All kośas › Kriyānighaṇṭu
क्रियानिघण्टु Kriyānighaṇṭu
104 verses · text only, tagging comes next
Part 1
श्री वीरपाण्ड्यभूपालविरचित-क्रियानिघण्टु-प्रारम्भःश्लोकेषु यथा-धातुप्रयोगपर्याये केचित्काव्योपयोगिनः ।वीरपाण्ड्यक्षितीशेन वक्ष्यन्ते शिक्षितुं शिशून् ॥ १ ॥
1
अनुष्टुप्metre not read in every line
विद्यतेस्तिभवत्यत्र स्यादस्तुस्ताद्भवत्वपि ।भूयाद्भवेत्तु भवताद्विद्यतां श्रीर्जगत्त्रये ॥ २ ॥
2
अनुष्टुप्
सम्पद्यते जायते च जजन्त्युत्पद्यते जगत् ।सम्भवत्याविर्भवति प्रादुर्भवति सर्वदा ॥ ३ ॥
3
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वि (wrong syllable)
तिष्ठत्यास्ते वर्तते च वसत्यत्र गृहे रमा ।प्राणिति श्वसिति श्रेयान्यः परार्थाय जीवति ॥ ४ ॥
4
अनुष्टुप्
रचयति करोति कुरुते विदधाति विधत्त आदधात्यार्यः ।सम्पादयति तथासावाधत्ते सृज्यते सौख्यम् ॥ ५ ॥
5
आर्याmetre not read in every line
उत्पादयति सृजति च निर्वर्तयतीह साधयत्याशु ।राध्नोति च साध्नोति च राध्यति साध्यति च सिध्यति प्रीतिम् ॥ ६ ॥
6
गीतिःmetre not read in every line
स्रंसते भ्रंशते वस्त्रं ध्वंसतेङ्गात्पतत्यगात् ।भ्रश्यते भ्रश्यति फलं डयते डीयते खगः ॥ ९ ॥
9
अनुष्टुप्
आचष्टे वक्ति वाक्यं कथयति गदति व्यक्तमाभाषतेऽसौ व्याख्याति प्रब्रवीति प्रवदति रटति व्याहरत्यागृणाति ।१० ॥
11
स्रग्धराmetre not read in every line
ब्रूते सङ्कीर्तयत्यारवति लपति चोदीरयत्याह जल्पत्यत्यन्तं श्रीपते त्वं क्वणति भणति मां रक्ष रक्षेति धीमान् ॥
12
नादयते नदतेऽणति वणति वनत्येष जल्पते जपति ।अभिधत्तेऽभिदधातीच वादयति ह्रादयत्येनम् ॥ ११ ॥
11
आर्याmetre not read in every line
नाटयति नटति नृत्यति गायति कायति च कूर्दते किलति ।क्रीडतिदीव्यतिकेलतिखेलति विहरति च खूर्दते रमते ॥ १२ ॥
12
गीतिः
कक्कतिकखतिप्रहसतिगग्घतिघग्घति च तक्कति स्मयते ।निक्षति चुम्बति निकस्ते तन्व्या मुखपङ्कजं प्रेयान् ॥ १३ ॥
13
आर्याmetre not read in every line
रक्षत्यवति दयते पातिपालयति प्रियं ।त्रायते नयते राजा गोपायति भुनक्ति च ॥ १५ ॥
15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
नमतिनमस्यतिविष्णुं प्रणिपतति च वन्दतेऽभिवादयते ।ईट्टेनौतिदनुवतिस्तुतेच शंसत्ययं स्तौति ॥ १६ ॥
16
आर्या
स्तवीती डयतिस्तोत्रैः कत्थते श्लाघते गुरून् ।पणायते पनायते पणायति पनायति ॥ १७ ॥
17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 य (wrong syllable)
अश्नाति वल्भते भुङ्क्ते जेमतिप्रत्यवस्यति ।धन्योऽभ्यवहरत्यन्नं संविभज्यार्थिभिस्सह ॥ २१ ॥
