कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaranāmamālā

एकाक्षरनाममाला Ekākṣaranāmamālā

153 verses · text only, tagging comes next

व्यञ्जनवर्गः

इति स्वरवर्गः

को ब्रह्मा-ऽऽत्मा-ऽनिला-ऽर्काऽग्नि-चित्रा-ऽरि-यम-केकिषु ।विष्णुवाहनशब्देऽब्धौ सितकर्णे वसौ द्युतौ ॥ ३४ ॥
2.34 · p. 61
अनुष्टुप्
कलहे को विजानीयात् प्रश्नेऽर्थेऽपि क्वचिन्मतम् ।स्वर्गे चक्रे तथा मित्रे शुद्धेऽर्थे स्मर-कालयोः ॥ ३५ ॥
2.35 · p. 61
अनुष्टुप्
कं शुक्रे रुधिरे मांसे फले प्रश्ने तु कन्दुके ।कं शिरो-ऽम्बु-सुखे क्लीबे निन्दायामाननेऽव्ययम् ॥ ३६ ॥
2.36 · p. 61
अनुष्टुप्
कुर्धात्र्यां कुत्सिते शब्दे पापीयसि निवारणे ।ईषदर्थे कलत्रे स्याद् हीनजातौ तु कुङ्कुमे ॥ ३७ ॥
2.37 · p. 61
अनुष्टुप्
किमभ्युपगमे प्रश्ने प्रस्तावा-ऽऽश्चर्ययोरपि ।पुनरर्थे च निन्दायां रजस्याक्षेप-कुत्सयोः ॥ ३८ ॥
2.38 · p. 61
अनुष्टुप्
वितर्काश्चर्ययोः क्रोधे किलार्थेऽतिशयेऽव्ययम् ।ईषदर्थे भवेद्व्योम्नि किः कीटे स्यात् कियानपि ॥ ३९ ॥
2.39 · p. 61
अनुष्टुप्
कि ब्रह्मण्यामपि प्रश्ने खड्गमुष्टि-कुचाग्रयोः ।विधवाभगनिर्देशे दन्तिनां रेषणेऽपि च ॥ ४० ॥
2.40 · p. 61
अनुष्टुप्
केकिनां नर्त्तने शब्दे किं शब्देऽपि विधीयते ।कु कुत्सिते च पीडायां कूर्म-कुत्सनयोरपि ॥ ४१ ॥
2.41 · p. 61
अनुष्टुप्
का शोभायां कुशब्दे स्यादामिषे शकलेऽपि च ।काकानामेकदेशे स्याद् रजक्यामपि कथ्यते ॥ ४२ ॥
2.42 · p. 61
अनुष्टुप्
कां युगपदि योगे च वारणेऽश्वगतावपि ।कुं घटे कुङ्कुमे पाके सम्बोधने च को भवेत् ॥ ४३ ॥
2.43 · p. 61
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable); pāda 4, syllable 3 ध (wrong syllable)
पक्षिभेदे भवेत् कोपे कठोरे कोऽपि कथ्यते ।कं स्तब्धनिर्जले जीवे जन्तूनां विपदि स्मृतः ॥ ४४ ॥
2.44 · p. 61
अनुष्टुप्
खमिन्द्रिये सुखे व्योम्नि नक्षत्रे क्षेत्रपालने ।कृपा-फलकयोः शून्यबिन्दौ संवेश-रङ्कयोः ॥ ४५ ॥
2.45 · p. 61
अनुष्टुप्
सूर्ये वर्णे नृत्ये सत्ये वह्नौ सम्पदि संविदि ।चन्द्रस्य मण्डले भूमौ बालायाः स्तनयोरपि ॥ ४६ ॥
2.46 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नृ (wrong syllable)
गं गिरा-गात्र-गाथासु गीते स्याद्गश्च गातरि ।गणेशेऽग्नौ च गन्धर्वे गीते स्याद्गमने तु गा ॥ ४७ ॥
2.47 · p. 61
अनुष्टुप्
