कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthanighaṇṭu

अनेकार्थनिघण्टु Anekārthanighaṇṭu

154 verses · text only, tagging comes next

Part 2 (2/2)

यो यमित्थं च नाम्नाति स कीनाश इति स्मृतः ।योऽप्रबुद्धोऽल्पबुद्धिश्च स तु मन्द इति स्मृतः ॥ १२१ ॥
121 · p. 105
अनुष्टुप्
उपकारं तु यो हन्ति स कृतघ्न इति स्मृतः ।हर्षे गर्वे सुखे खेदे वृद्धौ च प्रतिभासते ॥ १२२ ॥
122 · p. 105
अनुष्टुप्
स्नेहभाग्यक्षये चैव मन्दशब्दो निगद्यते ।नातीत्य वर्तते यत्र तदध्यात्मं प्रचक्षते ॥ १२३ ॥
123 · p. 105
अनुष्टुप्
चेतसश्च समाधानं समाधिरिति गद्यते ।सर्वक्लेशविनिर्मुक्तो स हि दान्त इति स्मृतः ॥ १२४ ॥
124 · p. 105
अनुष्टुप्
निर्ममो निरहङ्कारो विज्ञेयः छिन्नसंशयः ।प्रदाता देशकालज्ञः समाधिस्थः स उच्यते ॥ १२५ ॥
125 · p. 105
अनुष्टुप्
मुखरोऽल्पमतिर्यस्तु सक्रोधश्चैव कीटकः ।वृत्तिर्यत्र तु गृह्यानां परोक्षे बहिः तत्क्रिया ॥ १२६ ॥
126 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हिः (wrong syllable)
आहारव्यवहारेषु सा प्रीतिर्निरुपस्करा ।परस्परं स्वदारेषु सतां येषां प्रवर्तते ॥ १२७ ॥
127 · p. 105
अनुष्टुप्
विश्रम्भात्प्रणयाद्वापि सा प्रीतिर्निरुपद्रवा ।यशः ख्यातिरिति प्रोक्तं तद्योगात्प्राहुरुच्यते ॥ १२८ ॥
128 · p. 105
अनुष्टुप्
कीर्तिख्यातियशोयोगाद् भगवन्निति चोच्यते ।प्रियदानेषु यः शुद्धः स उदार इति स्मृतः ॥ १२९ ॥
129 · p. 105
अनुष्टुप्
रजस्वला तु या नारी सा चोदक्या प्रकीर्तिता ।प्रीतिर्भावक्रिये स्वच्छरक्षालिंगितनुं विपुम्? ॥ १३० ॥
130 · p. 105
अनुष्टुप्
तेजो रेतसि दीप्तौ तपो हि स्याद्वृषार्थकः ।योऽन्यजातो हनो जीवः स शरारू इति स्मृतः ॥ १३१ ॥
131 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मिथ्यादृष्टिरहंमानी नास्तिकः सः प्रकीर्त्तितः ।कामः क्रोधश्च वै पूर्वे लोभोऽसत्यं च मध्यमे ॥ १३२ ॥
132 · p. 105
अनुष्टुप्
अन्ते मोहो विषादश्च यस्य ज्ञेयः स षड्वदः ।अमृते जारजः कुण्डो मृते भर्त्तरि गोलकः ॥ १३३ ॥
133 · p. 105
अनुष्टुप्
अनयोर्योऽन्नमश्नाति स कुण्डाशी निगद्यते ।भ्रूणस्त्री गर्भिणी बाला ब्राह्मणी ब्रह्मजीविनी ॥ १३४ ॥
134 · p. 105
अनुष्टुप्
परचित्ते यवीयान् योः ज्येष्ठपत्नीं परामृशन् ।यः पश्चिमश्च ज्येष्ठोऽपि परिचित्तः स उच्यते ॥ १३५ ॥
135 · p. 105
अनुष्टुप्
पुष्पजं क्षोमजं चर्म्मकोशजं भर्म्मजं तथा ।गुणजं च समुद्दिष्टं तद्भेदा वस्त्रजातिषु ॥ १३६ ॥
136 · p. 105
अनुष्टुप्
