुष्टुप्
ढक्कायां ढः समाख्यातस्तथाऽयं निर्गुणे ध्वनौ ।प्रकटे निष्फले णः स्यात्[द्] ज्ञाने बन्धे च प्रस्तुते ॥ २६ ॥
26 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
तः पुमान् तस्करे क्रोडे युद्धे पृ[पु]च्छे च ता स्त्रियाम् ।तुः स्यात् पूर्वे निवृत्तौ च पूर्वस्मादवधारणे ॥ २७ ॥
27 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भये च रक्षणे थः स्यात्[द्] विकल्पेऽपि विलक्षणे ।दः पुंसि दायके दाने दं कलत्रं नपुंसकम् ॥ २८ ॥
28 · p. 71
अनुष्टुप्
चित्रेऽश्ववारे धः पुंसि धीर्बुद्धाविषुधावपि ।धा विरञ्चौ गुह्यकेशे भारे कम्पेऽपि धूः स्मृता ॥ ३० ॥
30 · p. 71
अनुष्टुप्
धूते धुरा कम्पने धूर्नो बुद्धौ ज्ञानबन्धयोः ।अस्मानस्मभ्यमस्माकमेषां स्थाने भवेच्च नः ॥ ३१ ॥
31 · p. 72
अनुष्टुप्
नो निषेधेऽव्ययो न[ः स्याद्] नरे ना पुंसि कथ्यते ।निः क्षेपे स्यादथ नित्यार्थे भृशार्थाश्रयराशिषु ॥ ३२ ॥
32 · p. 72
अनुष्टुप्impossible sign sequence: ेऽव्ययो न[ः स्याद
बन्धने संशये मोक्षे कौशले दारु[न]कर्मणि ।अधोभावोपरमयोः संनिधानेऽव्ययो मतः ॥ ३३ ॥
33 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नुः स्तुतौ नेतरि स्यान्निः श्रुते पुंसि कथ्यते ।नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः ॥ ३४ ॥
34 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नौस्तरण्यां समाख्यातः पः पाने पवने पथि ।वर्णके पस्तथा प्रौढे पा श्रुते पातरि भवेत् ॥ ३५ ॥
35 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 रि (wrong syllable)
निष्फले पुष्करे जल्पे फकारो भयरक्षणे ।फं फा वाते फले फेने फूत्कारे फूरिरि[X]ति स्मृतः ॥ ३६ ॥
36 · p. 72
अनुष्टुप्metre not read in every lineLatin letters: X
कलहे विगते कुम्भे बः पद्मे वरुणेऽपि स्यात् ? ।भः शुक्ले भ्रमरे दीप्तौ भये भीरिति कथ्यते ॥ ३७ ॥
37 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 पि (wrong syllable)
धिण्णे(ष्ण्ये) भं भुवि भूशब्दः[श्]चन्द्रे शिवे विधौ च भः ।मौलौ च बन्धने भीः स्याद् मा माने वारणेऽव्ययः ॥ ३८ ॥
38 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
अस्मच्छब्दद्वितीया मा मे षष्ठी कथ्यतेऽस्मदः ।लक्ष्म्यां मातरि मा शब्दः[ब्दो] यः स्याद्वाते यमेऽपि च ॥ ३९ ॥
39 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रवौ धातरि यः पुंसि याने या मातरि श्रियाम् ।खट्वाङ्गेऽपि याशब्दः कथ्यते पण्डितैरिह ॥ ४० ॥
40 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ख (syllables merged)
रः स्यात् कामे नरे तीक्ष्णे रामे वैश्वानरेऽपि रः ।रा द्रव्ये कनके प्रोक्तः[क्त] आश्रये नीरदेऽपि रा ॥ ४१ ॥