गीस्तु वाण्यां सरस्वत्यां दुर्गायां ककुभि स्मृता ।गौर्नाके वृषभे चन्द्रे वाग्-भू-दिग्-धेनुषु स्त्रियाम् ॥ ४८ ॥
2.48 · p. 61
अनुष्टुप्
द्वयोस्तु रश्मि-दृग्-बाण-स्वर्ग-वज्रा-ऽम्बु-लोमसु ।गणेशे मूषके सौख्ये स्तुतेश्वर्यां मदे रवौ ॥ ४९ ॥
2.49 · p. 61
अनुष्टुप्
घो घने हनने रुद्रे घोषान्तर्भाव-कुम्भयोः ।निदाघे घटने मेघे घण्टायां सुस्वने च घः ॥ ५० ॥
2.50 · p. 61
अनुष्टुप्
घण्टाद्य-ऽमृतयोर्ना भू-वार्त्ता-घोरेषु घस्त्रिषु ।नूपुरे घं नटांह्रौ स्याद् घा किङ्किण्यां घनस्वने ॥ ५१ ॥
2.51 · p. 61
अनुष्टुप्
ङं क्लीबमञ्जने ना तु भैरवे विषये जने ।चश्चकोरे समाख्यातश्चुह्ल्यां कोपे चतुष्पथे ॥ ५२ ॥
2.52 · p. 61
अनुष्टुप्
दन्तिनीदन्तवलये चकारः पुनरव्ययः ।साकल्ये चान्तरे कोपे समाने कारणे वृतौ ॥ ५३ ॥
2.53 · p. 61
अनुष्टुप्
चः स्याद्वृक्षे स्वरे चौरे चकोरे चन्द्रमस्यपि ।अन्योऽन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ ५४ ॥
2.54 · p. 61
अनुष्टुप्
पक्षान्तरे समूहार्थे हेताववधृतावपि ।अश्वालये तथा तुल्ययोगितायां च कीर्त्तितः ॥ ५५ ॥
2.55 · p. 61
अनुष्टुप्
चा स्त्री शोभा शोणिते तु चं जीवे विमले त्रिषु ।छः सूर्ये छेदके चौरे तथा संवरणे भवेत् ॥ ५६ ॥
2.56 · p. 61
अनुष्टुप्
छं तुच्छन्दसि तडिति क्लीबे छन्दभृतौ पुमान् ।त्रिष्वयं निर्मले माने मलिने भेदकेऽपि च ॥ ५७ ॥
2.57 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
जो जवे विषमे मेरौ स्वर्गे पातरि मत्सरे ।विष्णौ च विगते जीवे जं द्वीप-योषितोः कुचे ॥ ५८ ॥
2.58 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
जूर्विहायसि जवने पिशाच्यां विगतद्युतौ ।जूः स्त्री वाण्यां समाख्याता स्यादम्बा-कीटयोर्भगे ॥ ५९ ॥
2.59 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
जीः कीर्त्यां सबले तूर्णे यवे जेतरि जीर्वचि ।जा नियोगे खले जारे योगे च जनवल्लभे ॥ ६० ॥
2.60 · p. 62
अनुष्टुप्
झः स्यादङ्गे झशब्दस्तु पुमान् दातरि हंसके ।प्रतापे भ्रमरे नष्टे चौरे रुचौ च मारुते ॥ ६१ ॥
2.61 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
झो व्यूहे विषये गर्वे लेपे मूर्ध्नि खरध्वनौ ।महेश्वरे च वाञ्छायां क्लीबं तु भय-पद्मयोः ॥ ६२ ॥
2.62 · p. 62
अनुष्टुप्
ञशब्दो गायने गूढरूपके घर्घरध्वनौ ।ज्ञः प्राज्ञे त्रिषु ना चन्द्रसूनावात्मनि वेधसि ॥ ६३ ॥
