All kośas › Anekārthanighaṇṭu
अनेकार्थनिघण्टु Anekārthanighaṇṭu
154 verses · text only, tagging comes next
Part 1 (1/2)
अनेकार्थ-निघण्टुः
गम्भीरान् रुचिराँश्चित्रान् विस्तीर्णार्थप्रसाधनान् ।कष्टशब्दान् प्रवक्ष्यामि कवीनां हितकाम्यया ॥ १ ॥
1 · p. 102
अनुष्टुप्
वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु ।नवस्वर्थेषु मेधावी गोशब्दमुपलक्षयेत् ॥ २ ॥
2 · p. 102
अनुष्टुप्
कः प्रजापतिरुद्दिष्टो को वायुरभिधीयते ।कः शब्दः स्वर्गमाख्याति क इत्यात्मा मतः क्वचित् ॥ ३ ॥
3 · p. 102
अनुष्टुप्
सलिलं कमिति ज्ञेयं शिरः कमिति चोच्यते ।देवाननिमिषानाहुर्मत्स्याननिमिषांस्तथा ॥ ४ ॥
4 · p. 102
अनुष्टुप्
अग्निश्च वर्हिणः चैव वृक्षः कुक्कुट एव च ।शिखिनोऽभिहिताः शस्त्रः पृथुकश्च मतः शिखी ॥ ५ ॥
5 · p. 102
अनुष्टुप्
हंसो नारायणः प्रोक्तः क्वचिद्धंसो दिवाकरः ।अश्वश्चापि स्मृतो हंसो हंसश्चापि विहंगमः ॥ ६ ॥
6 · p. 102
अनुष्टुप्
सारसः सरसिजेन्द्वोः पतत्र्यपि च सारसः ।राजाऽपि नृपतिर्ज्ञेयो राजा चोक्तो निशाकरः ॥ ७ ॥
7 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)
विभावसुर्हुताशः स्याच्छ्वेतच्छत्रं क्वचिद्भवेत् ।हिमारातिः स्मृतो वह्निः हिमारातिश्च भास्करः ॥ ८ ॥
8 · p. 102
अनुष्टुप्
धनञ्जयोऽग्निर्व्याख्यातो पार्थश्चापि धनञ्जयः ।बीभत्सश्च मतः पार्थो बीभत्सो विकृतः स्मृतः ॥ ९ ॥
9 · p. 102
अनुष्टुप्
अग्निर्विरोचनः प्रोक्तो भास्करस्तु विरोचनः ।विरोचनश्च चन्द्रः स्यात्क्वचिद्दैत्यो विरोचनः ॥ १० ॥
10 · p. 102
अनुष्टुप्
पाञ्चजन्यः क्वचिद्वह्निः क्वचिच्छङ्खो निगद्यते ।कम्बुश्च गदितः शङ्खः कम्बुरिष्टश्च कुञ्जरः ॥ ११ ॥
11 · p. 102
अनुष्टुप्
भास्करोऽग्निः समुद्दिष्टः सहस्रांशुरपि क्वचित् ।पतङ्गो दिनकृज्ज्ञेयः पतङ्गः शलभः स्मृतः ॥ १२ ॥
12 · p. 102
अनुष्टुप्
कौशिको देवराजः स्यादुलूकश्चापि कौशिकः ।शम्भुर्ब्रह्मा च विष्णुश्च शम्भुश्चैव महेश्वरः ॥ १३ ॥
13 · p. 102
अनुष्टुप्
वृषकेतुर्मतः शङ्कुः शङ्कुः कील इहोच्यते ।जम्बुको वरुणो ज्ञेयः शृगालश्चापि जम्बुकः ॥ १४ ॥
14 · p. 102
अनुष्टुप्
अर्क इष्टस्तु मघवान् घर्मांशुरर्क उच्यते ।मन्थी राहुश्च चन्द्रश्च ग्रहो मन्थी निरुच्यते ॥ १५ ॥
15 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
केतवो रश्मयो ज्ञेयाः केतवश्च महाध्वजाः ।तमोनुदः सहस्रांशुरग्निश्चापि प्रकीर्त्यते ॥ १६ ॥
16 · p. 102
अनुष्टुप्
