All kośas › Ekākṣaraśabdamālā
एकाक्षरशब्दमाला Ekākṣaraśabdamālā
131 verses · text only, tagging comes next
स्वराक्षरकाण्डः
[१] हरितालराजामात्यमाधवकृता
एकाक्षरशब्दमाला
वेद-विष्णु-महेशान-कमलेष्वम्बिकेज्ययोः ।अन्तःपुरी-भूषणे च चरणे कारणे रणे ॥ १ ॥
1.1 · p. 196
अनुष्टुप्
अकारः कथितो धीरैरङ्किते गौरवेऽपि च ।असवर्णेऽभिव्याप्ताव परितापे विदाहिनि ॥ २ ॥
1.2 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भि (wrong syllable)
ईषदर्थे विस्मये च सन्तोषा-ऽमर्षयोरपि ।सुखेन आङ् तथा सीम्न(म्नि) चिरविस्मृतिसंस्मृतौ ॥ ३ ॥
1.3 · p. 196
अनुष्टुप्
अल्पवस्तुनि च प्रोक्तो सलिला-ऽऽक्षेपयोरपि ।इकारः कुसुमास्रे च हारे चन्द्रमसः करे ॥ ४ ॥
1.4 · p. 196
अनुष्टुप्
तथा करेणुकट्यन्ते महीभृत्कुहरेऽपि च ।भुजङ्गफणङ्के च मृगे धेनौ च रूप्यके ॥ ५ ॥
1.5 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्षोणीभृत्कुहरे पद्मदलेषु गदितो बुधैः ।ऊकारः क्षत्रिये शम्भौ हरमौलौ हरौ शनौ ॥ ७ ॥
1.7 · p. 196
अनुष्टुप्
तपो-द्रुमाग्र-चन्द्रार्ध-गौरभूषु विलोचने ।ऊकारे रजनीनाथे पुरुषे राजपुत्रके ॥ ८ ॥
1.8 · p. 196
अनुष्टुप्
गले मङ्गलकुम्भे च देवे फणिनि तक्षके ।उपमाने प्राङ्गणे च क्वचिदर्थे प्रवर्द्धके ॥ ९ ॥
1.9 · p. 196
अनुष्टुप्
ऋकारस्तु रिपौ बुद्धिविशेषे कुञ्जरेऽपि च ।शवे देवतटिन्यां च सुरायां देवमातरि ॥ १० ॥
1.10 · p. 196
अनुष्टुप्
भूते भुजङ्ग_स्यां(?) च तथा दनुजमातरि ।भू(त)र्पणे सलिले पद्मे तुहिने तरले धने ॥ १२ ॥
1.12 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (syllables merged)
ऋकारस्तु तथैवोक्तः प्राज्ञैकाक्षरकोविदैः ।लृकारो लिप्तमात्रे(गात्रे) च त्रिदिवेशे वने_ते(?) ॥ १३ ॥
1.13 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
किटिदन्ते हस्तिदन्ते कुलीर-कपिदन्तयोः ।सुपर्णमातरि प्रोक्तो रजस्यपि मनीषिभिः ॥ १४ ॥
1.14 · p. 196
अनुष्टुप्
लॄकारस्तु गिरौ देहे(वे) कृकलासेऽङ्ग-बाणयोः ।मकरीवदनागारे जनन्यां नागमातरि ॥ १५ ॥
1.15 · p. 196
अनुष्टुप्
लीलागमननेत्रेषु रोचनाङ्गेषु च स्मृतौ ।एकारः कथ्यते विष्टौ रजनीशाविधानयोः ॥ १६ ॥
1.16 · p. 196
अनुष्टुप्
हर्म्योदरे दीनमृगे गगने मणिकुट्टिमे ।तेजस्त्रैकालिकाख्यायां संख्यायामपि दृश्यते ॥ १७ ॥
1.17 · p. 196
अनुष्टुप्
ऐकारः सङ्करे हस्ते दन्तागेष्विन्दु(द्र)वारणे ।__लावर्त्तदेशेषु त्वचि स्याच्छिखरे गिरौ ॥ १८ ॥
1.18 · p. 196
अनुष्टुप्metre not read in every line
ओकारो वर्णशीतांशुपङ्कदायाद्म(ब्ज)केषु च (?) ।त्रिदिवेशे पयोवाहजीवस्वसदनेऽपि च ॥ १९ ॥
1.19 · p. 196
अनुष्टुप्
योनौ सरोजतोयार्थे कुड्ये च कथितो बुधैः ।औकारः पर्वते पुत्रे प्रश्ने चौषधिमानयोः ॥ २० ॥
1.20 · p. 196
अनुष्टुप्
विशुद्धकायेऽनन्ते च कलायां रजनीपतौ ।तथा सिद्धविमानार्थे कथ्यते कृतबुद्धिभिः ॥ २१ ॥
1.21 · p. 196
अनुष्टुप्
कार्ये स्याद्वज्रकवचे मुनौ कम्पयुते जये ।सप्तस्वरान्तमाने च सङ्गीतज्ञैरुदाहृतः ॥ २२ ॥
1.22 · p. 196
अनुष्टुप्
अं शब्दोऽञ्जलिपर्याये परस्मिन्नपि तेजसि ।अः शब्दो गिरिजानाथे सिद्धमन्त्रे रमापतौ ॥ २३ ॥
1.23 · p. 196
अनुष्टुप्
दिनेशस्य निशेशस्य ग्रहोपद्रवसम्भवे ।शिखायां चन्द्रबिम्बे च चरणा_धमस्तके ॥ २४ ॥
1.24 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्