2.63 · p. 62
अनुष्टुप्
टः पुमान् कटके भूपे तापेऽर्ककिरणे ध्वनौ ।चापध्वनौ जले वायौ विषये करके कटे ॥ ६४ ॥
2.64 · p. 62
अनुष्टुप्
करङ्के टः कुलालास्त्रे प्रहारे टं पुनर्गवि ।कपाटा-ऽऽवर्त्तयोः सूनौ भू-व्यावृत्त्योस्तु टा स्त्रियाम् ॥ ६५ ॥
2.65 · p. 62
अनुष्टुप्
ठः शङ्करे बृहद्भासे बृहद्ध्वनौ जटा-ऽब्दयोः ।बस्तौ स्वने घटे चित्रे वृषभध्वनि-मेघयोः ॥ ६६ ॥
2.66 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्ध्व (wrong syllable)
ठः पुमान् वृषभे शून्ये हासे त्रासे क्षये ध्वनौ ।शङ्खध्वनौ रौद्ररसे ठं क्लीबे चन्द्रमण्डले ॥ ६७ ॥
2.67 · p. 62
अनुष्टुप्
विधवायां च डाकिन्यां व्रीडावाचि तु ठा स्त्रियाम् ।डो मेढ्रे वेगिते ज्ञाप्ये यामिनीपतिमण्डले ॥ ६८ ॥
2.68 · p. 62
अनुष्टुप्
डः पिशाचे भये काले रागे पान्थे ध्वनौ च ना ।डं क्लीबे डामरे दुर्गे पन्थे डमरुकेऽपि च ॥ ६९ ॥
2.69 · p. 62
अनुष्टुप्
आन्दोलने तु त्रिषु च डशब्दो गायने जडे ।ढक्कायां ढा स्त्रियां क्लीबे राज्ञां तूर्यमुखेऽपि ढम् ॥ ७० ॥
2.70 · p. 62
अनुष्टुप्
त्रिष्वयं निर्गुणे रूढे सौम्ये सव्या-ऽपसव्ययोः ।णशब्दस्तु पुमान् मारे भैरवे कङ्कटे ध्वनौ ॥ ७१ ॥
2.71 · p. 62
अनुष्टुप्
मोचने प्रकटे बन्धे प्रस्तुते निष्फले कणे ।णा स्त्रियां रजनी-शय्या-धेनु-नाशा-कृपासु च ॥ ७२ ॥
2.72 · p. 62
अनुष्टुप्
णं सरोजदले ज्ञाने त्रिषु निस्तुषवस्तुनि ।तशब्दः पुंसि संयोगे निश्चये कोल-पुच्छयोः ॥ ७३ ॥
2.73 · p. 62
अनुष्टुप्
धातुवादविधौ चौरे सत्सङ्ग्रामे तु ता स्त्रियाम् ।करुणायां महालक्ष्म्यां पूजायां वारयोषिति ॥ ७४ ॥
2.74 · p. 62
अनुष्टुप्
नपुंसके तु तं तूणे कर्मार्थ-सूचकार्थयोः ।तुशब्दः क्रीडने स्त्री स्यात् क्रीडके त्वभिधेयवत् ॥ ७५ ॥
2.75 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
तु स्यात् पूर्वनिवृत्तौ च पूर्वस्मादवधारणे ।विलेखने विकल्पार्थे स्यात् पादपूरणेऽव्यये ॥ ७६ ॥
2.76 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
तच्छब्दः प्रकृतार्थोक्तौ त्रिषु हेतौ तथाऽव्ययम् ।तृट् पिपासेहयोः स्त्री स्यात् तृष्णायां कान्ति-लिप्सयोः ॥ ७७ ॥
2.77 · p. 62
अनुष्टुप्
त्विट् प्रभायां च कुत्सायां व्यवसाये महे गिरौ ।तीस्तीव्रे विषमे शोके स्यात् प्राणिनां गतावपि ॥ ७८ ॥
2.78 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णि (wrong syllable)