41 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रुः सूर्ये रक्षणे शब्दे भयेऽपि च प्रयुज्यते ।री भ्रान्तौ प्रयुज्येत लकारश्चलने भवेत् ॥ ४२ ॥
42 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 1 री (syllables merged)
ला दाने लवणे लूश्च लश्च लूश्च बिडौजसि ।दिशायाममृते लः स्यात्[ल्]लीः श्लेषे वलयेऽपि च ॥ ४३ ॥
43 · p. 72
अनुष्टुप्
सान्त्वने वरुणे ताते रुद्रे वः पुंसि कथ्यये[ते] ।अव्ययो व विकल्पेऽर्थें[र्थ] उपमाने समुच्चये ॥ ४४ ॥
44 · p. 72
metre not recognisednearly अनुष्टुप्
विः शकुनौ श्रेष्ठे भीते नानार्थे व्योम्नि कथ्यते ।हेत्वर्थे पादपूर्णे च वैशब्दोऽव्ययः सदा ॥ ४५ ॥
45 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
द्वितीयायां चतुर्थ्याञ्च षष्ठ्यां युष्मद्बहुषु वः ।आसामेव विभक्तीनां द्वित्वे वा युष्मदः सदा ॥ ४६ ॥
46 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 हु (wrong syllable)
कल्याणे शं सुखार्थेऽपि सास्नायां शान्तिमति शः ? ।शीः शये हिंसनेऽर्थ[र्थे]ऽपि शुश्चन्द्रेऽर्थे प्रयुज्यते ॥ ४७ ॥
47 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 म (wrong syllable)
षः सदारे जने प्रोक्तः[स्]तथेष्टप्रसवे च षूः ।सः पुं[पु]मान् सूर्यं[र्य]तात्पर्ये परोक्षेऽपि प्रयुज्यते ॥ ४८ ॥
48 · p. 72
अनुष्टुप्
सङ्कोचे क्लीबलिङ्गे सं संयोगे शोभनेऽपि सः ।प्रकृष्टार्थे समर्थे च सम्[सं] सदा कथ्यतेऽव्ययः ॥ ४९ ॥
49 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रथमान्ततदः स्थाने स्मृतौ लक्ष्म्यां च सा भवेत् ।क्रोधे नीरे करे शम्भौ निवासे गर्भभाषणे ॥ ५० ॥
50 · p. 72
अनुष्टुप्
हः पुमानव्ययः प्रोक्तः संबुद्धौ पादपूरणे ।हाशब्दोऽव्ययः प्रोक्तः शोके दुःख-व[वि]षादयोः ॥ ५१ ॥
51 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यः (wrong syllable)
विशेषे पादपूर्त्तौ हि हेतौ स्फुटेऽवधारणे ।दानार्थेऽव्ययो हि स्याद्धी विषादे च विस्मये ॥ ५२ ॥
52 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्फु (wrong syllable); pāda 3, syllable 1 दा (syllables merged)
हेतौ दुःखेऽपि हीशब्दो ज्ञायतेऽव्ययः पुनः ।अव्ययो हम्[हं] नये काये भाषणेऽपि प्रयुज्यते ॥ ५३ ॥
53 · p. 72
metre not recognisednearly अनुष्टुप्
परिप्रश्ने वितर्के हुम्[हुं] वचने हौ प्रयुज्यते ।हेतौ हूतौ च कुत्सायां हे है संबोधने वदेत् ॥ ५४ ॥
54 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 वच (syllable split)
क्षः क्षेत्रे राक्षसे प्रोक्तस्तथाऽल्पे द्व्यक्षरादयः ।व्यञ्जनान्ताः स्वरान्ताश्च ज्ञायन्तामन्यपुस्तकात् ॥ ५५ ॥
55 · p. 72
अनुष्टुप्
भिन्नभिन्नप्रकारेण शब्दानामर्थसंग्रहम् ।शास्त्राभ्याससुशीलेन सूरिणा दर्शितं पठेत् ॥ ५६ ॥
56 · p. 72
अनुष्टुप्