कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaraśabdamālā

एकाक्षरशब्दमाला Ekākṣaraśabdamālā

131 verses · text only, tagging comes next

व्यञ्जनकाण्डः

॥ इति हरितालमाधवस्य कृतौ एकाक्षरमालायां स्वराक्षरकाण्डः प्रथमः ॥

कः स्याद्रुते महे बुध्ने मारुते शमने वने ।सितवर्णे मयूरे च हठे चाटुनि वारिदे ॥ २५ ॥
2.25 · p. 196
अनुष्टुप्
वशे च हरिशबरे च प्रकाशे पुंसि कथ्यते ।स्रीलिङ्गे च सुराणां तु कं तु स्याच्च नपुंसके ॥ २६ ॥
2.26 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शब (syllable split)
सलिले जलजे चैव ब्रह्मण्यपि च मस्तके ।शर्वकामेऽपि किंशब्दस्त्रिषु लिङ्गेषु संस्मृतः ॥ २७ ॥
2.27 · p. 196
अनुष्टुप्
अथाऽध्याये निरुक्तेऽपि कु च प्रश्नार्थयोरपि ।कुशब्दस्तूपसर्गे स्यादुर्व्यां विसहितेऽपि च ॥ २८ ॥
2.28 · p. 196
अनुष्टुप्
चक्रे च कैतवे हारे ध्वांक्षे कोपे शिखिन्यपि ।कं स्यात् पक्षे विशेषे च गुप्तकार्ये युधिष्ठिरे ॥ २९ ॥
2.29 · p. 196
अनुष्टुप्
त्रिलिङ्गे का-कुशब्दस्तु ध्वनिवैरूप्यसम्भवे ।गायकानां कण्ठदोषे कै कं क्रें का शिखिस्वने ॥ ३० ॥
2.30 · p. 196
अनुष्टुप्
क _ _ _नभेदे च शास्रभेदे च अन्नदे ।क-को-कशब्दः कुमतः पंनपुं _ _ र्दहाः (?) ॥ ३१ ॥
2.31 · p. 197
metre not recognised
_ _ र्थिने च तादर्थ्ये कप्रत्ययमुदाहृतम् ।खः पुंल्लिङ्गे कृशे _ने स्वर्ग-शून्य-दरा-ऽग्निषु ॥ ३२ ॥
2.32 · p. 197
metre not recognised
कृपणे निश्चये शान्ते रथे विहगनायके ।कर्मेन्द्रिये सुखे क्षत्रे क्ली[बलिङ्गे] विहायसि ॥ ३३ ॥
2.33 · p. 197
अनुष्टुप्
दन्तधावन-संवेद-पुण्यादिफलदेष्वपि ।गशब्दः पुंसि गान्धारे गन्धर्वे गणनायके ॥ ३४ ॥
2.34 · p. 197
अनुष्टुप्
उपमार्थे महीपुत्रे छन्दःसु गुरुवाचके ।स्त्रियां तु सुखशै _ _ गोगत्योरपि गा स्मृता ॥ ३५ ॥
2.35 · p. 197
अनुष्टुप्metre not read in every line
नपुंसके च गलिते नागे च परिकीर्त्तितः ।गौः स्यात् पुंसि निशानाथे क्रतुभेदे प्रभाकरे ॥ ३६ ॥
2.36 · p. 197
अनुष्टुप्
वृषभे मुनिभेदे च स्त्रियां तु धरणीविभौ ।आशायां च सरस्वत्यां सुरभावपि कथ्यते ॥ ३७ ॥
2.37 · p. 197
अनुष्टुप्
स्त्रीपुंसयोस्तु गोशब्द इष्टि-दीधिति-रागिषु ।व्योम्नि स्वर्गे खगे दण्डे गङ्गा तु सुरवाहिनी ॥ ३८ ॥
2.38 · p. 197
अनुष्टुप्
घशब्दः पुंसि वै नागे पराक्रम-निदाघयोः ।घण्टा-हननयोश्चापि वैशाखे च निगद्यते ॥ ३९ ॥