मयूखाः किरणा ज्ञेया मयूखाश्चापि कीलकाः ।सप्तर्षिरुत्सवः प्रोक्तः सप्तान्ये ऋषयः क्वचित् ॥ १७ ॥
17 · p. 102
अनुष्टुप्
वसवः शंवरा उक्ता देवाश्च वसवो मताः ।नक्षत्रं धिष्ण्यमित्युक्तं गेहं धिष्ण्यं मतं क्वचित् ॥ १८ ॥
18 · p. 102
अनुष्टुप्
वासोऽम्बरमिति ख्यातमम्बरं च नभःस्थलम् ।पयः सलिलमुद्दिष्टं पयः क्षीरं मतं क्वचित् ॥ १९ ॥
19 · p. 102
अनुष्टुप्
शिवं पानीयमुद्दिष्टं शिवं श्रेयः शिवं सुखम् ।शिवं व्योमपतिं प्राहुः शिवं श्रेष्ठं प्रचक्षते ॥ २० ॥
20 · p. 102
अनुष्टुप्
क्षरं जलं विजानीयात्क्वचिन्मेधं विदुः क्षरम् ।स्यन्दनं चाम्बु निर्दिष्टं स्यन्दनश्च महारथः ॥ २१ ॥
21 · p. 102
अनुष्टुप्
कृष्णं तमः समाख्यातं कृष्णश्चाधोक्षजस्तथा ।अमृतं क्षीरमित्युक्तं क्वचिच्चेष्टं समुद्रजम् ॥ २२ ॥
22 · p. 102
अनुष्टुप्
शवं च सलिलं प्रोक्तं मृतमाहुः शवं तथा ।तोयं घृतमिति प्रोक्तं घृतं सर्पिः क्वचिद्भवेत् ॥ २३ ॥
23 · p. 102
अनुष्टुप्
पानीयं च विषं प्रोक्तं क्वचिद्धालाहलं विषम् ।हस्तिहस्तः करः प्रोक्तः करो हस्तः प्रचक्ष्यते ॥ २४ ॥
24 · p. 102
अनुष्टुप्
कीलालं रुधिरं प्रोक्तं नीरं चैव प्रशस्यते ।भुवनं सलिलं प्रोक्तं आकाशं भुवनं स्मृतम् ॥ २५ ॥
25 · p. 102
अनुष्टुप्
प्रवालं कोमलं ज्ञेयं कोमलं स्पष्टवाचकम् ।सदनं च स्मृतं तोयं सदनं वेश्म उच्यते ॥ २६ ॥
26 · p. 102
अनुष्टुप्
तोयं सद्मेति गदितं निलयं सद्म निगद्यते ।संवरं च जलं प्रोक्तं संवरः पर्वतो भवेत् ॥ २७ ॥
27 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 निल (syllable split)
संवरश्चाऽसुरः ख्यातो यो बिभर्ति रसां प्रियाम् ।स्वरवाक्क्ष्मास्विडां प्राहुरिडा चाम्बरदेवताम् ॥ २८ ॥
28 · p. 102
अनुष्टुप्
पत्नीं चन्द्रेरिडां प्राहुरिला तत्समतां गता ।अदितिः पृथिवी ज्ञेया देवमाताऽदितिः क्वचित् ॥ २९ ॥
29 · p. 102
अनुष्टुप्
अध्यूढा भार्या परित्यक्ता त्वद्भिदिश्च निगद्यते ।वृषो धर्म्मः क्वचिज्ज्ञेयो गवामपि पतिर्वृषः ॥ ३० ॥
30 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृषा कर्णश्च गदितो वृषा चोक्तः शतक्रतुः ।रौहिणेयो बलः प्रोक्तो रौहिणेयो बुधः क्वचित् ॥ ३१ ॥
31 · p. 102
अनुष्टुप्
बलदेवो मतः शेषो नागो वा शेष उच्यते ।रामस्तु लांगली ज्ञेयो रामो दाशरथिः क्वचित् ॥ ३२ ॥
32 · p. 102
अनुष्टुप्
रामश्च शुक्लो वर्णो रामश्च क्षत्रनाशनः ।वराहः केशवः ख्यातो वराहो जलदः क्वचित् ॥ ३३ ॥