थः पुंसि भूधरे भारे क्षुद्रे सत्वरवाचके ।थोऽव्यये कुञ्जरे काले क्लीबे भयनिवारणे ॥ ७९ ॥
2.79 · p. 62
अनुष्टुप्
वाच्यलिङ्गस्तु विमले पृथुले श्यामले कचे ।स्त्रीलिङ्गे चोपचारण्यां थीस्ताडवविकारके ॥ ८० ॥
2.80 · p. 62
अनुष्टुप्
निर्भर्त्सने भये पुं स्याद् दो वधे भव-वालयोः ।दः पुंसि बन्धने छेदे दो दाने दायकेऽपि च ॥ ८१ ॥
2.81 · p. 62
अनुष्टुप्
दाने दातरि दा केचिद् दा स्त्रियां दन्ति-दानयोः ।विखण्डने भवेद्दुस्तु दुस्तरा-ऽरण्ययोरपि ॥ ८२ ॥
2.82 · p. 62
अनुष्टुप्
दं क्लीबे पान-वैराग्य-कलत्रेष्ववलोकने ।भेद्यमूलस्त्वयं मूके दुहिते द्रावके शुचौ ॥ ८३ ॥
2.83 · p. 62
अनुष्टुप्
दर्शन-ज्ञान-नेत्रेषु वस्त्र[दृक् स्त्री]द्रष्टरि च त्रिषु ।द्यं खण्डने रिपौ त्यागे गमनस्यावभर्त्सने ॥ ८४ ॥
2.84 · p. 62
अनुष्टुप्metre not read in every line
द्युर्वह्नौ दिवसे द्यो[द्यौस्]तु नाके नभसि बन्धने ।स्याद्दः प्रथमसंयोगे स्त्री दृक् स्याद्दिन-नेत्रयोः ॥ ८५ ॥
2.85 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धः पुंसि धार्मिके धीरे श्वित्रा-ऽश्ववारयोर्वधे ।धं क्लीबे धनदे धीरे ध्याने स्याद्धन-वेश्मनोः ॥ ८६ ॥
2.86 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऽश्व (wrong syllable)
धी पुत्र्यामौषधीमात्रे धी बुद्धौ विबुधेऽपि च ।स्यात् स्त्रियां धा ध्वनौ ध्याने यादे ध्वन्वन्तरौ घटे ॥ ८७ ॥
2.87 · p. 63
अनुष्टुप्
धा विरञ्चौ च बह्वर्थे गुह्यकेशे च मर्कटे ।धूश्च धूल्यां धराकम्पे रथाख्ये भार-कम्पयोः ॥ ८८ ॥
2.88 · p. 63
अनुष्टुप्
हेरम्बे नः पुमान् स्त्री ना नाभौ कल्याण-भूषयोः ।वध्य-सूक्ष्मा-ऽपरिक्लिष्ट-शून्या-ऽभीष्टे पुनस्त्रिषु ॥ ८९ ॥
2.89 · p. 63
अनुष्टुप्
अस्मानस्मभ्यमस्माकं स्थाने नः परीकीर्त्तितः ।निषेधेऽर्थेऽव्यये बन्धौ क्लीबे नं ज्ञान-वाद्ययोः ॥ ९० ॥
2.90 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 री (wrong syllable)
ना निःश्रुते नरे नाभौ नेतरि ज्ञान-बन्धयोः ।न्वव्यये प्रतिषेधे स्यात् स्त्री नौस्तरणि-शालयोः ॥ ९१ ॥
2.91 · p. 63
अनुष्टुप्
निः साक्षेपे तु नित्यार्थे भृशार्थाशयराशिषु ।कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ ९२ ॥
2.92 · p. 63
अनुष्टुप्
अधोभवोपरमयोः क्रीताद्यर्थे नरे नृपे ।सन्निधाने निषधे स्त्री निर्णये तु चये व्यये ॥ ९३ ॥