21
अनुष्टुप्
निष्ठीव्यतिक्षिप्यतिच निष्ठीवतिनिरस्यति ।क्षिपतिस्नुह्यतिक्षिप्रमुद्गारयति भक्षितम् ॥ २४ ॥
24
अनुष्टुप्
विन्तेविमृशतितर्कतिवितर्कयत्यतिशयान्निरूपयति ।परिगणयतिमीमासत्यालोचयति स्फुटं परामृशति ॥ २७ ॥
27
गीतिः
आलोचयते कार्यं यो राजा स प्रतीयते सौख्यम् ।चिन्तयति स्मरति हरिं ध्यायत्यध्येतिभावयत्यार्यः ॥ २८ ॥
28
गीतिः
विस्फुरतिप्रस्फुरतिस्फूर्जत्यथ निर्णयत्यवस्यति च ।अवधारयति च कार्यं निश्चिनुतेनिश्चिनोत्यार्यः ॥ ३१ ॥
31
आर्या
सन्दिग्धे संशेते सन्देग्धिविशङ्कतेविशेते च ।विचिकित्सतिविमृशत्ति चान्दोळयतिचेत्यभिन्नार्थाः ॥ ३२ ॥
32
metre not recognised
मारयतिहन्तिविशसतिकृषतिहिनस्तिप्रमापयत्याजौ ।मीनातिद्रूणातिकृणोति च निबर्हयत्यर्थार्दयते ॥ ३३ ॥
33
metre not recognised
क्षिणोतिक्षिणुते चैव क्षिणति क्षयतीत्यपि ।दहतिप्रोषतिप्लोषत्योषतिप्लुष्यति द्विषम् ॥ ३५ ॥
35
अनुष्टुप्
प्रेरयतिप्रेलयतिप्रेषयतिप्रेष्यतिप्रचोदयतिक्षिप्यति ।सुवतिक्षिपतिव्यापारयतीह नुदति नुदते च ॥ ३७ ॥
37
metre not recognised
आज्ञापयतिनियुङ्क्तेप्रहिणोतिनियोजयत्यलं क्षिपते ।भजतेभजतिश्रयतेश्रयति नृपं सेवते सजति ॥ ३८ ॥
38
आर्या
वृक्षं त्वक्षतितक्षतिद्यतिपुमान् तक्ष्णोतिसंवृश्चति ।छिन्तेछेदयतिच्छिनत्तिच लुनात्याखण्डतेमुण्डति ॥ ३९ ॥
39
शार्दूलविक्रीडितम्
पाशं तोडतितोडयत्यपि खुरत्याखण्डयत्यन्वहं ।कृन्तत्यत्र छिनत्तित्रुट्यतिलुनीतिदच्छ्यतीमे समाः ॥
42
metre not recognised
अभिलषतीच्छतिवांच्छतिगृध्यतिलुभ्यतिचवष्टि कांक्षति च ।स्पृहयत्याशास्तेऽर्थं कामयतेऽपेक्षतेऽर्थयते ॥ ४० ॥
40
आर्या
गर्धयतीप्सतिवरयतिगर्धतिकामयतिकांक्षते प्रेम्णा ।ध्रांक्षतिवांक्षतिधीमान् ध्वांक्षतिद्रांक्षतिश्रियं मोक्षे ॥ ४१ ॥
41
गीतिःmetre not read in every line
मोक्षयतिरहतिरहयतिवर्जयतिवृणक्तिजस्यतित्यजति ।कृषतेकर्षतिकृष्यतिविलिखति भूमिं सदा कृषिकः ॥ ४३ ॥
43
आर्या
प्रतिषिध्यतिवारयतिप्रतिषेधति तन्निराकरोत्यल्पात् ।प्रत्यादिशति च दोषात् प्रत्याचष्टेनिषेधति प्राज्ञः ॥ ४४ ॥
44
गीतिः
स्तभ्नातिस्तम्भते चैव स्तभ्नोतिस्तोभते तथा ।स्तुभ्नाति प्रतिबध्नातिस्तुभ्नोतिस्कोभते तथा ॥ ४५ ॥
45
अनुष्टुप्
स्कुभ्नाति च विहन्त्येषस्कुभ्नोतिस्कम्भते रिपून् ।स्कभ्नोतिस्कभ्नाति चैते शब्दास्तुल्यार्थवाचकाः ॥ ४६ ॥
46
अनुष्टुप्
सहतेमृष्यतिमर्षतितितिक्षतेमृष्यते तथा मृषति ।मर्षयतिक्षाम्यति च क्षमतेमृषयत्यसौ सहति ॥ ४७ ॥
47
आर्या
एधतेवर्धतेनन्दत्यृध्यतिस्फायते बुधः ।ऋध्नोतिस्त्यायतेनित्यं नीतिमान् पुष्यति श्रियम् ॥ ४९ ॥