33 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 शु (syllables merged)
वराहः शकरो ज्ञेयो विष्णुर्मेघो हरिस्तथा ।अजाराट्स्मरेन्दवो ज्ञेयास्त्रिनेत्रश्चाप्यजो मतः ॥ ३४ ॥
34 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अजः पशुश्च विख्यातो तथाजौ ब्रह्मकेशवौ ।शरीरजः स्मृतो रोगः पुत्रश्चापि शरीरजः ॥ ३५ ॥
35 · p. 102
अनुष्टुप्
ज्ञेयं पुष्करमब्जं च नागनासाग्रमेव च ।कूलं नभः समाख्यातं कूलं रोधः प्रचक्षते ॥ ३६ ॥
36 · p. 103
अनुष्टुप्
खं चानन्तमिति प्रोक्तमनन्तं च बलं क्वचित् ।विष्णुः क्वचिदनन्तः स्यान्नागश्चानन्त उच्यते ॥ ३७ ॥
37 · p. 103
अनुष्टुप्
प्रजापतिः स्मृतो राजा ब्रह्मा चापि प्रजापतिः ।प्रजापतिः स्मृतः क्षत्ता क्षत्ता च चर उच्यते ॥ ३८ ॥
38 · p. 103
अनुष्टुप्
वामः पयोधरः प्रोक्तो वामः स्याद्द्रविणं हरः ।वामश्च मदनः प्रोक्तो वामश्च प्रतिकूलके ॥ ३९ ॥
39 · p. 103
अनुष्टुप्
आगोपो गोपको ज्ञेयः क्वचिदागोपको ध्वजः ।उरश्चाङ्कः समाख्यातः स्थानमङ्कः स्मृतस्तथा ॥ ४० ॥
40 · p. 103
अनुष्टुप्
वासरस्तु स्मृतो नागो वासरो दिवसो मतः ।विभावसुर्निशा ज्ञेया गन्धर्वश्च क्वचिन्मतः ॥ ४१ ॥
41 · p. 103
अनुष्टुप्
शर्वर्यो रात्रयः प्रोक्ताः शर्वर्यश्च स्त्रियो मताः ।सान्द्रं घनमिति प्रोक्तं स्निग्धं सान्द्रं निगद्यते ॥ ४२ ॥
42 · p. 103
अनुष्टुप्
स्वः स्वर्गस्य मतं नाम स्वः सुखं क्वचिदुच्यते ।स्व आत्मा चैव निर्दिष्टः स्वः प्रोक्तो गृहमूषिकः ॥ ४३ ॥
43 · p. 103
अनुष्टुप्
ककुश्छन्दोविशेषज्ञो मतः शास्त्रेपि ना ककुप् ।ककुम्महीरुहः प्रोक्तो ज्ञेयास्तु ककुभो दिशः ॥ ४४ ॥
44 · p. 103
अनुष्टुप्
क्षयं वेश्म समुद्दिष्टं क्षयं रोगं प्रचक्षते ।जलदस्तु प्लवो ज्ञेयः प्लवो ज्ञेयस्तथोडुपः ॥ ४५ ॥
45 · p. 103
अनुष्टुप्
प्रासादो मण्डपः प्रोक्तो विहारश्चापि कथ्यते ।घनं घनं विजानीयाद् घनं विपुलमुच्यते ॥ ४६ ॥
46 · p. 103
अनुष्टुप्
प्रयुज्यते च कस्मिंश्चिद् घनं सङ्घातवाद्ययोः ।वरूथं स्यन्दनाग्रं स्याद्वरूथं वेश्म उच्यते ॥ ४७ ॥
47 · p. 103
अनुष्टुप्
चमूश्च वर्म सहसा प्रवदन्ति मनीषिणः ।असुराश्च सुरा ज्ञेयाः क्वचिद्देवारयोऽसुराः ॥ ४८ ॥
48 · p. 103
अनुष्टुप्
नागाश्च द्विरदा ज्ञेयाः पन्नगाश्च क्वचिन्मताः ।गन्धर्वश्च तथा वायुः क्वचित्स्याद्देवगायनः ॥ ४९ ॥
49 · p. 103
अनुष्टुप्
तार्क्ष्यो हयः समुद्दिष्टस्तार्क्ष्यश्चापि पतत्रिराट् ।बालेयानसुरानाहुर्वालेयांश्च क्वचित् खरान् ॥ ५० ॥
50 · p. 103
