कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Natvādiekākṣaranāmamālā

नत्वादिएकाक्षरनाममाला Natvādiekākṣaranāmamālā

15 verses · text only, tagging comes next

Part 1

नत्वादि-एकाक्षरनाममाला

नत्वाऽब्जिनीधवं ध्यात्वा कमलाकरभारतीम् ।अभिधानमनेकार्थमेकाक्षरमहं ब्रुवे ॥ १ ॥
1 · p. 55
अनुष्टुप्
ओमङ्गीकरणा-ऽऽह्वान-ब्रह्म-याचन-दीप्तिषु ।अः सूर्या-ऽग्नी-न्दु-पवन-विष्णु-नक्षत्र-शङ्करे ॥ २ ॥
2 · p. 55
अनुष्टुप्
आ ब्रह्मा-ऽब्ध्य-र्क-चापेषु इः कामे-न्द्रा-ऽब्जसम्भवे ।ईर्लक्ष्मी-मौलि-जिह्वासु उः शम्भू-ग्रा-ऽमरेश्वरे ॥ ३ ॥
3 · p. 55
अनुष्टुप्
ऊः सुधा-ऽनन्त-जलदे ऋर्देवाम्बा-रवा-ऽध्वनि ।ॠर्दैत्याम्बा-गान-दाने लृः श्लेषा-ऽमरसू-शिवे ॥ ४ ॥
4 · p. 55
अनुष्टुप्
लॄः स्थिलाऽऽलिङ्गिन(नि) स्थाणावेर्विष्णु-रवि-मारुते ।ऐः शङ्करे ब्रह्म-भूपे ओर्ब्रह्मे-न्दु-सुधासु च ॥ ५ ॥
5 · p. 55
अनुष्टुप्
औः सुधा-ऽनन्त-जलदे अं भेदा-ऽऽत्मेश-मारुते ।अः षडास्ये-न्दु-चूडे-न्द्रे को यमा-ऽग्नि-दिवाकरे ॥ ६ ॥
6 · p. 55
अनुष्टुप्
द्योता-ऽऽत्म-ब्रह्म-वातेषु शिरो-ऽम्बु-वदनेषु कम् ।खःशून्य-खड्ग-नृपतौ शून्या-ऽऽकाशे-न्द्रियेषुक(ख)म् ॥ ७ ॥
7 · p. 55
अनुष्टुप्
गो गातृ-गायने-भास्ये घो वाद्या-ऽम्बुधरा-ऽम्बुधौ ।ङः पूजक-द्विज-काक्षे चः स्याद्भृत्ये-न्दु-तस्करे ॥ ८ ॥
8 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
छश्छन्द-श्चन्द्र-तरले जो जेतृ-रवि-पद्मजे ।झो नष्टा-ऽनिल-सङ्गेषु ञः प्राज्ञ-पट-गायने ॥ ९ ॥
9 · p. 55
अनुष्टुप्
टोऽर्द्धचन्द्र-रवे-लासु ठः खे-शे-न्दुसुमण्डले ।डः पक्षे सारवा-क्षेपे ढः शब्द-गति-निर्गुणे ॥ १० ॥
10 · p. 55
अनुष्टुप्
णो गन्धेभा-ऽऽस्य-हर्षेषु तस्तापा-ऽमर्ष-दस्युषु ।थो भीत्राण-गिरि-व्योम्नि दः सिंहा-ऽसि-त्रिलोचने ॥ ११ ॥
11 · p. 55
अनुष्टुप्
धो बाल-पितृ-वित्तेशे नो रक्षा-कवि-वारिदे ।पः शैल-वन-वासेषु फः कला-ऽनिल-शाखिनि ॥ १२ ॥
12 · p. 55
अनुष्टुप्
बोऽम्बुभृद्-वायु-कुम्भेषु भः शुक्ल-गिरि-भूपतौ ।मः शिवा-ऽऽमा-ऽम्बु-भद्रेषु यो यान-यम-मारुते ॥ १३ ॥
13 · p. 55
अनुष्टुप्
रो वज्रा-ऽनल-कामेषु लो दीने-न्दु-विहङ्गमे ।वः पाशि-रिण-वज्रेषु शोऽश्व-शूद्रा-ऽम्बु-भर्तरि ॥ १४ ॥
14 · p. 55
अनुष्टुप्
षः शून्या-ऽर्का-ऽग्नि-कीनाशौ(शे) सोऽस्रभुक्-सिंह-दुर्जने ।हः काम-शूर-गमने क्षः क्षेत्रा-ऽनिल-तापसे ॥ १५ ॥
15 · p. 55
अनुष्टुप्