2.39 · p. 197
अनुष्टुप्
घा चाऽऽर्त्तिः किङ्किणी च स्याद् घं नादा-ऽमृतयोर्भवेत् ।ङशब्दो निनदे पुंसि सुरभौ परिकीर्त्यते ॥ ४० ॥
2.40 · p. 197
अनुष्टुप्
ङशब्दः शरपौरार्थे त्रिषु लिङ्गेषु वर्त्तते ।ज(ङ)कारः पुंसि शब्दज्ञे भैरवे देशयोजने ॥ ४१ ॥
2.41 · p. 197
अनुष्टुप्
अनुबन्धानु _ _ _ _ पुव्यसनशायिषु ।पुंसि केत्वञ्जने स्याद्वा त्रिलिङ्गे च भयङ्करे ॥ ४२ ॥
2.42 · p. 197
अनुष्टुप्metre not read in every line
चः पुंलिङ्गे निशानाथे तुरुष्के तस्करे खरे ।चा शोभायां स्त्रियामुक्ता रुधिरे च नपुंसके ॥ ४३ ॥
2.43 · p. 197
अनुष्टुप्
चशब्दस्त्रिषु लिङ्गेषु _ _र्थी व्ययेषु सः (?) ।समुच्चया-ऽपचययोः पक्षान्तरनिरूपणे ॥ ४४ ॥
2.44 · p. 197
अनुष्टुप्metre not read in every line
समासके समाहारे मिथोयोगेऽप्युदाहृतः ।चञ्चुः स्त्रियां पक्षिमुखे चिञ्चा स्यात् तिन्तिणीफले ॥ ४५ ॥
2.45 · p. 197
अनुष्टुप्
चे नदीतोयमित्यर्थ चञ्चु प्रत्ययमिष्यते ।छः पुंसि छ _ _ _ छागे शक्तिधने छगे ॥ ४६ ॥
2.46 · p. 197
अनुष्टुप्metre not read in every line
श्रुते प्रलापे मन्त्रस्य विभागे ह्यक्षरस्य च ।आदानेऽपि चरित्रे च वर्तते पुं-नपुंसके ॥ ४७ ॥
2.47 · p. 197
अनुष्टुप्
सर्जा-निर्मलयोरुक्तः छकारो वाच्यलिङ्गकः ।जः पुमान् विजले मुक्ताविस्तारे मत्सरीजने ॥ ४८ ॥
2.48 · p. 197
अनुष्टुप्
जं तूक्तो वरशब्दे जा स्त्रियां देहविदा(वा)हिनी ।योनौ समुद्रवेलायां पुंनपुंसकमम्बुदे ॥ ४९ ॥
2.49 · p. 197
अनुष्टुप्
कटीविभूषणे पत्न्यां जः स्याज्जनन-जैनयोः ।झः पुंल्लिङ्गे जवे व्योम्नि विचारे च प्रकीर्त्यते ॥ ५० ॥
2.50 · p. 197
अनुष्टुप्
झा स्त्रियां तु सरस्वत्यां झा झिः स्यात्तरुसम्भवे ।पुंलिङ्गे तु ञकारः स्यात् ससी _ _ _ सम्भवे ॥ ५१ ॥
2.51 · p. 197
अनुष्टुप्metre not read in every line
ञं ञूनि(रि)ति प्रतापे च हंसके भ्रमरे मदे ।उपाये ञ निधाने [च] ञं तु स्याद्द्युति-पद्मयोः ॥ ५२ ॥
2.52 · p. 197
अनुष्टुप्
भयङ्कराख्यशब्दे स्यात् त्रिषु लिङ्गेषु कीर्त्तितः ।ञकारोऽपि तथाऽनष्टे ञंञा तीव्रसमीरणे ॥ ५३ ॥
2.53 · p. 197
अनुष्टुप्
टकारः पुंसि विषये विरुद्धे गर्दभस्वने ।त्रिलिङ्गे _हरिगः(?) स्यादुत्ताने मूढरूपके ॥ ५४ ॥
2.54 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
टशब्दः सोऽध्वगे सूनौ करटे धूम-तापयोः ।आवर्त्ते भानुरद्धा (?) च कराटे टुः प्रकीर्त्यतेः ॥ ५५ ॥
