कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ṣaḍarthanirṇayanighaṇṭu

षडर्थनिर्णयनिघण्टु Ṣaḍarthanirṇayanighaṇṭu

71 verses · text only, tagging comes next

Part 1

षडर्थनिर्णयनिघण्टुः ।

अब्जे मोक्षे जले क्षीरे सिंहे सूर्येऽपि चामृतम् ।आकाशे त्रिदिवे त्यागे ध्याने स्वीये च निर्णये ॥ १ ॥
1 · p. 28
अनुष्टुप्
स्वर्गः प्रकीर्तितश्चाथ वज्रस्तु परिकीर्तितः ।जले शल्ये नाकलोके सायकेऽप्यायुधे मणौ ॥ २ ॥
2 · p. 28
अनुष्टुप्
श्रीवर्णः पङ्कजे पत्ररथे विष्णौ शिवे सिते ।गजे चाथ महाश्वे च विशालेऽप्यर्थकामयोः ॥ ३ ॥
3 · p. 28
अनुष्टुप्
कृपायां रक्षणे चापि करुणा परिकीर्तिता ।लक्षणे च प्रबन्धे च भाषायामखिलेऽपि च ॥ ४ ॥
4 · p. 28
अनुष्टुप्
शाश्वते पक्षिभेदे च संस्कृतः परिकीर्तितः ।रोदने च ध्वनौ भीतौ याच्ञायामश्वपक्षिणोः ॥ ५ ॥
5 · p. 28
अनुष्टुप्
आक्रन्दनमिति प्रोक्तमर्थस्तु घनरुक्मयोः ।अभिप्राये धर्ममार्गे सत्कृत्येऽप्यधिकेऽपि च ॥ ६ ॥
6 · p. 28
अनुष्टुप्
योगो भाग्येऽप्युपाये च चारे युद्धे च मूकके ।चित्तवृत्तौ च भोगस्तु सर्पदेहे सुखेऽपि च ॥ ७ ॥
7 · p. 28
अनुष्टुप्
कीर्त्यार्जिते च मत्स्ये च तपः सिद्धौ गृहेऽपि च ।खगो बाणे याचके च चन्द्रे सूर्येऽण्डजे सुरे ॥ ८ ॥
8 · p. 28
अनुष्टुप्
अजो महेश्वरे विष्णौ चतुरास्येऽप्यथाम्बरे ।अन्तरात्मनि मेषे स्यादब्जः शङ्खे गुणेऽपि च ॥ ९ ॥
9 · p. 28
अनुष्टुप्
चन्द्रे विटेऽम्बुजे चापि कर्पूरेऽथ घृतं जले ।आज्ये क्षीरे गुग्गुले च लोहे रक्तेऽपि कथ्यते ॥ १० ॥
10 · p. 28
अनुष्टुप्
सत्यं प्रमाणे तथ्ये च बले सत्वगुणेऽपि च ।परब्रह्मणि लोके च गोविन्दो वृषभेऽपि च ॥ ११ ॥
11 · p. 28
अनुष्टुप्
आभीरौ च मुरल्यां च कृष्णेऽपि च नृपालके ।सुरेन्द्रेऽथ पदं ज्ञाने निश्चये च रणेऽपि च ॥ १२ ॥
12 · p. 29
अनुष्टुप्
शब्दे राज्ये जनपदे मधुश्चैत्रे जलेऽसुरे ।सुरायां मकरन्दे च श्रीफले च निगद्यते ॥ १३ ॥
13 · p. 29
अनुष्टुप्
अव्यक्तोऽग्नौ शम्बरे च विष्णौ सिंहे च वार्निधौ ।चन्द्रेऽपि चाथ वृत्तान्तः प्रस्तुतौ नूत्नवाचके ॥ १४ ॥
14 · p. 29
अनुष्टुप्
अपूर्वेऽपि च वार्तायां भूम्यादौ चक्रवालके ।हेतिः सूर्ये च किरणे सुरेन्द्रे च निशाकरे ॥ १५ ॥
15 · p. 29
अनुष्टुप्
पीठे खड्गेऽथ भूतिस्तु गौर्यां च गणनायके ।ऐश्वर्येऽपि च मोक्षे च भस्मे यशसि कथ्यते ॥ १६ ॥
16 · p. 29
अनुष्टुप्
श्रुतिर्वेदे च विप्रे च शास्त्रे कर्णे शुभेऽपि च ।सूत्रे च शक्तिः स्थूले च दृढे च समरेऽपि च ॥ १७ ॥