49
अनुष्टुप्
यततेव्याप्रियतेऽसौ प्रयस्यतिव्यापिपर्तिघटते च ।चेष्टत ईहत एष स्फुरत्यलं स्पन्दते चक्षुः ॥ ५० ॥
50
metre not recognised
तुदतेतुदतिदुनोतिव्यथयतिदूःखयतिरुजतितापयति ।क्लिश्नातिखेदयत्यपि पीडयति रिपून् प्रशूलयति ॥ ५१ ॥
51
आर्या
व्यथतेताम्यतिखिन्दतिसन्तपति च दूयते च शोचति च ।ग्लायतिचम्लायतिच क्लिश्यत्याखिद्यते च सीदति च ॥ ५३ ॥
53
गीतिः
मुरयति च गुणयतिगुध्यतिवटतिस्त्यायतिच वेष्टते वस्त्रम् ।गुण्ठयतिमुण्डतेऽसौ वण्डत इत्येकवाचकाश्शब्दाः ॥ ५५ ॥
55
गीतिःmetre not read in every line
सिनुतेसिनोतिनह्यतिबध्नातिसिनातिनह्यतेजुडति ।आशुयुनातियुनीतेपाशयति सिनीत एष कीलयति ॥ ५६ ॥
56
गीतिःmetre not read in every line
आदत्ते संभजते संभजति स्वीकरोति गृह्णीते ।गृह्णाति चाददाति ग्राहयति वृणीत इत्यभिन्नार्थाः ॥ ५८ ॥
58
गीतिः
प्रावृणुतेकुम्भयतेस्तृणोतिवस्त्रैस्तृणातिकुम्भयतिच ।स्तृणुतेचाच्छादयतिप्रोर्णोतिप्रोर्णुते स्वाङ्गम् ॥ ६१ ॥
61
आर्याmetre not read in every line
पिदधातिस्थगयति पिधत्ते चावृणोति च ।अपिधत्ते चावृणुतेच्छादयत्यन्यदुर्गुणान् ॥ ६३ ॥
63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
रुण्टतिलुण्टतिमुषतिच मोषति मुष्णाति चोरयत्यर्थम् ।लुण्टयतिग्रोचतिच ग्लोचतिकोजतिचभोजतिक्षतबुद्धिः ॥ ६५ ॥
65
metre not recognised
भ्रमतिभ्राम्यतिभ्रामयत्याघुणति ।घोणतेघूर्णति तथा कीर्तिस्ते भुवनत्रये ॥ ६७ ॥
67
अनुष्टुप्metre not read in every line
तंसत्यलङ्करोत्येष भूषयत्यपि भूषते प्रसाधयत्यपि गुणैर्या मण्डयति मण्डति ॥ ६८ ॥
68
श्च्योततिक्षरतिक्षीरं स्तनात्स्रवति सूदते ।वत्सं पाति च पुष्णातिपुष्यत्युपचिनोति च ॥ ७१ ॥
71
अनुष्टुप्
नदतिध्वनतिरौतिकौतिस्वनतिकूजति ।कवते कुवते पक्षी तथा कुञ्जति गुञ्जति ॥ ७२ ॥
72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
जिह्रेतित्रसतेह्रीच्छत्यलं व्रीडतिलज्जते ।लज्जते दुश्चरित्राणि दृष्ट्वान्यस्य स्वयंसुधीः ॥ ७५ ॥
75
अनुष्टुप्
आश्लिष्यत्यालिङ्गति परिरभते दिग्वधूः परिष्वजते ।उपगूहति कीर्तिश्रीः कुन्देन्दुसमप्रभावी बुधः ॥ ७६ ॥
76
आर्याmetre not read in every line
स्वदतेस्वादतेक्षीरं स्वर्दते रोचते नृणां ।द्रायतिप्रीयते चतुर्भुक्त्वा तृपति तृप्यति ॥ ७७ ॥
77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 च (wrong syllable)
प्रीणातितर्पयत्यलमाह्लादयतिवा तृप्नोति ।सन्तोषयतिधिनोतिप्रीणयतिपृणोतिसुखयति प्रौडः ॥ ७८ ॥
78
metre not recognised
