All kośas › Ekākṣaranāmamālā
एकाक्षरनाममाला Ekākṣaranāmamālā
153 verses · text only, tagging comes next
Part 1
कालिदासव्यासकृता
एकाक्षरनाममाला
नत्वा शङ्करपादपद्मयुगलं ज्ञानाय हेतोः सखे !नानाग्रन्थविलोकिता पुनरहं ज्ञात्वा मया लिख्यते ।श्रीदामोदरजागरूकवसुधान्तस्याऽऽत्मजो व्यासराट्तेनाऽयं वितनोदभूत सुवये(?) श्रीकालिदासाभिधः ॥ १ ॥
1 · p. 60
शार्दूलविक्रीडितम्
शब्दाब्धेरथ चन्द्रोऽभूत् सप्रकाशकरैर्नृणाम् ।नानार्थकौमुदीं कुर्वे हृद्ध्वान्तध्वंसनाय वै ॥ २ ॥
2 · p. 60
अनुष्टुप्
कवीन्द्रकुमुदो गुच्छं शब्दवारिसदङ्कुरः ।विरच्यतेऽत्र सत्काव्यं रम्यैकाक्षरसङ्ग्रहम् ॥ ३ ॥
3 · p. 60
अनुष्टुप्
विना लिङ्गविशेषेण नान्यत्र पुनरुक्तिता ।नानार्थस्यार्थबाहुल्यात् स्थितिरेकत्र न क्वचित् ॥ ४ ॥
4 · p. 60
अनुष्टुप्
मुख्योऽत्र सङ्ग्रहः शब्दः प्रथमालङ्कृतः कृतः ।परस्त्वर्थान्तरद्योतः सप्तम्यन्त इति स्थितः ॥ ५ ॥
5 · p. 60
अनुष्टुप्
अकाराद्यादिभिः शब्दैः क्रमादेकाक्षराभिधः ।ग्रन्थेऽस्मिन् प्रथमोऽकारो विस्तरं रच्यते मया ॥ ६ ॥
6 · p. 60
अनुष्टुप्