2.55 · p. 197
अनुष्टुप्
टा स्त्रियामपि मृज्यायां व्याहृतौ च निगद्यते ।ठशब्दः कथ्यते पुंसि बृहद्ध्वान-महीपयोः ॥ ५६ ॥
2.56 · p. 197
अनुष्टुप्
नपुंसके साहसे स्यात् सम्भवे चन्द्रमण्डले ।त्रिलिङ्ग्यां तु शठे शुन्ये मनोजे कठिनेऽपि च ॥ ५७ ॥
2.57 · p. 197
अनुष्टुप्
ठुकारः कथ्यते पुंसि विषये शङ्करेऽधरे ।हस्त्यश्वानां निनादे च क्षये क्षौद्ररसे धने ॥ ५८ ॥
2.58 · p. 197
अनुष्टुप्
स्रियां तु वाजिशिक्षायां पीडायामपि ठा स्मृता ।भवेन्नपुंसके दुर्गपथे समरुगे तथा ॥ ५९ ॥
2.59 · p. 197
अनुष्टुप्
डशब्दः पुंसि डिण्डीरे हस्ते चापि भगन्दरे ।पिशाचे पथिके काले रागे च परिकीर्त्त्यते ॥ ६० ॥
2.60 · p. 197
अनुष्टुप्
डुशब्दस्तु त्रिलिङ्गे स्याद् गूढे सौम्या-ऽपसद्मयोः ।णशब्दः कण्ठके जारे भैरवे च भगन्दरे ॥ ६१ ॥
2.61 · p. 197
अनुष्टुप्
णा स्त्री रजन्यां जायायां वेदनायामपि स्मृता ।णं संशोध्यजले ज्ञाने गमने परिकीर्त्यते ॥ ६२ ॥
2.62 · p. 197
अनुष्टुप्
णशब्दस्त्रिषु लिङ्गेषु भवेन्निश्चलवस्तुषु ।तकारः पुंसि संयोगे निश्चये विस्तरे समे ॥ ६३ ॥
2.63 · p. 197
अनुष्टुप्
तु स्याद्? वादविधौ क्रोधे ता कृपायां स्त्रियां मता ।पश्चादर्थे विवक्षायां तत् शब्दस्याव्ययं भवेत् ॥ ६४ ॥
2.64 · p. 197
अनुष्टुप्
तद्वत् समुच्चये हेतौ निश्चये चावधारणे ।ततः शब्दोऽनन्तरार्थे तातस्तु जनके पुमान् ॥ ६५ ॥
2.65 · p. 198
अनुष्टुप्
तन्तुः पुंसि गणे स्तोमे स्त्रियां ततिरुदाहृतः ।नपुंसके तन्तुवाद्ये वीणादौ परिकीर्त्यते ॥ ६६ ॥
2.66 · p. 198
अनुष्टुप्
ततं चैव त्रिलिङ्गे स्याद् विस्तृतार्थे प्रदृश्यते ।थः पुमान् सिंह-कल्लोल-विरामेषु महीधरे ॥ ६७ ॥
2.67 · p. 198
अनुष्टुप्
स्यादास्फालनशब्देषु जाले धातौ स्त्रियां च था ।थं नपुंसकलिङ्गे तु भवेद्भयनिवारणे ॥ ६८ ॥
2.68 · p. 198
अनुष्टुप्
त्रिलिङ्ग्यां तु थकारोऽसौ सिता-ऽसित-पृथुष्वपि ।पुमान् धातरि दः शब्दो दा स्त्रियां क्षोणि-दानयोः ॥ ६९ ॥
2.69 · p. 198
अनुष्टुप्
दं नपुंसकलिङ्गे तु भवेत् पुत्र-कलत्रयोः ।दाने सम्बोधने प्रान्ते वैराग्ये चावलोकने ॥ ७० ॥
2.70 · p. 198
अनुष्टुप्
त्रिलिङ्ग्यां मुषिते मूले गृहीते द्रावके शुचौ ।पुं-नपुंसकयोर्बाहौ दोः स्यात् स(ष)ण्डे च दोः स्त्रियाम् ॥ ७१ ॥
2.71 · p. 198
अनुष्टुप्
कृच्छ्रे स्वे निन्दिते दुःखे चोपसर्गे च दुर्मतः ।धः पुमान् सन्निभे स्याद्धं मृदुरेणु-कशेरयोः ॥ ७२ ॥