अनुष्टुप्
तृणी वनस्पतिः प्रोक्ता क्वचिदार्द्राश्च कथ्यते ।शिखरी वृक्ष उद्दिष्टः शिखरी पर्व्वतः स्मृतः ॥ ५१ ॥
51 · p. 103
अनुष्टुप्
द्विजो विप्रश्च दन्तश्च द्विजः पक्षी निगद्यते ।चौरो मलिम्लुचो ज्ञेयो वातश्चापि मलिम्लुचः ॥ ५२ ॥
52 · p. 103
अनुष्टुप्
आत्मजं रक्तमुद्दिष्टं सुतः कामस्तथैव च ।कीनाशो मृतको ज्ञेयः कीनाशश्चापि राक्षसः ॥ ५३ ॥
53 · p. 103
अनुष्टुप्
कीनाशोऽग्निः कृतघ्नश्च कृपणो यम एव च ।कीनाशः कर्षको ज्ञेयः कीनाशश्च वृकोदरः ॥ ५४ ॥
54 · p. 103
अनुष्टुप्
अवदातं प्रधानं स्यादवदातं च पाण्डुरम् ।ज्योतिर्ल्लोचनमुद्दिष्टं ज्योतिर्नक्षत्रमुच्यते ॥ ५५ ॥
55 · p. 103
अनुष्टुप्
ज्योतिश्च गदितो वह्निः काव्येषु मुनिपुङ्गवैः ।प्रधानं सज्जनं ज्ञेयं प्रधानं श्वेतमुच्यते ॥ ५६ ॥
56 · p. 103
अनुष्टुप्
अब्दः संवत्सरो ज्ञेयो मेघश्चापि क्वचिन्मतः ।बलाहका महामेघाः शिखरी च बलाहकः ॥ ५७ ॥
57 · p. 103
अनुष्टुप्
तोयदं जलदं प्राहुस्तोयदं कथ्यते घृतम् ।जीमूतश्च मतो नागो जीमूतः क्वचिदम्बुदः ॥ ५८ ॥
58 · p. 103
अनुष्टुप्
पौलस्त्यं तु मतं युद्धं पौलस्त्यं पौरुषं विदुः ।शुचिकृद्रजकश्चैव प्रोक्तो नित्यं बुधै रसः ॥ ५९ ॥
59 · p. 103
अनुष्टुप्
पर्जन्यं जलदं प्राहुः पर्जन्यं तु शतक्रतुः ।शिलीमुखाः स्मृता बाणा भ्रमराश्च शिलीमुखाः ॥ ६० ॥
60 · p. 103
अनुष्टुप्
लेखा सीमेति विज्ञेया लेखा चित्रकृतौ मता ।अम्बरीषं क्वचिद्भ्राष्ट्रं क्वचिद्युद्धं निगद्यते ॥ ६१ ॥
61 · p. 103
अनुष्टुप्
पुंस्त्वं चापि मतं युद्धं पुंस्त्वं पौरुषमुच्यते ।विद्वांसोऽरिपवो ज्ञेया विद्वांसस्त्वसवो मताः ॥ ६२ ॥
62 · p. 103
अनुष्टुप्
मायाऽविद्येति विज्ञेया क्वचिन्माया तु सांवरी ।मधु द्राक्षीति विज्ञेया क्वचित्स्यान्मधु माक्षिकम् ॥ ६३ ॥
63 · p. 103
अनुष्टुप्
मधु चाम्बु समाख्यातं सुरा च मधुसंज्ञका ।खं रंध्रमिति विज्ञेयं खं गृहं नभ एव च ॥ ६४ ॥
64 · p. 103
अनुष्टुप्
खमिन्द्रियमिति ख्यातं खं च नक्षत्रमुच्यते ।धार्तराष्ट्रा महाहंसा धृतराष्ट्रसुताः क्वचित् ॥ ६५ ॥
65 · p. 103
अनुष्टुप्
प्रभाकरो मतः सूर्यो वह्निश्चापि प्रभाकरः ।सितं शुक्लमिति ज्ञेयं सितं बद्धं प्रचक्षते ॥ ६६ ॥
66 · p. 103
अनुष्टुप्
असितं कृष्णमित्युक्तं अशितं भक्षितं स्मृतम् ।वभ्रुस्तु नकुलो ज्ञेयः पाण्डवो नकुलस्तथा ॥ ६७ ॥
67 · p. 103
अनुष्टुप्
त्रिशङ्कुमाहुर्मार्जारमृषिश्चापि तथेष्यते ।यमस्तु वायसो ज्ञेयो यमः प्रेताधिपस्तथा ॥ ६८ ॥
