कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Triśaṣasakārabheda

त्रिशषसकारभेद Triśaṣasakārabheda

48 verses · text only, tagging comes next

मध्यमूर्धन्यषकारसङ्ग्रहः

इति मूर्द्धन्यषादिसङ्ग्रहः ॥

पाषाणपुष्करविशेषणशष्पनिष्का-धूष्पाशभेषजभिषग्विषयातिदुष्खाः ।कुष्माण्डदुष्करगवेषितभूषितेषत्पाषण्डपोषणपरिष्कृतकिष्कुशुष्काः ॥ १ ॥
5.1 · p. 26
वसन्ततिलका
योषिद्विशिष्य दृषदंशकगोष्पदोष्मा-भिष्वङ्गभीष्ममुषलर्षभभष्मभूष्याः ।निष्पेषसर्षपबहिष्कृतवर्ष्मभाष्याःपुष्पौषधोषरहृषीकविषादकृष्याः ॥ २ ॥
5.2 · p. 26
वसन्ततिलका
वास्तोष्पतित्र्युषणदेषणिकापृषत्कामस्तिष्कमूषिकविविष्किरदुःसुषेणाः ।विष्कम्भभाषणमनीषिनिषेकदूष्याःप्रेष्येषिकासुषिरवार्द्धुषिकाभिषेकाः ॥ ३ ॥
5.3 · p. 26
वसन्ततिलका
श्लेष्मानुषङ्गिककषायनिषण्णशिष्याग्रीष्मोषतीचषकपूषतुरुष्कतिष्याः ।पूष्याविषाणधिषणासुषमासुषीमाःकौषेयसुष्खपरिषद्दिविषत्तुषाराः ॥ ४ ॥
5.4 · p. 26
वसन्ततिलका
अरुष्कराषाढनिषेधदूषिकागवेषणान्वेषणनिश्चतुष्काः ।चषालचुष्योष्यणसत्पृषत्कानिषद्वरद्वेष्यतुरादिषाढः ॥ ५ ॥
5.5 · p. 26
upajati mixed
पृषदश्वो वृषलकः मुषवी विषुवावुभौ ।शिषुको वृषदश्चैते मध्यमृर्द्धन्यषाः कति ॥ ६ ॥
5.6 · p. 27
अनुष्टुप्