बिम्बारक्तधरा या स्त्री बिम्बोष्ठीं तां विनिर्द्दिशेत् ।या स्यात् संक्रीडनपरा ललनां तां विनिर्द्दिशेत् ॥ १३७ ॥
137 · p. 105
अनुष्टुप्
दूर्व्वाकाण्डप्रतीकाशा कुंभौ यस्यास्तनू कुचौ ।सर्वरूपविविक्ताङ्गी सा भवेद्वरवर्ण्णिनी ॥ १३८ ॥
138 · p. 105
अनुष्टुप्
लावण्ययुक्ता या नारी ललितां तां विनिर्द्दिशेत् ।या मत्ता मत्तवज्ज्योतिः सा ज्ञेया मत्तकाशिनी ॥ १३९ ॥
139 · p. 105
अनुष्टुप्
भूरिश्च भूरिमुद्दिष्टं अन्नं श्रव इति स्मृतम् ।भूरि श्रवो ददातीह तस्माद्भूरिश्रवो हि सः ॥ १४० ॥
140 · p. 105
अनुष्टुप्
चतुष्पाद्विंशतिभुजो लोहितग्रीव एव च ।निसर्गाद्दारुणात्क्रूराद्रवणाद्रावणः स्मृतः ॥ १४१ ॥
141 · p. 105
अनुष्टुप्
रोषणा या भवेन्नारी भामिनीं तां विनिर्द्दिशेत् ।न्यग्रोधलक्षणं विद्याद्दधाना परिमण्डलम् ॥ १४२ ॥
142 · p. 105
अनुष्टुप्
ताभ्यामुपेता वनिता न्यग्रोधपरिमण्डला ।तत्तुल्ये चाक्षिणी यस्याः सा स्त्री राजीवलोचना ॥ १४३ ॥
143 · p. 105
अनुष्टुप्
वर्णप्रमाणनिर्घोषोऽछिन्नसंपद्भिरन्वितः ।राजीवमन्ये शंसन्ति स्निग्धवर्णं सितासितम् ॥ १४४ ॥
144 · p. 105
अनुष्टुप्
किंचिदुत्तरतद्योगात्सीता राजीवलोचना ।बलिभिर्यास्त्रिभिर्युक्ता शङ्खकण्ठी उदाहृता ॥ १४५ ॥
145 · p. 105
अनुष्टुप्
… जराकराकारं स्यन्दनाग्रमिवाग्रतः ।वस्त्वे … ति तज्ज्ञेयं तस्यैवाग्रं … ॥ १४६ ॥
146 · p. 105
metre not recognised
… त्तं मर्मसंयुक्तं तत्तथालिनमुच्यते ।ग्रहणे धारणे सामे वाहने धर्मसंयुता ॥ १४७ ॥
147 · p. 105
अनुष्टुप्metre not read in every line
रमणे क्रीडने सङ्गे भार्या नाम प्रवर्त्तते ।मूढतायां सविद्यायां सप्ताश्वस्त्वंशुमालिनि ॥ १४८ ॥
148 · p. 105
अनुष्टुप्
विषमाक्षदरा एते ज्ञेयाग्रं तैः विसंस्थिताः ।कोटरस्था इति ज्ञेयाः सर्प्पकीटखगादयः ॥ १४९ ॥
149 · p. 105
अनुष्टुप्
आताम्रपल्लवो यस्तु वृक्षाणामचिरोद्गमः ।… ॥ १५० ॥
150 · p. 105
अनुष्टुप्metre not read in every line
सौकुमार्यं किसलयं कोमलत्वं च तत्स्मृतम् ।शतानां च चतुर्हस्तं नल्वं तदिहसंज्ञितम् ॥ १५१ ॥
151 · p. 105
अनुष्टुप्
कुम्भो वाहः प्रस्थः समं नल्व इति विधीयते ।विपिनं शून्यमित्युक्तं विपिनं गृहमेव च ॥ १५२ ॥
152 · p. 105
अनुष्टुप्metre not read in every line
रुक्म वर्ण्णं च वामं च दर्शनीयार्थवाचकः ।सर्वार्थश्चाप्युवर्णश्च पानीयं शीतमुच्यते ॥ १५३ ॥
153 · p. 105
अनुष्टुप्
नीहारं शीतमित्युक्तं प्रदोषान्तो निशीथकः ।… ॥ १५४ ॥
154 · p. 105
अनुष्टुप्metre not read in every line