कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Avyayārṇava

अव्ययार्णव Avyayārṇava

124 verses · text only, tagging comes next

प्रथमः तरङ्गः

श्रीः

अव्ययार्णवः ।

महेश्वरपदाम्भोजविलसद्भृङ्गमानसः ।जयभट्टारकः श्रीमान् स करोत्यव्ययार्णवम् ॥ १ ॥
1.1 · p. 130
अनुष्टुप्
ये त्वव्ययपरीक्षार्थमनोवृत्तिविचित्रताः ।एतत्परीक्षकास्ते स्युस्तरङ्गत्रयसम्मितम् ॥ २ ॥
1.2 · p. 130
अनुष्टुप्
शब्दार्णवान्तरासक्ता येऽव्ययाः स्युर्मनोहराः ।नानार्थकास्तानेवाद्य कुर्वेऽत्र बहुविस्फुटम् ॥ ३ ॥
1.3 · p. 130
अनुष्टुप्
अरं त्वग्रे च धारायां शिखायां मण्डलेऽपि च ।आरं परसमूहे स्यात्परमार्थस्वरूपयोः ॥ ४ ॥
1.4 · p. 130
अनुष्टुप्
अद्यानन्दमनोभावविकाराकारवस्तुषु ।प्रस्तुताधारपर्यायपराकाष्ठाशरीरिषु ॥ ५ ॥
1.5 · p. 130
अनुष्टुप्
अथानुवाकाद्यारम्भप्रश्नकार्त्स्न्यावधारणे ।अहो विकार आश्चर्ये विस्मये परमाद्भुते ॥ ६ ॥
1.6 · p. 130
अनुष्टुप्
अथोऽप्यवधिवरश्रेष्ठवस्तुवैचित्र्यविस्मृते ।अकं विक्षेप आश्चर्ये विकारस्वप्नयोरपि ॥ ७ ॥
1.7 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अयन् समस्ते सर्वेशे साधारणविशेषयोः ।आयन्नव्यथ आमं तु द्रवसारसकारसाः ॥ ८ ॥
1.8 · p. 130
अनुष्टुप्
आहा वितर्के रम्भायां संरम्भे विस्मयेऽपि च ।इह प्रस्तुतभ्योज्यार्हवर्तमानेषु सम्मतम् ॥ ९ ॥
1.9 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
ईहः संरोधसौभाग्यवैरवैचित्र(त्र्य)वाचकः ।इळ्लाभिप्रायसर्वज्ञबोधकारकभाजने ॥ १० ॥
1.10 · p. 131
अनुष्टुप्
इत्थं पूर्वोक्तपूजार्हचराचरविशोभने ।आदि प्रकरणे मूल्ये पूर्तिहेतुप्रवृत्तिषु ॥ ११ ॥
1.11 · p. 131
अनुष्टुप्
अति प्रकृष्ण(ष्ट)चरमप्रशंसातिक्रमादिषु ।उत प्रकारान्तरे च वितर्कप्रश्नयोरपि ॥ १२ ॥
1.12 · p. 131
अनुष्टुप्
समुच्चये समाहारे सामान्यज्ञानयोरपि ।अतश्चित्रे च हेतौ च विकारपरिमाणयोः ॥ १३ ॥
1.13 · p. 131
अनुष्टुप्
अस्तु विस्तृतपीडार्घ्यासुमतीप्रसवादिषु ।इतः समस्ते तद्भागादिषु मुख्ये च मानसे ॥ १४ ॥
1.14 · p. 131
अनुष्टुप्
कति कासारसामन्तबहुतर्कादिकेऽपि च ।विरले विशदे हेतौ मोहे मायाविकारयोः ॥ १५ ॥
1.15 · p. 131
अनुष्टुप्
कुतो वितर्के कुत्सायां प्रश्ने चित्रप्रकारयोः ।विरोधे मानसे चापि चिन्तास्वारस्यपूर्तिषु ॥ १६ ॥
1.16 · p. 131
अनुष्टुप्
कथं प्रकारे प्रश्ने च सम्भ्रमे सम्भवेऽपि च ।कमठे कठिने मूले चिन्ताविस्तारयोरपि ॥ १७ ॥
1.17 · p. 131
अनुष्टुप्