2.93 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
नी नीड-नीरयोर्नद्यां नो निषेधेऽव्यये हरौ ।ननु प्रश्ने वितर्के च विकल्पेऽनुशये पुनः ॥ ९४ ॥
2.94 · p. 63
अनुष्टुप्
नुगास्येरुहये स्त्रीणां(?) न्यङ् निम्ने नीच-कार्त्स्न्ययोः ।पः पुमान् पवने शैले प्रकाशे कौस्तुभे क्षणे ॥ ९५ ॥
2.95 · p. 63
अनुष्टुप्
शुभे लग्ने पयःपाने प्रौढे च वर्णके पथि ।पानमात्रेऽथ पं क्लीबे हेम्नि पा पान-पात्रयोः ॥ ९६ ॥
2.96 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्त्रीलिङ्गे त्वम्बुधारायां सुधायां सम्मतौ च पाः ।स्त्रीपित्रोः सुनृपे पापे श्रुते पातरि पालके ॥ ९७ ॥
2.97 · p. 63
अनुष्टुप्
वस्त्रे पार्थे प्रयत्ने च पुं च पुर-शरीरयोः ।पूरणे चाथ पूः शब्दः पुरुषे परमात्मनि ॥ ९८ ॥
2.98 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 च (wrong syllable)
फो जल्पे निष्फले लोहे पुष्करे भयरक्षणे ।झञ्झावाते फले फेने शस्त्राग्रे पुंसि फा स्त्रियाम् ॥ ९९ ॥
2.99 · p. 63
अनुष्टुप्
फालायां निष्ठुरोक्तौ च पिण्ड-केका-कुटीषु च ।अनुस्वारे परोक्षे वा फशब्दो वाच्यलिङ्गकः ॥ १०० ॥
2.100 · p. 63
अनुष्टुप्
फूरहेः फूत्कृते शोके स्याद्वातूलकपूरयोः ।बः कुम्भे वरुणे बिन्दौ विकल्पे भे गुरौ मदे ॥ १०१ ॥
2.101 · p. 63
अनुष्टुप्
विभूतिकारे कलहे पक्षिगर्भे च पर्वणि ।मूर्खे बाले कचे व्योम्नि पद्मे स्याद्विगतावपि ॥ १०२ ॥
2.102 · p. 63
अनुष्टुप्
बं शम्भौ च सुवायौ च जले जगति रक्षके ।शङ्वे(?)स्यादौषधीभेदे स्यादौपम्येऽव्यये पुनः ॥ १०३ ॥
2.103 · p. 63
अनुष्टुप्
भः शोभा भ्रमरे भावे शुक्रेंऽशौ जलदे पुमान् ।आकाशे च मयूरे च प्रभावे सूर्य-शब्दयोः ॥ १०४ ॥
2.104 · p. 63
अनुष्टुप्
भा स्त्रियां काहला-वल्ली-शृङ्खलास्वमले त्रिषु ।भा तु व्यलङ्कृते दीप्तौ स्त्रियां भाः किरणे द्युतौ ॥ १०५ ॥
2.105 · p. 63
अनुष्टुप्
क्लीबे भं गगने रात्रौ तारायां पुर-चक्रयोः ।भीः स्त्री भीत्यां खगे पुंसि स्थान-भूम्योस्तु भूः स्त्रयाम् ॥ १०६ ॥
2.106 · p. 63
अनुष्टुप्
मः पुंसि बन्धने पिङ्गे पिङ्गला-ऽऽभीरवर्णयोः ।मौलौ विधौ मले मूले क्लीबे मं मूलके शुभे ॥ १०७ ॥
2.107 · p. 63
अनुष्टुप्
स्यान्मेढ्राग्रमणौ जीवे हरौ मासे च मा पुमान् ।माऽव्ययं प्रतिषेधे स्त्री वारणे जभने रवौ ॥ १०८ ॥
2.108 · p. 63
अनुष्टुप्