68 · p. 103
अनुष्टुप्
लक्ष्मणं सारसं विद्यात्तथा दशरथात्मजम् ।लक्ष्म चन्द्रस्य कार्ष्ण्यं स्याल्लक्ष्म्यः केतुः प्रकीर्तितः ॥ ६९ ॥
69 · p. 103
अनुष्टुप्
केतुश्चापि मतः काव्ये लक्ष्मेति मुनिपुङ्गवैः ।आरुणेयः स्मृतो दक्षो दक्षश्चाचेतसः क्वचित् ॥ ७० ॥
70 · p. 103
अनुष्टुप्
आशुकारी भवेद्दक्षः स्यादली तोमरः स्मृतः ।आदित्यं च रविं विद्याद् दैत्यश्चाप्यदितेः सुतः ॥ ७१ ॥
71 · p. 103
अनुष्टुप्
रोगो रजस्तथा रेणू रजो लोहितमुच्यते ।स्कन्धो नितम्बसंज्ञः स्यान्नितम्बं जघनं तटम् ॥ ७२ ॥
72 · p. 103
अनुष्टुप्
हेम वस्विति विज्ञेयं वसु तेजो निगद्यते ।सारङ्गं चातकं प्राहुः सवर्णे चापि सितासिती ॥ ७३ ॥
73 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रम्भाश्च कदलीः प्राहू रम्भा स्वर्गाङ्गना मता ।ग्रावाणो गिरिजाः प्रोक्ता मेघाश्चापि मनीषिभिः ॥ ७४ ॥
74 · p. 103
अनुष्टुप्
… निगद्यते ।औषणं रसमुद्दिष्टमृतं सत्यमपि क्वचित् ॥ ७५ ॥
75 · p. 104
अनुष्टुप्metre not read in every line
अक्ष आत्मेति विज्ञेयः केचिदाहुर्विभीतकम् ।ज्ञेयमिन्द्रियमक्षं च शाकटं कर्ष एव च ॥ ७६ ॥
76 · p. 104
अनुष्टुप्
अक्षं च पाशकं विद्याद्व्यावहारिकमेव च ।पद्ममिन्द्रयमित्युक्तं पद्मं तामरसं विदुः ॥ ७७ ॥
77 · p. 104
अनुष्टुप्
चैत्यमायतनं प्रोक्तं नीडमायतनं तथा ।पुष्पं लोहितमुद्दिष्टं पुष्पं च कुसुमं तथा ॥ ७८ ॥
78 · p. 104
अनुष्टुप्
वाजी तुरङ्गमो ज्ञेयो वाजी श्येनो विहङ्गमः ।विष्ण्विन्द्रसिंहमण्डूकचन्द्रादित्याँस्तु वानरान् ॥ ७९ ॥
79 · p. 104
अनुष्टुप्
वभ्रुशिवानिलहयान् हरीनिच्छन्ति कोविदाः ।पुरुषध्वजलिङ्गेषु हयभूषणलक्ष्मषु ॥ ८० ॥
80 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
रामशेषावनीन्द्रेषु ललामं नवसु स्मृतम् ।शुक्रा स्मृताऽक्षिदोषोना लवली मञ्जरी तथा ॥ ८१ ॥
81 · p. 104
अनुष्टुप्
वक्रवक्त्रः शुको ज्ञेयः कोकिला वचनप्रिया ।पुलिनं जलविच्छेदः पङ्कजं स्यात्कुशेशयम् ॥ ८२ ॥
82 · p. 104
अनुष्टुप्
रतं पापमिति ज्ञेयं सत्वरं शीघ्रमुच्यते ।पिशङ्गं रोचनाभं स्यान्मेचकस्तिलको मतः ॥ ८३ ॥
83 · p. 104
अनुष्टुप्
ललाटेऽवस्थितं चिह्नं विद्वद्भिस्तिलकं मतम् ।परिचर्यं च कटकं निकषस्तु कषो मतः ॥ ८४ ॥
84 · p. 104
अनुष्टुप्
नानारत्नैरुपचिता मञ्जूष रागिणी स्मृता ।दिनकृद्वाजिसिंहेषु केसरित्वं विधीयते ॥ ८५ ॥
85 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