2.72 · p. 198
अनुष्टुप्
धकारः पुंसि कथितः सानौ मानविशेषके ।धने धान्ये स्त्रियां धा स्याद् भये धूपे च धः पुमान् ॥ ७३ ॥
2.73 · p. 198
अनुष्टुप्
नकारः पुंसि हेरम्बे ना भवेत् पुरुषे तथा ।नकारस्तु स्त्रियां नादो संवाह्यज्ञान _ _ _ ॥ ७४ ॥
2.74 · p. 198
अनुष्टुप्metre not read in every line
नशब्दस्त्रिषु लिङ्गेषु दन्ते चाभिन्न-सूक्ष्मयोः ।प्रस्तुते चापरिश्लेषे शून्ये रिक्तेऽपि च स्मृतः ॥ ७५ ॥
2.75 · p. 198
अनुष्टुप्
ना स्त्रियां संस्तुतौ नावि नौ स्यादेवं निरूप्यते ।नुन्नशब्दस्त्रिलिङ्गेषु प्रेरिते कथ्यते बुधैः ॥ ७६ ॥
2.76 · p. 198
अनुष्टुप्
अव्ययः प्रतिषेधार्थे नकारः स्थिर-निश्चये ।ना तथा प्रतिषे[धे] स्यादुपसर्गे तु निः स्मृतः ॥ ७७ ॥
2.77 · p. 198
अनुष्टुप्
निश्चये च निषधार्थे नूनं स्यात्तर्कनिश्चये ।नानाप्रकारे भेदे स्याद् भवेन्नु त्ववधारणे ॥ ७८ ॥
2.78 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
पुंल्लिङ्गे चोपकारे स्याद् वपने पर्वते क्षणे ।पकारस्तु भवेल्लग्ने पत्रे शास्त्रा-ऽर्चयोरपि ॥ ७९ ॥
2.79 · p. 198
अनुष्टुप्
पा स्त्रियां सङ्गते वारिधार-पान-सुधास्वपि ।नपुंसके पं कनके विपन्ने वाच्यलिङ्गवत् ॥ ८० ॥
2.80 · p. 198
अनुष्टुप्
आप्ये चापे च दैवे स्यात् स्त्रियां पूर्नगरी स्मृता ।प्रपशब्दस्तपुरार्थे(?) बुधैः पुंसि निगद्यते ॥ ८१ ॥
2.81 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पु (wrong syllable)
पम्पा सरोविशेषे स्त्री पापं पुण्येतरेऽपि च ।तद्वति त्रिषु लिङ्गेषु पाऽप्युक्ता शब्दशासने ॥ ८२ ॥
2.82 · p. 198
अनुष्टुप्
झञ्झावर्त्ते फकारः स्यात् प्रासादे प्राङ्गणे रणे ।फकारो गोश्च पूत्कारे पुं स्यादथ च फः स्त्रियाम् ॥ ८३ ॥
2.83 · p. 198
अनुष्टुप्
दिक्षु प्रोक्ते कला-केश-कुटी-धनुःषु कथ्यते ।विशेष्यनिघ्नः फशब्दः परोक्षेऽपि हिते तथा ॥ ८४ ॥
2.84 · p. 198
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
बः पुमान् पुरुषे कुम्भे विकल्पे गगने गुरौ ।कलहे खगभेदे च भेदे चाल्पे च पर्वणि ॥ ८५ ॥
2.85 · p. 198
अनुष्टुप्
विभृत्तिकार (?) बिन्दौ च हलाकृष्टविसर्जने ।बाकारस्तु स्रियां वल्ली-काहली-शृङ्खलास्वपि ॥ ८६ ॥
2.86 · p. 198
अनुष्टुप्
नपुंसके बले पुं स्यादमले वाच्यलिङ्गवत् ।बिः पुमानण्डजे व्योम्नि बिम्बत्वेऽथ नपुंसके ॥ ८७ ॥
2.87 · p. 198
अनुष्टुप्