मालायां देशभेदे च रमायां स्त्री जने तु मा ।मा स्त्री माने कृतौ वेलान्ते धी-स्त्री-व्यय-वस्तुषु ॥ १०९ ॥
2.109 · p. 63
अनुष्टुप्
अस्मच्छब्दे द्वितीयायां धेनौ षष्ठ्यां च मे पुनः ।बन्धने मूः समाख्यातो मुकुन्दे मौन-मोक्षयोः ॥ ११० ॥
2.110 · p. 63
अनुष्टुप्
योऽस्त्र्यङ्गे निलये वायौ यमे धातरि पातरि ।यशब्दः सर्वनामाख्यस्त्रिषु हेतौ यमव्ययम् ॥ १११ ॥
2.111 · p. 63
अनुष्टुप्
ग्रामे कुले वटे वाते यमम्भसि पशावपि ।या स्त्रियां पान-मञ्जर्योः शोभा-लक्ष्म्योश्च प्रापणे ॥ ११२ ॥
2.112 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्च (wrong syllable)
या स्त्री ख्या तु प्रकथने ज्या मौर्वी-मातृ-भूमिषु ।खट्वाङ्गे याज्ञिके यातौ यो यातरि श्रियि स्त्रियाम् ॥ ११३ ॥
2.113 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
द्युर्ना दिव्यह्नि वह्नौ च स्वर्व्योम्नोर्द्यौर्दिवि स्त्रियाम् ।स्यः प्रहारे भवेत् काले स्यः स्पर्शे त्ववखण्डने ॥ ११४ ॥
2.114 · p. 63
अनुष्टुप्
रः पुमान् पावके कामे क्षये वज्रे शरे व्यये ।रा स्त्रियां हेम्नि शालायां क्रोधेनाशु[सु]ख-ली[लि]प्सयोः ॥ ११५ ॥
2.115 · p. 63
अनुष्टुप्metre not read in every line
राज्ये रागे नृपे रामे राढायां बल-विक्रमे ।रा पूर्णे रमणे क्रूरे रिः स्वसायां[सरि] गिरावपि ॥ ११६ ॥
2.116 · p. 63
अनुष्टुप्metre not read in every line
राः पुनर्विभवे मेघे स्थानके रस्तु रक्षणे ।भीतौ रजसि रङ्के च भये च पुन री भ्रमे ॥ ११७ ॥
2.117 · p. 64
अनुष्टुप्
रं क्लीबे रुधिरे मूर्ध्नि ध्याने व्योमा-ऽण्ड-कुक्षिषु ।वक्त्रे भये च त्रिषु तु विरसे स्त्यान-तीक्ष्णयोः ॥ ११८ ॥
2.118 · p. 64
अनुष्टुप्
स्त्री रुर्जालेच्छयोः कान्तावूर्णायुद्धे नयध्वनौ ।स्त्री कामिनी-वम्रिकयो रूः स्वर्णे कामरूपिणि ॥ ११९ ॥
2.119 · p. 64
अनुष्टुप्
श्रीर्वेषरचना-शोभा-संपत्-सरलशाखिषु ।कन्यायां चारुकामिन्यां सम्पत्सु सरलद्रवे ॥ १२० ॥
2.120 · p. 64
अनुष्टुप्
वाणी-लक्ष्मी-लवङ्गेषु विषे बिल्वेऽथ च त्रिषु ।जटायां द्राक् पूरणे स्त्री व्योम्नि मन्दगतौ स्त्रियाम् ॥ १२१ ॥
2.121 · p. 64
अनुष्टुप्
क्रूः क्रूरे त्वण्डजे व्याधे क्रीरग्नौ रोदने वधे ।लः खण्डेऽलौ तृषादाने इन्द्रे तु चलनेऽनिले ॥ १२२ ॥
2.122 · p. 64
अनुष्टुप्
लिर्लावे लीश्च विश्लेषे कङ्कणे दृढबन्धने ।लाश्चामृते दशायां च लश्चाऽलौ च बिडौजसि ॥ १२३ ॥
