कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekākṣaranāmamālā

एकाक्षरनाममाला Ekākṣaranāmamālā

153 verses · text only, tagging comes next

स्वरवर्गः

अकारो ब्रह्म-विष्ण्वीश-कमठेष्वङ्गणे रणे ।गोरथेऽन्तःपुरे हेतौ सूर्येऽद्रावम्बु-मान्ययोः ॥ ७ ॥
1.7 · p. 60
अनुष्टुप्
गरुडेऽवयवे चाथ पूजने प्रेरणेऽप्यजे ।शब्देऽर्दनेऽदने चान्ने निषेधेऽनादरेऽव्यये ॥ ८ ॥
1.8 · p. 60
अनुष्टुप्
सज्जात्ये च निराकारे स्वल्पेऽर्थे ज्ञे तु पुंस्यपि ।ब्राह्मणे शकले वायौ वह्नौ वा शब्द-सोमयोः ॥ ९ ॥
1.9 · p. 60
अनुष्टुप्
विरञ्चावाश्च पुंलिङ्गे त्वा वाक्ये स्मरणेऽव्यये ।बन्धुवर्गे तिरस्कारे क्रियायोगेषदर्थयोः ॥ १० ॥
1.10 · p. 60
अनुष्टुप्
कोपे भावे पटे चित्रे दूराह्वाने पितामहे ।मातामहे च सन्तापे मन्मथेऽथ वृथास्मृतौ ॥ ११ ॥
1.11 · p. 60
अनुष्टुप्
अभिव्यक्तावभिव्याप्तौ सीमायां दुःख-खेदयोः ।इरहर्मणिरश्मौ तु संशये बाण-मान्ययोः ॥ १२ ॥
1.12 · p. 60
अनुष्टुप्
हारे करेणुकुक्ष्यन्ते निशाकरकरे स्मरे ।कोपोक्तौ कामबाणे स्यात् पुंसि त्वाश्चर्य-खेदयोः ॥ १३ ॥
1.13 · p. 60
अनुष्टुप्
ईकारः कज्जले लक्ष्म्यां वाण्यां कमलकेसरे ।रसनायां शक्रचापे बाणे बलिनि कन्धरे ॥ १४ ॥
1.14 · p. 60
अनुष्टुप्
पुंलिङ्गेऽव्ययमीश्चैव प्रत्यक्षे दुःखभावके ।प्रकोपे सन्निधौ चौरे नवोढायां भुवि स्वरे ॥ १५ ॥
1.15 · p. 60
अनुष्टुप्
उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरौ ।मात्रायां शेषफूत्कारे शोके सम्बुद्धिषु स्मृतः ॥ १६ ॥
1.16 · p. 60
अनुष्टुप्
रोषोक्त्या-ऽऽमन्त्रणार्थेषु मोक्ष-भावोर्द्ध्वशक्तिषु ।अप्रकाशे भवेत् पुंसि षण्ढेऽव्ययमुदाहृतम् ॥ १७ ॥
1.17 · p. 60
अनुष्टुप्
ऊकारः पुरुषे चन्द्रे राजपुत्रे गलेऽसुरे ।प्राङ्गणोपमयोर्नावकुम्भेऽवनिजरत्नके ॥ १८ ॥
1.18 · p. 60
अनुष्टुप्
ऊकारो बन्धने लोभे विभागे पुंसि चाव्ययम् ।प्रश्ने चाङ्गीकृते पुंस्त्वे पुंसि रक्षण-सूर्ययोः ॥ १९ ॥
1.19 · p. 60
अनुष्टुप्
ऊमव्ययं स्वरे क्लीबे रोषोक्ति-प्रश्नयोरपि ।ऋकारः कुञ्जरे शैले धीभेदे देवमातरि ॥ २० ॥
1.20 · p. 60
अनुष्टुप्
स्वभावे देवनद्यां च सुरायां विवरे दिवि ।अव्यये पुंसि कुत्सायां पालने रक्षणे गुरौ ॥ २१ ॥
1.21 · p. 60
अनुष्टुप्
ॠकारः कुत्सिते सर्पदृष्टौ विगतसम्पदि ।हिम-पद्मा-ऽदिति-स्वर्ग-धन-भूषा-भुजा-ऽम्बुषु ॥ २२ ॥
1.22 · p. 60
अनुष्टुप्
ॠरजे विकलाङ्गे स्याद भगे पंस्यव्ययेऽपि च ।लृकारो दन्तिनां दन्ते करीर-कपिदन्तयोः ॥ २३ ॥
1.23 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वर्गा-ऽदित्योर्लिप्तगात्रे गजे नप्तरि वक्षसि ।लृर्दर्पे योषिति द्रव्ये पुंसि स्यादव्ययेऽपि च ॥ २४ ॥
1.24 · p. 60
अनुष्टुप्
लॄकारः कृकलासे प्लवङ्गेऽक्ष्णि मकरे सुरे ।लीलागतौ लोचनास्थ्नि नागमातरि मातरि ॥ २५ ॥
1.25 · p. 60
अनुष्टुप्
स्याद्धास्याक्ष्यां नवोढायाः कञ्चुके तु लतान्तरे ।एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ ॥ २६ ॥
1.26 · p. 60
अनुष्टुप्
व्योम्न्येकादशसङ्ख्यायां दिनादौ मणिकुट्टिमे ।महीन्द्रे धातरि ज्ञेये साक्षीत्व्रातीषयोर्हरे (?) ॥ २७ ॥
1.27 · p. 60
अनुष्टुप्
ऐकारो दिङ्मुखे पूरे हरे श्रीशिखरे त्वचि ।ओकारः पद्म-कुट्य-ऽम्बु-श्रीद-मेघेन्दु-योनिषु ॥ २८ ॥
1.28 · p. 61
अनुष्टुप्
शक्तौ जने विरञ्चौ स्याद् वेदादौ प्रणवे द्विजे ।अङ्गीकारे तथा ॐ स्यादोँ माङ्गल्ये विशेषणे ॥ २९ ॥
1.29 · p. 61
अनुष्टुप्
ओरूद्धर्वलिङ्ग आहूते त्वव्ययं पुंसि कथ्यते ।औकारस्त्वम्बिकागारे नृपाणां जय-शूरयोः ॥ ३० ॥
1.30 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विशुद्धाङ्गेन्दुकलयोरनन्ते शुद्धपुष्पके ।कुलीने यज्ञपात्रेशे स्यादौ सम्बोधनेऽव्यये ॥ ३१ ॥
1.31 · p. 61
अनुष्टुप्
अं शवे बकवाक्येऽतिदीर्धेऽञ्जलि-नियोगयोः ।सप्तस्वरान्तमाने च परंज्योतिषि च स्मृतः ॥ ३२ ॥
1.32 · p. 61
अनुष्टुप्
अः शिवायां सिद्धमन्त्रे प्रग्रहेऽर्के रथार्वणि ।चित्रे कुर्कुटमूर्द्धेन्दुबिम्बे ब्रह्मेश-विष्णुषु ॥ ३३ ॥
1.33 · p. 61
अनुष्टुप्