17 · p. 29
अनुष्टुप्
मायायां चण्डिकायां च स्वभावेऽपि च कथ्यते ।स्थाणुर्बके द्रुमे काष्ठे विष्णौ रुद्रे पितामहे ॥ १८ ॥
18 · p. 29
अनुष्टुप्
अमायां पूर्णिमायां च सङ्ख्यायां प्रलयेऽपि च ।गृहे चाप्युत्सवे चापि क्षयस्तु परिकीर्तितः ॥ १९ ॥
19 · p. 29
अनुष्टुप्
गुणो भाग्ये च चापाग्रे ज्यायां सूत्रे स्थितावपि ।सत्वादौ चरणो भूपे भूम्यां स्त्रीयुद्धवाचके ॥ २० ॥
20 · p. 29
अनुष्टुप्
रहस्येऽपि च वर्णे च प्रत्नेऽथ हरिणेऽपि च ।मृगे नीले सिते विष्णौ रुद्रे हंसेऽथ कथ्यते ॥ २१ ॥
21 · p. 29
अनुष्टुप्
शास्त्रे ज्ञाने स्तुतौ चापि मर्यादायां मितेऽपि च ।माने प्रमाणशब्दः स्यात् हिरण्यं रजतेऽपि च ॥ २२ ॥
22 · p. 29
अनुष्टुप्
स्वर्णे च सैकते लोहे धुत्तूरेऽपि च चम्पके ।संविद्युद्धे च कोपे च ज्ञाने देवप्रसादके ॥ २३ ॥
23 · p. 29
अनुष्टुप्
प्रज्ञायां ब्रह्मणि स्याच्च न्यग्रोधो बहुपाद्वटे ।सर्पे रक्ते सिते स्थूले शिलायामपि च द्वयोः ॥ २४ ॥
24 · p. 30
अनुष्टुप्
परिधिः परिवेषे च काहल्यां शुष्ककाष्ठके ।अग्नौ सूर्येऽप्यायुधे च विधुर्विष्णौ महेश्वरे ॥ २५ ॥
25 · p. 30
अनुष्टुप्
हिरण्यगर्भे दक्षे च चन्द्रे सूर्ये निगद्यते ।वाजी गुरौ च वाहे च बाणे च कृपणेऽपि च ॥ २६ ॥
26 · p. 30
अनुष्टुप्
याचके पक्षिभेदे च शिखी मेघे च पर्वते ।अग्नौ मयूरे नैर्ऋत्यां कुक्कुटे च निगद्यते ॥ २७ ॥
27 · p. 30
अनुष्टुप्
घनाघनो नृपे सर्पे पर्वते कालनीरदे ।युद्धभूम्यां रात्रिचरे घनो वाद्ये महोन्नते ॥ २८ ॥
28 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
कर्पूरभूरुहे वज्रे मेधे गात्रे स्वरेऽपि च ।स्याद्वाहिनी सैन्यमुखे प्रवाहे घनघोषणे ॥ २९ ॥
29 · p. 30
अनुष्टुप्
आकाशे सैकते द्वीपे गन्धः कर्पूरकेऽपि च ।सौरभे मदभेदे च चन्दनेऽप्यगुरुद्रुमे ॥ ३० ॥
30 · p. 30
अनुष्टुप्
उत्साहेऽप्यथ रक्तस्तु शोणिते च जलेऽम्बुदे ।रागे च शोणवर्गे च क्षीरे चाब्दोऽम्बुदेऽपि च ॥ ३१ ॥
31 · p. 30
अनुष्टुप्
छत्रे वस्त्रे च नभसि सूर्ये संवत्सरेऽपि च ।प्रसादः करुणायां च रक्ते पीते सितेऽपि च ॥ ३२ ॥
32 · p. 30
अनुष्टुप्
महाराजगृहे चापि शुभे च परिकीर्तितः ।सुधा क्षीरे चामृते च वृक्षभेदे गुडेऽपि च ॥ ३३ ॥
33 · p. 30
अनुष्टुप्
चूर्णभेदे च विद्यायां पर्णः पत्रे पलाशके ।शङ्खे जलेऽश्वभेदे च पक्षिपक्षे निगद्यते ॥ ३४ ॥
34 · p. 30
अनुष्टुप्
मृदुर्मन्दे मार्दवे च भेके सूक्ष्मेऽतिदीर्घके ।विरोधे हयशब्दस्तु प्रलये घोटकेऽपि च ॥ ३५ ॥
