कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Avyayārṇava

अव्ययार्णव Avyayārṇava

124 verses · text only, tagging comes next

द्वितीयः तरङ्गः

इति श्रीमत्समस्तशब्दान्तरङ्गविद्विचित्रभाषानाथभूषणभूपालाखिलसंसेव्यमानपादारविन्दजगद्विजयप्रभावविराजितजयभट्टकविराजविरचितेऽव्ययार्णवे प्रथमस्तरङ्गः ॥

समा साधारणानुज्ञतीव्रत्वरितवाचकः ।अञ्जसानुमताचार्ये पूरके प्रकटादिके ॥ ७५ ॥
2.75 · p. 135
अनुष्टुप्
प्रभावे चालने माने सुभावे भावलीलयोः ।पुरतस्तु पुरार्थे स्यात्पूर्वार्धे विजयेऽपि च ॥ ७६ ॥
2.76 · p. 135
अनुष्टुप्
पूर्वतः सर्वकार्ये स्यात्पूर्वीये प्रथमेऽपि च ।अमाहेत्यद्भुते खेदे विषादे च तिरोहिते ॥ ७७ ॥
2.77 · p. 135
अनुष्टुप्
परितः सर्वतस्तिर्यगा(ग)भिशस्तौ विलोडने ।साकल्ये सर्वतोभद्रे सामान्याखिलयोरपि ॥ ७८ ॥
2.78 · p. 135
अनुष्टुप्
सर्वत्र सर्वतः सर्वसाकल्याखिलवाचकौ ।अन्तरं तारतम्ये स्यादालापे विग्रहेऽपि च ॥ ७९ ॥
2.79 · p. 135
अनुष्टुप्
अभितः सर्वतश्चित्रे गोवृन्दे निखिलेऽपि च ।तीरे प्रवाहे मूल्ये च व्यवसायस्वरूपयोः ॥ ८० ॥
2.80 · p. 135
अनुष्टुप्
अखिलं तु समस्ते स्यात्केदारादौ विभावसौ ।दयारसे च दाक्षिण्ये निर्यासादौ च भाषणे ॥ ८१ ॥
2.81 · p. 135
अनुष्टुप्
समस्तं तत्त्वसारादौ सर्वतः सङ्गतेऽपि च ।संवादो सरसालापे --चाह्लादमेहयोः ॥ ८२ ॥
2.82 · p. 135
अनुष्टुप्metre not read in every line
पृष्ठतः पृष्ठभागे स्याच्चरमे पतिते मृते ।कारादौ कठिने माषे मूषके कुटिलाक्षणि ॥ ८३ ॥
2.83 · p. 136
अनुष्टुप्
अभीक्ष्णमनिशे सूक्ष्मे तिर्यग्जन्तौ च भेषजे ।मुहुरर्धे(र्थे) प्रकर्षे च प्रहर्षे च सृतावपि ॥ ८४ ॥
2.84 · p. 136
अनुष्टुप्
पुरस्तात्प्रथमे चो(चा)ग्रे चाग्रि दुर्वृत्तनिन्द्ययोः ।पुरार्थे पूर्वभागे च पूर्वदेशेऽपि विश्वपि ॥ ८५ ॥
2.85 · p. 136
अनुष्टुप्
अन्तरं मध्यमे विघ्ने पापात्मनि कुलादिके ।वासुदेवे सुरौ चापि तिन्त्रिणीरस इष्यते ॥ ८६ ॥
2.86 · p. 136
अनुष्टुप्
मालिन्ये परिभाषे च पीडने पापचिन्तने ।मौर्ख्ये मोहेऽपवादे च नारके जाल्पकेऽपि च ॥ ८७ ॥
2.87 · p. 136
अनुष्टुप्
प्रसह्य तु बलात्कारे काठिन्ये मुसलायुधे ।चण्डाले भ्रष्टकृत्ये च पिल्लके कालजेऽपि च ॥ ८८ ॥
2.88 · p. 136
अनुष्टुप्