अव्यक्तो मधुरः शब्दः कल इत्यभिधीयते ।अलातमुल्मुकं ज्ञेयं छेदो नाम भयङ्करः ॥ ८६ ॥
86 · p. 104
अनुष्टुप्
भावः शृङ्गारमाधुर्यं भावोऽवस्थाप्ररूपणम् ।विलासः कामजो दोषस्तदेव ललितं मतम् ॥ ८७ ॥
87 · p. 104
अनुष्टुप्
उत्तमाङ्गं विना देहं कबन्धं चेति शस्यते ।शिरसो वेष्टनं यद्वै तदुष्णीषं निगद्यते ॥ ८८ ॥
88 · p. 104
अनुष्टुप्
आहतं समदीर्घं स्यान्निविडं पीडितोन्नतम् ।मण्डूको भेकसंज्ञः स्याद्वर्षाभूश्चातको मतः ॥ ८९ ॥
89 · p. 104
अनुष्टुप्
शिवा पिङ्गवती ज्ञेया विशालं सबलं मतम् ।दुश्चर्मा शिपिविष्टः स्यात्कर्षकस्तु कृषीबलः ॥ ९० ॥
90 · p. 104
अनुष्टुप्
कन्याजातश्च फानीनो पण्डः क्लीब इति स्मृतः ।उत्कृष्टः श्वसुरः स्यातां म्लिष्टमव्यक्तवाचकम् ॥ ९१ ॥
91 · p. 104
अनुष्टुप्
रदनो हस्तिदन्तः स्याद्दानं कटकसंज्ञितम् ।तोदनं चाङ्कुशं विद्यादालानं हस्तिबन्धनम् ॥ ९२ ॥
92 · p. 104
अनुष्टुप्
घनाघन इति ख्यातः शास्त्रेष्वधिकपौरुषः ।अपाचीनं मनोज्ञं च बुद्धिर्ज्ञेया तु शेमुषी ॥ ९३ ॥
93 · p. 104
अनुष्टुप्
अर्कस्तु पादपे ज्ञेयो नदी स्यात्फेनवाहिनी ।अश्वारोहो मरुद्यानोऽश्वानां हृदये ध्वनिः ॥ ९४ ॥
94 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आक्रन्द इति विज्ञेयः खुराश्च शफसंज्ञिताः ।आममासं भवेत्क्रव्यं पक्वं पिशितमुच्यते ॥ ९५ ॥
95 · p. 104
अनुष्टुप्
शुष्कं तु विरसं ज्ञेयं मृष्टं सरसमुच्यते ।शङ्खजं शुक्तिजं चैव वाराहं तिमिमौक्तिकम् ॥ ९६ ॥
96 · p. 104
अनुष्टुप्
वंशादाशीविषान्नागाज्जीमूताच्च तथाष्टमम् ।लोकज्ञो दक्षिणो ज्ञेयो दक्षिणश्च तुरः स्मृतः ॥ ९७ ॥
97 · p. 104
अनुष्टुप्
आकूतं तु मतं विद्यात्कण्टकं गहनं मतम् ।आननं चाकुले नेत्रे चिकुरं चापि शस्यते ॥ ९८ ॥
98 · p. 104
अनुष्टुप्
पापः श्याम इति प्रोक्तो वभ्रुस्तु कपिलो मतः ।स्थविष्टं स्थावरे चैव दविष्टं दूरमुच्यते ॥ ९९ ॥
99 · p. 104
अनुष्टुप्
परमेष्ठी मतः श्रेष्ठः प्रेम प्रियमुदाहृतम् ।प्रकाशः स्त्रीगृहेरक्तः शैलूष इति संज्ञितः ॥ १०० ॥
100 · p. 104
अनुष्टुप्
पदकृच्चर्म्मकारः स्यान्नापितस्त्वजयः स्मृतः ।लावण्यमाहुर्माधुर्यं चित्रं च शुभकर्म्मजम् ॥ १०१ ॥
101 · p. 104
अनुष्टुप्
व्याधयश्चामयाः प्रोक्ताः पानीयं तु समुच्चयः ।आधयस्तु स्मृताः प्राज्ञैश्चित्तोत्पन्ना उपद्रवाः ॥ १०२ ॥
102 · p. 104
अनुष्टुप्
रंहो वेगः समाख्यातः सत्रं सच्चरितं स्मृतम् ।आलवालं स्मृतं सद्भिरपां वेगनिवारणम् ॥ १०३ ॥
103 · p. 104
अनुष्टुप्