2.123 · p. 64
अनुष्टुप्
लाऽदने लूश्च लवने तृणेन्द्र-लवनेषु ला ।वं क्लीबे शत्रुहनने वंशे च गिरिभेदके ॥ १२४ ॥
2.124 · p. 64
अनुष्टुप्
वः पुमान् गत्वरे वायौ संयमे वरुणे स्मरे ।कान्तारेऽग्नौ वधे रुद्रे सान्त्वने चाव्ययः पुनः ॥ १२५ ॥
2.125 · p. 64
अनुष्टुप्
द्वितीयायाश्चतुर्थ्याश्च षष्ठ्याश्चापि बहुत्वके ।विश्वासां विभक्तीनां च द्वित्वे वा(म्) कथितो बुधैः ॥ १२६ ॥
2.126 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
पदार्थे उपमाने च विकल्पे च समुच्चये ।वि श्रेष्ठा-ऽतीतयोर्हेतौ नानार्थे पादपूरणे ॥ १२७ ॥
2.127 · p. 64
अनुष्टुप्
विर्नेत्रे व्योम्नि वारे च परमात्मनि पक्षिणि ।वी विवादे च विज्ञाने वाग्भारत्यां वचस्यपि ॥ १२८ ॥
2.128 · p. 64
अनुष्टुप्
वैश्ये जने पुरीषे विट् क्रमात् पुंसि द्वयोः स्त्रियाम् ।परदाररते काके प्रदेशे कुण्डले कटौ ॥ १२९ ॥
2.129 · p. 64
अनुष्टुप्
शोके स्तब्धे स्वने पुंसि शुः शूद्रे वसुधारके ।शा तु शाते च शाप्तायां शाखा-मरणयोरपि ॥ १३० ॥
2.130 · p. 64
अनुष्टुप्
शा वाल्मिके शिवे कूर्मे भूपे शिश्च तनौ कृतौ ।शिः स्त्रियां देवपूजायां शक्तौ शोभा-वरेण्ययोः ॥ १३१ ॥
2.131 · p. 64
अनुष्टुप्
बाणौघे हनने जीवे शी शोके च क्षये बुधे ।रमायां चाथ शं क्लीबे शास्त्रे प्रेयसि मङ्गले ॥ १३२ ॥
2.132 · p. 64
अनुष्टुप्
कीर्तौ शक्रायुधे स्वर्गे शः परोक्षे त्रिलिङ्गकः ।शं सत्ये शङ्करे शेषे कान्तावदनलोकने ॥ १३३ ॥
2.133 · p. 64
अनुष्टुप्
शमव्ययं सुखार्थे च शिः शम्भु-शिवकान्तयोः ।शिर्बाण-हिंसा-स्वापेषु शीः शये शुर्निशाकरे ॥ १३४ ॥
2.134 · p. 64
अनुष्टुप्
षः स्वर्गे विषये श्रेष्ठे पुंसि षूः प्रसुतावपि ।षः पुनः सारसे इष्टे स्तम्भ-खर्जूरयोरपि ॥ १३५ ॥
2.135 · p. 64
अनुष्टुप्
षा स्त्री रमायां षं क्लीबे गर्भमोक्षा-ऽवसानयोः ।मर्षणे च त्रिलिङ्गस्तु परोक्ष-श्रेष्ठयोरयम् ॥ १३६ ॥
2.136 · p. 64
अनुष्टुप्
सः पुंसि मदने वायौ परोक्ष-सूर्ययोरपि ।सनातने सत्यवति शङ्कायामव्ययस्तु सः ॥ १३७ ॥
2.137 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable)
सङ्गार्थे शोभनार्थे च प्रकृष्टार्थ-समर्थयोः ।प्रथमे तदवस्थाने निवासे सफलेऽपि च ॥ १३८ ॥
2.138 · p. 64
अनुष्टुप्
स्यादलिनिकरे नीरे क्रोधे गर्भापभाषणे ।स्मृतौ लक्ष्म्यां च रामायां देहकान्तौ तु सा स्त्रियाम् ॥ १३९ ॥
