All kośas › Ekākṣaraśabdamālā
एकाक्षरशब्दमाला Ekākṣaraśabdamālā
131 verses · text only, tagging comes next
संयुक्ताक्षरकाण्डः
॥ इति व्यञ्जनकाण्डः ॥
खशब्दोऽव्ययरूपः स्यात् क्षुरलि(?) प्रश्नवाचक ॥ १२२ ॥
3.122 · p. 199
स्या(ख्या)तौ स्त्रियां तु स्वा(ख्या)शब्दो ग्लौः स्यात् पुंसिकलानिधौ ।ज्ञशब्दः सौम्यविदुषो ज्ञा स्त्री स्यादवबोधने ॥ १२३ ॥
3.123 · p. 199
अनुष्टुप्
ज्याशब्दः कार्मुकगुणे स्त्रीलिङ्गः कथितो बुधैः ।त्राकारः कथितस्त्राणे स्त्रियां द्वार्द्वारि कथ्यते ॥ १२४ ॥
3.124 · p. 199
अनुष्टुप्
द्रुशब्दः कथितो धीरैः पुंल्लिङ्गो वृक्षवाचके ।[सं]ख्याभेदे त्रिशब्दश्च द्विशब्दः परिकीर्त्यते ॥ १२५ ॥
3.125 · p. 199
अनुष्टुप्
द्यौः स्त्रियामम्बरे स्वर्गे धन-कान्त्योर्निगद्यते ।उपसर्गे प्रकारस्तु प्रकृष्टार्थस्य वाचकः ॥ १२६ ॥
3.126 · p. 199
अनुष्टुप्
बिल्ववृक्षे विषे लक्ष्म्यां श्रीशब्दः कथ्यते स्त्रियाम् ।स्वशब्दः स्वात्मनि ज्ञातौ धनेऽपि च नपुंसके ॥ १२७ ॥
3.127 · p. 199
अनुष्टुप्
स्वकीये तु त्रिलिङ्गः स्यादव्ययं स्वस्त्रिविष्टपे ।उषायां जन्तुभेदे च स्त्रीशब्दः कथ्यते स्त्रियाम् ॥ १२८ ॥
3.128 · p. 199
अनुष्टुप्
शृशब्दः शैलकटके पुंनपुंसकयोर्भवेत् ।ह्रीः स्त्रियां कथ्यते व्रीडा ह्योऽव्ययं दिवसे गते ॥ १२९ ॥
3.129 · p. 199
अनुष्टुप्
क्षाशब्दः कथ्यते प्राज्ञे स्त्रीलिङ्गे भूमिवाचके ।अनुसम्बोधने धीरे जिते क्षश्च निगद्यते ॥ १३० ॥
3.130 · p. 199
अनुष्टुप्