चटकः कलविङ्कः स्यात्तुल्यं सदृशमुच्यते ।किलासं पाण्डुरं ज्ञेयं दोला प्रेङ्खेति शस्यते ॥ १०४ ॥
104 · p. 104
अनुष्टुप्
मन्दिरं नगरं ज्ञेयं निलयं चापि मन्दिरम् ।सहस्रनयनोऽगारिः प्रघनं युद्धमुच्यते ॥ १०५ ॥
105 · p. 104
अनुष्टुप्
पलाशो हरितो वर्ण्णो मेचको नीलपिञ्जरः ।उक्षाणं वृषभं विद्याल्लुलायो महिषो मतः ॥ १०६ ॥
106 · p. 104
अनुष्टुप्
उस्रा वन्ध्या वसा वेहत् पृष्ठोही गर्भिणी हि या ।व्याख्यातो मस्करो वेणुस्त्वचिसारः परिकीर्तितः ॥ १०७ ॥
107 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 स्त्वचि (syllable split)
हिलं कामं शपं चैव रोषमाहुर्मनीषिणः ।कलभोऽल्पवयो नागः कलुषं चाविलं मतम् ॥ १०८ ॥
108 · p. 104
अनुष्टुप्
वृजिनं कुटिलं विद्यात्सम्राट् राजा च भूभुजौ ।रत्नं वज्रं विजानीयात्त्रियामा क्षणदा मता ॥ १०९ ॥
109 · p. 104
अनुष्टुप्
दीर्घं प्रांशु विजानीयात् ह्रस्वं नीचकमुच्यते ।भूरि प्रभूतमुद्दिष्टमभितः सर्ववाचकम् ॥ ११० ॥
110 · p. 104
अनुष्टुप्
पवनश्चानिलो ज्ञेयः पवनश्चाधमो जनः ।प्रियवाक्यो भवेदार्यः स्नातश्च परिकीर्तितः ॥ १११ ॥
111 · p. 104
अनुष्टुप्
आडम्बरश्च पटहो व्यञ्जनं बोधनं मतम् ।विपंची वल्लकी ख्याता वीणा चैव निगद्यते ॥ ११२ ॥
112 · p. 104
अनुष्टुप्
मालती सुमना ज्ञेया सुमना मुदितो जनः ।वल्लरी मञ्जरी ख्याता प्रपाऽप्शाला प्रकीर्तिताः ॥ ११३ ॥
113 · p. 104
अनुष्टुप्
आयुर्निरुच्यते तोयं तेन जीवति पद्मकम् ।तस्य पत्राक्षिमानेन रामो राजीवलोचनः ॥ ११४ ॥
114 · p. 105
अनुष्टुप्
उत्कृत्य कवचं देहादसृग्दग्धं च यत्पुरा ।इन्द्राय दत्तवान्कर्णस्तेन वैकर्त्तनः स्मृतः ॥ ११५ ॥
115 · p. 105
अनुष्टुप्
तीक्ष्णश्चैव प्रचण्डश्च वृको नामानलो मतः ।स पाण्डवस्य उदरे तेन भीमो वृकोदरः ॥ ११६ ॥
116 · p. 105
अनुष्टुप्
यस्य श्रुतिमुखा वाणी पुण्य-श्लोकः स उच्यते ।यः खेदी चानिवर्त्ती च युद्धशौण्डः स उच्यते ॥ ११७ ॥
117 · p. 105
अनुष्टुप्
महासंसर्गसङ्घातं महेष्वासं प्रचक्षते ।स्वविक्रमैस्तापयेच्च परं … यूथं तापयेत् ॥ ११८ ॥
118 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यूथं तापयेद्यस्तं विज्ञेयश्च स यूथपः ।तस्मादपि च यो वर्यः स तु यूथपयूथपः ॥ ११९ ॥
119 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 यू (syllables merged)
सिंहान्नितान्तसौवीरः स नृसिंह इति स्मृतः ।ये हि स्पष्टप्रवक्तारो मतास्ते व्यक्तवादिनः ॥ १२० ॥
120 · p. 105
अनुष्टुप्