2.139 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
सं क्लीबे स्यन्दने मार्गे ज्ञाने ध्याने विचारणे ।सं नक्षत्रे तु सूः शब्दे प्रेरणे गर्भमोक्षणे ॥ १४० ॥
2.140 · p. 64
अनुष्टुप्
सुशब्दः सेवने स्त्री स्याद् भृत्य-पूजनयोरपि ।सत् सत्ये विदुषि श्रेष्ठे साधौ भवति च त्रिषु ॥ १४१ ॥
2.141 · p. 64
अनुष्टुप्
सन्नित्ये शोभने व्योम्नि विद्यमाने च सत्यपि ।स्वादिपूजितयोश्चार्थे स्वः स्वर्ग-परलोकयोः ॥ १४२ ॥
2.142 · p. 64
अनुष्टुप्
स्वमात्मनि धने ज्ञातौ तद्ब्रह्मणि गुणत्रये ।हः शङ्करे हरौ हारे हरणे पुलके भटे ॥ १४३ ॥
2.143 · p. 64
अनुष्टुप्
मानविशेषे मन्यौ च नदीतीरे भयङ्करे ।हो हर्षे वायुपुत्रे स्यात् सम्बुद्धौ पादपूरणे ॥ १४४ ॥
2.144 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न (wrong syllable)
गजे प्रचेतसि स्त्री तु हा त्यागे गीत-बाणयोः ।हि हेतौ पादपूर्तौ तु विशेषेऽप्यवधारणे ॥ १४५ ॥
2.145 · p. 65
अनुष्टुप्
रोषोक्ति-स्फुटयोर्हा च हास्ये विषाद-विस्मयोः[ये] ।ही हेतौ वह्नि-स्वल्पे च परप्रश्न-वितर्कयोः ॥ १४६ ॥
2.146 · p. 65
metre not recognised
हे हेतावपि सम्बुद्धौ हं खेदे शे[रो]षभाषणे ।हं क्लीबमस्त्र-मुखयोः क्वणिते मणिरोचिषि ॥ १४७ ॥
2.147 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परब्रह्मा-ऽऽमन्त्रणयोर्हाश्च प्रोन्मत्त-हास्ययोः ।हूमव्ययः परिप्रश्ने वितर्के पवने तु हौ ॥ १४८ ॥
2.148 · p. 65
अनुष्टुप्
हे कुत्सायां तथा है तु हू तु सम्बोधने तु हौ ।क्षो राक्षसे क्षमे क्षेत्रे क्षेत्रपाले नृपे नरे ॥ १४९ ॥
2.149 · p. 65
अनुष्टुप्
क्षः संरोधे विषौ भक्ष्ये क्षेमे दुःखप्रिये धने ।क्ष्मा स्त्री माऽथाप्यनिन्दायां प्रत्यवाये च पुस्तके ॥ १५० ॥
2.150 · p. 65
अनुष्टुप्
नवोढाया भगे शूचौ क्षं क्लीबे क्षिप्र-दक्षयोः ।क्षो मसृणे त्रिलिङ्गस्तु परोक्ष-क्षेत्रयोरपि ॥ १५१ ॥
2.151 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सृ (wrong syllable)
क्षिः क्षये च तथा क्षिप्रे शब्दा ये द्व्यक्षरादयः ।स्वरान्ता व्यञ्जनान्ताश्च ज्ञेया ग्रन्थान्तराच्च ते ॥ १५२ ॥
2.152 · p. 65
अनुष्टुप्

इति व्यञ्जनवर्गः

प्रह्लादपुरसम्भूतो दामोदरोऽभवत् पुरा ।ग्रन्थकर्त्ताऽभवत् तस्मात् कालिदासाभिधः कविः ॥ १५३ ॥
2.153 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)