कमालस्ये च कण्ठे च शिरोऽम्बुयुगलादिषु ।किं वितर्कानुमानार्हप्रश्नस्वामिमहात्मसु ॥ १८ ॥
1.18 · p. 131
अनुष्टुप्
कच्चित्प्रश्ने कामनादिवार्तावारिधिसानुषु ।सम्भावनायां सामर्थ्ये स्वारस्यसरलादिषु ॥ १९ ॥
1.19 · p. 131
अनुष्टुप्
ततः पश्चार्धसामान्यानन्तर्ये च प्रकारके ।तावच्च पादालङ्कारे विकारप्रश्नयोरपि ॥ २० ॥
1.20 · p. 131
अनुष्टुप्
तथा तु तत्प्रकारे स्यात्पश्चात्तापे परिग्रहे ।समीचीने मनोहारेऽप्याश्चर्ये च विमोहने ॥ २१ ॥
1.21 · p. 131
अनुष्टुप्
तस्मादिति क्वचित्कार्यकारणादौ च कथ्यते ।अन्वनुज्ञासम्यगर्थवाचालकठिनेषु च ॥ २२ ॥
1.22 · p. 131
अनुष्टुप्
पुनः सदार्थयोः सम्यगर्थे चापि विबोधने ।विकारे विस्मृते मोहे पर्याप्तिविशदादिषु ॥ २३ ॥
1.23 · p. 131
अनुष्टुप्
मिथोऽन्योन्ये रहस्ये च विकारप्रश्नयोरपि ।विरले विस्तृते चापि विलोलनविशालयोः ॥ २४ ॥
1.24 · p. 131
अनुष्टुप्
शश्वत्समस्तप्रत्यक्षतुल्यवैचित्र्यवारिषु ।भेदानुकम्पमोहादिविस्मयामन्त्रणेषु च ॥ २५ ॥
1.25 · p. 132
अनुष्टुप्
सहैकवारे हर्षे च सम्बुद्धौ च सहार्थके ।स्वस्तिवाचनसामर्थ्यसाधारणविलोलनाः ॥ २६ ॥
1.26 · p. 132
अनुष्टुप्
पश्चात्प्रतीच्यामानन्दे चरमे गेहकालयोः ।परिपाके पराधारे फालशूलादिकेऽपि च ॥ २७ ॥
1.27 · p. 132
अनुष्टुप्
सुष्ठु प्रशंसने चित्ते सौभाग्ये सरलेऽपि च ।सहवासे निवासे च साधारणविलासयोः ॥ २८ ॥
1.28 · p. 132
अनुष्टुप्
बाढं चानुमतौ दार्ढ्ये दृढे हर्षविषादयोः ।वाक्यारम्भेऽनुवाके च पूर्णविस्फुटयोरपि ॥ २९ ॥
1.29 · p. 132
अनुष्टुप्
गाढं मनोहरे फाले दृढे मुख्ये च भेषजे ।बतानुकम्पे प्रश्ने च खेदे मन्त्रे च विस्मये ॥ ३० ॥
1.30 · p. 132
अनुष्टुप्
सन्तोषे विमुखे भेदे गेहे जनपदेऽपि च ।प्रति प्रतिनिधौ मुख्ये चाभिमुख्ये मनोहरे ॥ ३१ ॥
1.31 · p. 132
अनुष्टुप्
वीप्सायां लक्षणे भागे केदारे मोहनेऽपि च ।प्रीतिदाने धारणे च व्यवहारविशेषयोः ॥ ३२ ॥
1.32 · p. 132
अनुष्टुप्
यथाभिमुख्यसादृश्ये योग्ये वीप्साप्रकारयोः ।वृथा निरर्थके व्याधे बोधे माधवचित्रयोः ॥ ३३ ॥
1.33 · p. 132
अनुष्टुप्
नन्वु संज्ञे विलोले च पृच्छानुनयधारणे ।व्यवहारे भाषणे चानुज्ञायां च विबोधने ॥ ३४ ॥
1.34 · p. 132
अनुष्टुप्
नाना बहुविकारे स्यात्साधारणसुदुष्ययोः ।मनात्(क्) स्वल्पे च निन्दायां विहारे च परिच्छदे ॥ ३५ ॥
1.35 · p. 132
अनुष्टुप्
अनुमाने च पादाङ्के पालने मीलनेऽपि च ।हीने सादृश्यमूलार्थपश्चादर्थादिकेऽपि च ॥ ३६ ॥
1.36 · p. 132
अनुष्टुप्