35 · p. 30
अनुष्टुप्
ज्वालायां च विलम्बे च वायौ चानृतवाचके ।विरोचनोऽपि वह्नौ च सूर्ये चन्द्रेऽर्जुनेऽपि च ॥ ३६ ॥
36 · p. 31
अनुष्टुप्
ज्योत्स्नायां शुभ्रवर्षे चाथात्मन्शब्दः प्रकीर्तितः ।परब्रह्मणि धैर्ये च मानसे विग्रहेऽपि च ॥ ३७ ॥
37 · p. 31
अनुष्टुप्
अन्ये स्वभावे कथितोऽप्यातञ्चन इहोदितः ।दृश्ये हारे च मूर्च्छायां सौरभे नूतनेपि च ॥ ३८ ॥
38 · p. 31
अनुष्टुप्
लावण्येऽप्यथ सादस्तु साम्ये पङ्केऽच्युतेऽपि च ।अन्ने च व्यञ्जने चापि वर्धने च निगद्यते ॥ ३९ ॥
39 · p. 31
अनुष्टुप्
अभिमानस्तु गर्वे च लोहे ज्ञानोदयेऽपि च ।स्नेहे माने रक्षणे च वेदो वृक्षे च पर्वते ॥ ४० ॥
40 · p. 31
अनुष्टुप्
शिलायां निगमे नीरे यज्ञमन्त्रे निगद्यते ।जीमूतो जलदे शंखे भूपे भूमिधरेऽपि च ॥ ४१ ॥
41 · p. 31
अनुष्टुप्
वालुका वालुके कोशेऽप्यर्जुनस्त्वभिधीयते ।सितेऽसिते पाण्डुसुते वह्नौ चन्द्रेऽर्कपादपे ॥ ४२ ॥
42 · p. 31
अनुष्टुप्
भानुश्चन्द्रे च सूर्ये च वह्नौ च किरणेऽपि च ।शुनकेऽपि च मण्डूके कामिनीवृक्षजेऽपिच ॥ ४३ ॥
43 · p. 31
अनुष्टुप्
कलहंसे महाग्नौ च रमण्यां गर्दभेऽपि च ।अमरे च तनुश्च स्याद्देहे विष्णौ सिताम्बुजे ॥ ४४ ॥
44 · p. 31
अनुष्टुप्
अल्पेऽधिके सुरज्येष्ठे निधनस्त्वन्वये गुरौ ।नृपे गृहे शोणिते च व्याजे च परिकीर्तितः ॥ ४५ ॥
45 · p. 31
अनुष्टुप्
वनं जले कानने च धीरे चन्द्रे प्रपञ्चके ।छत्रेऽधिष्ठानशब्दस्तु चक्रे वेदे मतेऽपि च ॥ ४६ ॥
46 · p. 31
अनुष्टुप्
अग्नौ पुरे रमण्यां स्याद्रत्नं स्वर्णे च कम्बले ।माणिक्ये च शिलायां च विधवायां च कर्कशे ॥ ४७ ॥
47 · p. 31
अनुष्टुप्
लाञ्छनं चापि रोषे च यशसि ध्वजचिह्नयोः ।नामधेये लक्षणेऽथ हीनस्तु परिकीर्तितः ॥ ४८ ॥
48 · p. 32
अनुष्टुप्
स्वल्पेऽधिकेपि हिंस्रे च यशसि ज्ञानशून्यके ।दुःखेऽथ बाष्पशब्दस्तु श्रेष्ठे वेणौ कुलेऽपि च ॥ ४९ ॥
49 · p. 32
अनुष्टुप्
अश्रुबिन्दौ जले वहनौ तल्पं दारतनूजयोः ।शय्यायामन्नदाने च पट्टणे च मणावपि ॥ ५० ॥
50 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 वह (syllable split)
विटपस्तु महास्तम्भे पर्वते च द्रुमेऽपि च ।सर्पभेदे च वेदे च कमठे परिकीर्तितः ॥ ५१ ॥
51 · p. 32
अनुष्टुप्
डिम्भः शिशौ पादतले दुष्करे घृतसूपयोः ।क्षीरे शम्भुः सुरज्येष्ठे रुद्रे विष्णौ सुखेऽपिच ॥ ५२ ॥
52 · p. 32
अनुष्टुप्
शङ्खे चन्द्रे दुन्दुभिस्तु भेरीदन्तशरेषु च ।दनुजे मर्कटे चापि वासुदेवेऽपि च स्मृतः ॥ ५३ ॥