पलिभेदे पुष्पभेदे मण्डले पुंनपुंसकम् ।भकारः पुंसि जलभे(दे) छदे शम्भौ शिलीमुखे ॥ ८८ ॥
2.88 · p. 198
अनुष्टुप्
सुधीः स्त्रियां च भा दीप्तौ स्याद्दाराणामलङ्कृते ।नपुंसके भं नक्षत्रे गगने मन्त्र-चक्रयोः ॥ ८९ ॥
2.89 · p. 198
अनुष्टुप्
भीः स्त्रीयां साध्वसे भाश्च रश्मौ भूर्भुवि बोध्यते ।भो भो सम्बोधने दृष्टो माधवे च मनीषिणि ॥ ९० ॥
2.90 · p. 198
अनुष्टुप्
पुमान् भकारः श्रीकण्ठे चन्द्रे वह्नौ विभावसौ ।सत्यवादे प्रकोष्टे च तन्वक्षे संयुते तथा ॥ ९१ ॥
2.91 · p. 198
अनुष्टुप्
कपिले पिङ्गले वर्णे बिम्बके भुः प्रकीर्त्यते ।म स्त्रियां मञ्जुकायां च लक्ष्म्यां माने च मातरि ॥ ९२ ॥
2.92 · p. 198
अनुष्टुप्
मदिरा-मदयोः स्तेन-चेलयोरपि दृश्यते ।नपुंसके जने पुं स्यादव्ययं मा निवारणे ॥ ९३ ॥
2.93 · p. 198
अनुष्टुप्
यकारः पुंसि पवने यमे धातरि यातरि ।त्यागे भावे चये लिप्ये विनये कल्पपादपे ॥ ९४ ॥
2.94 · p. 198
अनुष्टुप्
या स्त्रियां यान-मञ्जर्योः शोभा-लक्ष्म्योश्च निर्मिता ।नपुंसके यकारस्तु यशो-रूपकयोर्भवेत् ॥ ९५ ॥
2.95 · p. 198
अनुष्टुप्
यदु पूर्वभवे_ _चाश्वमेधतुरङ्गमे ।यायी गमनशीले च प्रोक्तो रूढे च मिन्त्रिणि ॥ ९६ ॥
2.96 · p. 198
अनुष्टुप्metre not read in every line
रः स्यात् पुमान् शिवे वह्नौ वज्रे कामे रवौ गुरौ ।अनाथे कपिले पिण्डे वीरे पाके तरीश्वरे ॥ ९७ ॥
2.97 · p. 198
अनुष्टुप्
नपुंसके रशब्दस्तु धान्य-रोमाञ्च-कुक्षिषु ।रशब्दस्तु नये बुद्धे भये चैव हि रा स्त्रियाम् ॥ ९८ ॥
2.98 · p. 198
अनुष्टुप्
आशायां च धने व्योम्नि शालायां च गतौ तथा ।उत्तमाङ्गे च वदने रुधिरे चापि कथ्यते ॥ ९९ ॥
2.99 · p. 199
अनुष्टुप्
विशेष्यनिघ्नो रः शब्दो वीरशक्त्यादितीक्ष्णयोः ।नीचसम्बोधने रे स्यादव्ययं परिकीर्त्तितम् ॥ १०० ॥
2.100 · p. 199
अनुष्टुप्
मुनिभेदे रुरुः पुंसि मृगभेदे च कथ्यते ।लः पुंसि रस्त्रि लि स्त्रि स्याल्लं ला लेऽथ नपुंसके (?) ॥ १०१ ॥
2.101 · p. 199
अनुष्टुप्
लकारो लवने लूने वाच्यलिङ्गो भवेदसौ ।मुखनिः सृतनिष्ठ्यूते लाला लीला तु विभ्रमे ॥ १०२ ॥
2.102 · p. 199
अनुष्टुप्
लाल उत्कृष्ट-चलयोर्वाच्यलिङ्गो निगद्यते ।वः पुमान् स्वान्तगे वाते मरणे संयमेऽधरे ॥ १०३ ॥
2.103 · p. 199
अनुष्टुप्
प्रबोधे मदने चैव विहगे गगनेऽपि विः ।शिक्षाभृद्-गन्ध-गतिषु वा स्त्री वं तु नपुंसके ॥ १०४ ॥
2.104 · p. 199
अनुष्टुप्
वशब्दो नयने वाहे अव्ययं स्यात् समुच्चये ।उपमायां विकल्पे च निश्चये च निगद्यते ॥ १०५ ॥