साम्प्रतं प्रस्तुते साम्ये शश्वदर्थेऽपि कारणे ।कौटिल्ये व्यवहारे च कौलपत्येऽपि कथ्यते ॥ ८९ ॥
2.89 · p. 136
अनुष्टुप्
यथार्थं तु यथान्याय्ये यथास्वे च यथायथे ।यातार्थ्ये यावके लोके वन्दारौ पृथुलेऽपि च ॥ ९० ॥
2.90 · p. 136
अनुष्टुप्
विधुरे कठिने नित्ये चालिन्यां मूलसाधने ।यथायोग्ये यथार्हे च यथाकल्पन इत्यपि ॥ ९१ ॥
2.91 · p. 136
अनुष्टुप्
प्रत्यये तु प्रकरणे प्रारम्भे योगभोगयोः ।एकार्थे प्रतिघाते च पौले पूज्ये च भेषजे ॥ ९२ ॥
2.92 · p. 136
अनुष्टुप्
अवश्यं निश्चये विन्ने मोहने प्रत्यगात्मनि ।तिर्यग्जन्तौ श्मेधसि च योनौ च मदिरागृहे ॥ ९३ ॥
2.93 · p. 136
अनुष्टुप्
अथकिं तु प्रश्नभेदे निराशे निर्गते हते ।विचारे विस्मृते भागे जलजन्तौ विशोधने ॥ ९४ ॥
2.94 · p. 136
अनुष्टुप्
अन्योन्यं मानुषे मायाचिन्तासङ्कल्पकारणे ।परस्परे च धारायां विचारे च परिच्छदे ॥ ९५ ॥
2.95 · p. 136
अनुष्टुप्
पूर्वेद्युः पूर्वदिवसे गते दिने च चन्दने(न्द्रके) ।पातित्ये पतिते चापि मातापितृविघातने ॥ ९६ ॥
2.96 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
परेद्युः परवारे स्यात्परे च परमात्मनि ।मृत्युञ्जये च विकटे विराधे मलिनायसोः ॥ ९७ ॥
2.97 · p. 136
अनुष्टुप्
परश्वस्तु पराराधे पादार्हे च परेऽहनि ।परश्वथे च पशुके विशाले दोषसम्भृते ॥ ९८ ॥
2.98 · p. 137
अनुष्टुप्
तदानीं तु तदा काले तत्काले तादृशेऽपि च ।पौलपत्ये च पाषण्डे पाण्डित्येऽपि च पायसे ॥ ९९ ॥
2.99 · p. 137
अनुष्टुप्
इदानीं प्रस्तुते मूल्ये दधित्थे रामणीयके ।हङ्कृतौ हास्यबीभत्सविहारासारपूर्तिषु ॥ १०० ॥
2.100 · p. 137
अनुष्टुप्
युगपत् पृथुले चैकदा सर्वाखिलबोधिषु ।साकल्ये मलिने शीते श्वेते च मरुभूमिषु ॥ १०१ ॥
2.101 · p. 137
अनुष्टुप्
अधुना वर्तमानार्थे विचारशरदभ्रयोः ।विहारे प्रकृते लीने प्रकृतार्थे विचारणे ॥ १०२ ॥
2.102 · p. 137
अनुष्टुप्
साम्प्रतं प्रस्तुते मूले ध्वनौ माहिष्यवासयोः ।सरसे विरसे वीर्ये स्वभावे कल्पने चले ॥ १०३ ॥
2.103 · p. 137
अनुष्टुप्
अन्ततः सरलार्थे स्यादधुनार्थे विशोधने ।अधे युक्तार्थ आनायेऽखिले चैत्ये च पूलने ॥ १०४ ॥
2.104 · p. 137
अनुष्टुप्
उपांशु तु रहस्ये स्याद्विश्राणनविशालयोः ।विलोकने च सामर्थ्ये विभावादिमनोज्ञयोः ॥ १०५ ॥
2.105 · p. 137
अनुष्टुप्