किं नु प्रश्ने वितर्के च विकारे विशदेऽपि च ।सादृश्ये सरसे सारे साधारणविशेषयोः ॥ ३७ ॥
1.37 · p. 132
अनुष्टुप्
उपहीनेऽपि चारम्भेऽप्याचार्यकरणादिके ।अन्तिके वायुचलनेऽप्याचारे च तिरोहिते ॥ ३८ ॥
1.38 · p. 132
अनुष्टुप्
अपि प्रश्ने च शङ्कायां पश्चाद्भागे विहायसि ।गर्हणे कामने चापि चिन्तने च समुच्चये ॥ ३९ ॥
1.39 · p. 132
अनुष्टुप्
अभि सर्वत्र संख्यायां समाप्तौ साधुभाषणे ।साकल्ये च विकासे च सारस्ये च सदागतौ ॥ ४० ॥
1.40 · p. 133
अनुष्टुप्
सामि त्वर्धे जुगुप्सायां विचारे हरणेऽपि च ।आन्दोलने गुरुद्रोहेऽप्यतिस्वच्छे च वस्तुनि ॥ ४१ ॥
1.41 · p. 133
अनुष्टुप्
नाम प्रकाश्ये कुत्सायां सामीप्ये च तिरोहिते ।सम्भाव्येऽङ्गीकृतौ हानौ धिगर्थे मरणेऽपि च ॥ ४२ ॥
1.42 · p. 133
अनुष्टुप्
किमु स्पर्शे च शाखायां भावने च परिच्छदे ।सम्भावनायां मोहे च विकल्पे चापि कथ्यते ॥ ४३ ॥
1.43 · p. 133
अनुष्टुप्
कामं प्रकामे प्रश्ने चानुनये च विचारणे ।अये तु भाषणे हर्षे स्मरणे क्रोधपीडयोः ॥ ४४ ॥
1.44 · p. 133
अनुष्टुप्
हन्त हर्षे च सामान्ये विक्षेपेऽपि विषादने ।वाक्यारम्भे दयायां च दाने त्यागे विहायसि ॥ ४५ ॥
1.45 · p. 133
अनुष्टुप्
इत्याश्चर्ये विषादे च समाप्तौ साधनेऽपि च ।सन्तोषणे साधुवादे हेतौ विशदलोलयोः ॥ ४६ ॥
1.46 · p. 133
अनुष्टुप्
गर्हा विगर्हणे चित्ते वृत्तौ बोधे च निन्दिते ।समुच्चये च शङ्कायां प्रश्नसम्भावनादिषु ॥ ४७ ॥
1.47 · p. 133
अनुष्टुप्
जोषं तु तूष्णीकारे स्यात्सुखे सुखितभावयोः ।मोषं विच्छेदने रिक्ते मोहेष्वाश्चर्यलीलयोः ॥ ४८ ॥
1.48 · p. 133
अनुष्टुप्
मसं तु मलिने रावे कार्ये कालप्रवासयोः ।अलं गु भूषणे पूर्णे तुष्टौ निश्चयकालयोः ॥ ४९ ॥
1.49 · p. 133
अनुष्टुप्
पर्याप्तिवारणे शक्तौ कार्याकार्यविचारणे ।स्वः स्वर्गे च परे लोके समाहारे च साधने ॥ ५० ॥
1.50 · p. 133
अनुष्टुप्
किल माने च कुत्सायां वार्तासम्भाव्ययोरपि ।खलु स्यान्नलये वाक्यालङ्कारेऽनुनयेऽपि च ॥ ५१ ॥
1.51 · p. 133
अनुष्टुप्
जिज्ञासायां च सामर्थ्ये निषेधे च तिरोहिते ।पुरस्त्वग्रे प्रधाने च प्रथमे च कृतेऽखिले ॥ ५२ ॥
1.52 · p. 133
अनुष्टुप्
प्रध्वंसने च निन्दायां वारिदे च विदारणे ।पुरौ निबन्धने मान्ये पूर्वकाले च पूरिते ॥ ५३ ॥
1.53 · p. 133
अनुष्टुप्
पूरकार्थेऽपि सम्मोहे पूज्यालस्यतलेषु च ।एवं पूर्वोक्तसामान्यवक्ष्यमाणप्रकारके ॥ ५४ ॥
1.54 · p. 133
अनुष्टुप्
प्रादुर्जन्मनि सामर्थ्ये चित्ताभोगेऽपि साधने ।प्रकाशने प्रकारे च सम्भाषणविरावयोः ॥ ५५ ॥
1.55 · p. 134
अनुष्टुप्