2.105 · p. 199
अनुष्टुप्
उपसर्गे च विश्लेषे पृथगर्थे विकारके ।विलये च विशेषे च विहतौ वि भवेत् तथा ॥ १०६ ॥
2.106 · p. 199
अनुष्टुप्
शकारः पुंसि गिरिशे शिष्ये स्वस्मिन् तनूकृते ।वल्मीके कच्छपे चैव शिकारस्तु सदाशिवे ॥ १०७ ॥
2.107 · p. 199
अनुष्टुप्
शा स्त्रियां वेदपूजायां शान्ते शोभा-वरेण्ययोः ।शक्तौ भक्त्यां रमायां च शकारः शयना-ऽऽशिषोः ॥ १०८ ॥
2.108 · p. 199
अनुष्टुप्
विततावपि शूकारो हिंसायां च निगद्यते ।षकारः पुंसि त्रिदिवे परोक्षे च भवेत्तथा ॥ १०९ ॥
2.109 · p. 199
अनुष्टुप्
षोऽस्त्रियां मधुरायां च षकारोऽथ नपुंसके ।अवसाने गर्भमोहे सुषेणे च निरूप्यते ॥ ११० ॥
2.110 · p. 199
अनुष्टुप्
नित्राणे निवहे चैव रवे चेत्यादिषु स्मृतः ।विशेष्यनिघ्नः षशब्दो श्रेष्ठार्थे समुदाहृतः ॥ १११ ॥
2.111 · p. 199
अनुष्टुप्
सकारः पुंसि साकारे गौरीपुत्रे प्रभञ्जने ।धर्मे हिते च साकारो देहकान्त्यां स्त्रियां मतः ॥ ११२ ॥
2.112 · p. 199
अनुष्टुप्
सुस्तदागर्भमोक्षे च सन्धाने विनिवारणे ।ज्ञाने रथपथे चैव त्रिलिङ्ग इति संस्मृतः ॥ ११३ ॥
2.113 · p. 199
अनुष्टुप्
श्रेष्ठे विकल्पे सं स्याद्धि सद्वृत्ते उपसर्जने ।सीसं नपुंसकं प्रोक्तं धातुभेदे मनीषिभिः ॥ ११४ ॥
2.114 · p. 199
अनुष्टुप्
हकारः पुंसि जनने हरिण्यां हरि-सिंहयोः ।ईश्वरे सावशेषे च रेणु-रोचन-वाजिषु ॥ ११५ ॥
2.115 · p. 199
अनुष्टुप्
हा स्त्रियां त्यजने गत्यां वीणायां च निगद्यते ।नपुंसके हकारस्तु क्षणिते मणिरोचिषि ॥ ११६ ॥
2.116 · p. 199
अनुष्टुप्
धारणौ हीरब्रह्मण्ये शास्रे चाऽऽमन्त्रणेऽपि च ।सुखे विशेषणे चेव त्रिलिङ्ग्यामपि कथ्यते ॥ ११७ ॥
2.117 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
उपमा-हास्ययोश्चैव हाऽव्यये कृष्ट-शोकयोः ।आर्त्ति-सर्जनयोरुक्ता हे च सम्बोधने भवेत् ॥ ११८ ॥
2.118 · p. 199
अनुष्टुप्
हिर्हिते च प्रसिद्धे च ह अङ्गीकरणेषु च ।हाहा हूहूश्च गन्धर्वे हाहो सम्बोधनेऽव्ययम् ॥ ११९ ॥
2.119 · p. 199
अनुष्टुप्
हाहा दैत्याद्भुते भेदे कथ्यते नामशासनात् ।क्षकारः पुंसि दुःस्वप्ने क्षेत्र-राक्षसयोस्तथा ॥ १२० ॥
2.120 · p. 199
अनुष्टुप्
क्षेमे तु विरहे रोधे विशेषे च निगद्यते ।क्षा स्त्री क्षमायां निन्दायां क्षं स्याद्दृश्ये नपुंसके ॥ १२१ ॥
2.121 · p. 199
अनुष्टुप्
क्षेत्रे निर्भर्त्सने चैव क्षोऽव्ययं मञ्जुवाचकः ।
2.98 · p. 199