53 · p. 32
अनुष्टुप्
गन्धर्वो गरुडे चाश्वे बाणे हंसे खगेऽपि च ।युद्धे गर्भोऽङ्गणे भ्रूणे जले च जलदेऽपि च ॥ ५४ ॥
54 · p. 32
अनुष्टुप्
गगने घटमध्ये च नभिः शंखे विषेऽपि च ।युद्धे मृगमदे चापि खड्गे चाप्यङ्गमध्यमे ॥ ५५ ॥
55 · p. 32
अनुष्टुप्
सभाचिह्ने च सङ्घे च सद्गुणे पर्वतेऽपि च ।सत्ये जलनिधौ च स्यात्प्लवस्तु प्लवङ्गमे ॥ ५६ ॥
56 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
किराते सूकरे मत्स्ये भेके शैले निगद्यते ।सुरभिः कामधेनौ च सौरभे नन्दिकेश्वरे ॥ ५७ ॥
57 · p. 32
अनुष्टुप्
अश्वत्थे च करिण्यां च गद्यतेऽथ पराक्रमः ।भल्लायुधे प्रयाणे च विक्रमे करुणारसे ॥ ५८ ॥
58 · p. 32
अनुष्टुप्
अन्यराष्ट्रे च पापे च विभ्रमः परिकीर्तितः ।त्रोट्यां यशसि वेषे च विद्यायां सुन्दरेऽपि च ॥ ५९ ॥
59 · p. 32
अनुष्टुप्
विनोदे स्तोमशब्दस्तु शय्यायां तूपदानके ।दुर्गन्धे च समूहे च मृदुले मधुरेऽपि च ॥ ६० ॥
60 · p. 33
अनुष्टुप्
निगमः पट्टणे मार्गे विपण्यामपि निन्दने ।वेदेऽप्यरण्ये नैगस्तु वैश्ये नन्दीश्वरेऽपि च ॥ ६१ ॥
61 · p. 33
अनुष्टुप्
नरे नृपे जम्बुके च सर्पे रामो निगद्यते ।मूर्तित्रये शुके वृक्षभेदेऽपि च मनोहरे ॥ ६२ ॥
62 · p. 33
अनुष्टुप्
दमः सात्विकभावे च विद्यायां याजकेऽपि च ।स्वभावे विनये चापि नेत्रकोणे निगद्यते ॥ ६३ ॥
63 · p. 33
अनुष्टुप्
भीष्मं भयेऽपीन्द्रिये च प्रज्ञायां कठिनेऽपि च ।मन्दे परुषवार्तायां गुल्मरोगे गृहेऽपि च ॥ ६४ ॥
64 · p. 33
अनुष्टुप्
शिरोजे पक्षिभेदे च वृक्षपादे च वर्षणे ।क्षमा भूम्यां मूलिकायामुपशान्ते हितेऽपि च ॥ ६५ ॥
65 · p. 33
अनुष्टुप्
कारणे सात्विके चापि ललामं ध्वजचिह्नयोः ।लोध्रे बिन्दौ मुखे श्रेष्ठे सूक्ष्मस्तु मदनेऽपि च ॥ ६६ ॥
66 · p. 33
अनुष्टुप्
शुक्तिभेदे सितेऽप्यल्पे प्रज्ञायां निर्मलेपि च ।प्रथमो ब्राह्मणे मन्त्रेऽप्युपदेशे क्रतौ भटे ॥ ६७ ॥
67 · p. 33
अनुष्टुप्
आदौ वामो मनोज्ञे च वृत्ते च मदनेऽपि च ।जीर्णचित्रे च जन्मे च दक्षिणेतरपार्श्वके ॥ ६८ ॥
68 · p. 33
अनुष्टुप्
अधस्त्वल्पके मूले मन्दे भिक्षादिजीवने ।अधीनेऽपि च तारुण्ये तार्क्ष्यश्च गरुडेऽपि च ॥ ६९ ॥
69 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मेषे पक्षिसमूहे च देवभेदे च वायसे ।लताभेदे हरिश्चापि चन्द्रे सूर्ये च घोटके ॥ ७० ॥
70 · p. 33
अनुष्टुप्
विष्णौ सिंहे सुरेन्द्रे च सूरिभिः परिकीर्तितः ॥
71 · p. 33