तिरोगते विकारे च विषादेऽद्भुतहर्षयोः ।अन्तर्धाने तिर्यगर्थे पीडामोहभयेषु च ॥ ५६ ॥
1.56 · p. 134
अनुष्टुप्
परिस्तु परितो रावे भावे दूषणभूषयोः ।लक्षणे लिङ्गने त्यागे परितापे च रोचने ॥ ५७ ॥
1.57 · p. 134
अनुष्टुप्
आरात्तु कठिने दूरे परिहारे विशोधने ।समीपे साधुभावे च सारस्ये च तिरोहिते ॥ ५८ ॥
1.58 · p. 134
अनुष्टुप्
वैशोधने परीक्षायां पारायणविरोधयोः ।पठने पठितो भावे पादपूरणमोक्षयोः ॥ ५९ ॥
1.59 · p. 134
अनुष्टुप्
तु दूरे मलिने भावे कुटीरे कुक्कुटेऽपि च ।स्म स्मिते चरिते सौम्येऽप्यङ्गीकारे च गोहृदि ॥ ६० ॥
1.60 · p. 134
अनुष्टुप्
दिवा सूर्यप्रभायां स्यादिड मासे च चन्द्रके ।पृथग्विभावने भेदे भेदिते मौनचिन्तयोः ॥ ६१ ॥
1.61 · p. 134
अनुष्टुप्
कदाचिदर्थे जातु स्यादखिले परितापने ।एकवारार्चितानन्दविमलेषु च कथ्यते ॥ ६२ ॥
1.62 · p. 134
अनुष्टुप्
साकं सहार्थे साकल्ये सञ्चारे चौलकर्मणि ।भृशं तु चिन्ताकुलिते चिन्तने शैत्यपैत्ययोः ॥ ६३ ॥
1.63 · p. 134
अनुष्टुप्
प्रकर्षणे च प्रहरे प्रहर्षात्यर्थयोरपि ।अहोऽप्याश्चर्यकरुणाविलम्बनविषादके ॥ ६४ ॥
1.64 · p. 134
अनुष्टुप्
तर्हि प्रश्ने चोत्तरार्धे विचारे च विषादने ।मुहुस्तु पुनरर्थे स्यादाधरावे विलोडने ॥ ६५ ॥
1.65 · p. 134
अनुष्टुप्
साक्षात्तुल्ये च साकल्ये प्रत्यक्षे प्रकरेऽपि च ।मङ्क्षु शीघ्रे च सिन्दूरे पिप्पलाञ्जविलोडने ॥ ६६ ॥
1.66 · p. 134
अनुष्टुप्
सत्रा सहार्थे सामर्थ्ये प्रवाहे च परिच्छदे ।मायायां बोधने पक्षे फालाक्षमणिकुण्डले ॥ ६७ ॥
1.67 · p. 134
अनुष्टुप्
मुधाप्यर्थे च वैराग्ये ज्ञानेऽज्ञाने च शङ्करे ।किञ्चित्त्वल्पार्थ आनाये पेलवे चेति केचन ॥ ६८ ॥
1.68 · p. 134
अनुष्टुप्
तूष्णीं मौने च बोधायां संज्ञायां साहसालयोः ।सद्यस्तत्कालसामीप्यविहारविमलेषु च ॥ ६९ ॥
1.69 · p. 134
अनुष्टुप्
दिष्ट्या दैवे दैवभावे सम्प्राप्तौ पूरणेऽपि च ।मास्म हीने परित्यागे विरोधो विकलेऽपि च ॥ ७० ॥
1.70 · p. 135
अनुष्टुप्
यद्यङ्गीकारभावार्थरोहणारोहणेषु च ।दुष्टु विप्रे च पतिते मूर्खे शुनकशेफसोः ॥ ७१ ॥
1.71 · p. 135
अनुष्टुप्
प्राक्पूर्वार्धे गतार्धे च प्राबल्यशलयोरपि ।मरादपि स्यात्तरले सौम्ये सौख्येऽतिभेषके ॥ ७२ ॥
1.72 · p. 135
अनुष्टुप्
यदा तु जायमाने स्याद्यज्ञकर्मविरोधयोः ।यत्तु नीचेऽति चाश्चर्ये परिचारणनिन्दयोः ॥ ७३ ॥
1.73 · p. 135
अनुष्टुप्
एवमन्ये तत्र तत्र प्रसिद्धा अपि केचन ।ऊह्यास्तरङ्गभावार्थमेवं प्रोक्तं मयाधुना ॥ ७४ ॥
1.74 · p. 135
अनुष्टुप्