स्निह्यतितूषतितुष्यतिहृष्यति दृष्ट्वैव मोदते कान्तम् ।दृप्यतिमाद्यतिकर्वतिखर्वति सा क्षीबते च गर्वति च ॥ ७९ ॥
79
गीतिः
विचिनोत्यवेक्षतेऽसावन्विष्यतिमृगयते गवेषयति ।अन्वेषते च मार्गतिमार्गयति च विचिनुते दोषान् ॥ ८० ॥
80
आर्या
आकारयत्याह्वयति स्वमामन्त्रयते प्रियं ।अथ पर्यनुयुङ्क्तेऽसावनुयुङ्क्ते स पृच्छति ॥ ८१ ॥
81
अनुष्टुप्
परिवर्तते निवर्तत एष व्यावर्तते च गत्वैव ।व्याघटते च परावर्तत इत्येकवाचकाश्शब्दाः ॥ ८२ ॥
82
आर्याmetre not read in every line
उपदेग्ध्युपदिग्धे सा लिम्पति रूषति च कुङ्कुमं छुरति ।दृष्ट्वा प्राणाधीशं विकिरति विक्षिपति पादयोः कुसुमम् ॥ ८३ ॥
83
गीतिः
सङ्ग्रामयते जजति च संप्रहरति युध्यते च जंजति च ।आहन्ति च गदयाऽसौ युध्यति सन्तापयत्यलं शत्रून् ॥ ८५ ॥
85
गीतिः
कन्दति क्रन्दति क्लन्दत्याक्रोशति च कन्दते ।क्रन्दते क्लन्दते शोचत्यलं रोदिति दुर्मतिः ॥ ८६ ॥
86
अनुष्टुप्
वरिवस्यति परिचरति च पर्यङ्क्ते सेवते भजति ।शुश्रूषते च भजते श्रयते चाराधयत्युपास्ते च ॥ ८९ ॥
89
उद्गीतिः
उन्मीलयति च विलसति विकसति च स्फोटते स्फुटत्याशु ।उन्मेषत्युन्मिषति प्रबुध्यते जृम्भते पद्मम् ॥ ९२ ॥
92
आर्या
पूत्वा पवित्वा प्रशमय्य नष्ट्वा नशित्वा च विहाय हित्वा ।संन्यस्य संसाय निखाय खात्वासङ्गत्यसंगम्यनिहत्यहत्वा ॥ ९३
95
इन्द्रवज्राtwo metres in one versenearly इन्द्रवज्रा
मृडित्वा मृदित्वा कुपित्वाकुषित्वामृषित्वारुषित्वाविदित्वागृहीत्वा ।कृषित्वाचकृत्वामुषित्वाक्लिशित्वाखनित्वाक्षुधित्वावचित्वालुचित्वा ॥ ९४ ॥
94
इन्द्रवज्राtwo metres in one verse
पंचित्वावंचित्वालुंचित्वाक्रम्यचक्रमित्वाच ।तर्षित्वामर्षित्वाकर्षित्वातत्त्वतोगुधित्वा च ॥ ९५ ॥
95
metre not recognised
गुम्फित्वालुम्फित्वालोभित्वा खलु लुभित्वा च ।क्लिष्ट्वापक्त्वारुद्ध्वाबद्ध्वाप्रस्कन्द्यनिष्कंद्य ॥ ९६ ॥
96
उपगीतिः
मत्वा खात्वाज्ञात्वाग्रन्थित्वाचग्रधित्वाच ।अर्तित्वानर्तित्वाप्रापय्यसमाप्यचांचित्वा ॥ ९७ ॥
97
उपगीतिः
पीत्वापरिव्यायविधायचोक्त्वाव्याख्यायधीत्वापरिवीयधित्वा ।संव्यायसंक्षीयविजायमीत्वाविजित्यसंमन्यमनोमनित्वा ॥ ९८ ॥
98
उपजातिः
विगायावमायावमत्यप्रमत्यप्रयम्यप्रयत्यप्रणत्यप्रणम्य ।निमायप्रमायप्रलायप्रलीयप्रवृश्च्यप्रपायप्रहायप्रदाय ॥ ९९ ॥
99
भुजङ्गप्रयातम्
द्यूत्वाजलित्वावृश्चित्वाक्षूत्वावृत्वाविवृत्य च ।तर्णित्वाधक्षणित्वाचप्रक्षित्यादिचोह्यताम् ॥ १०१ ॥
101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इति श्रीपाण्ड्यभूपालविरचितक्रियानिघण्टुः समाप्तः ।
104