All kośas › Ekavarṇārthasaṅgraha
एकवर्णार्थसङ्ग्रह Ekavarṇārthasaṅgraha
62 verses · text only, tagging comes next
स्वरवर्णकोषः
स्वरवर्णकोषः ।
अः श्रीपतौ वर्ततेऽथो स्वल्पार्थप्रतिषेधयोः ।अभावेऽप्यनुकम्पायामनव्ययमुदीरितम् ॥ ३ ॥
1.3 · p. 30
अनुष्टुप्
आब्रह्मणश्चाव्ययं तु स्मृतौ वाक्ये समुच्चये ।सीमायामपि कारुण्यस्वल्पार्थाभिविधिष्वपि ॥ ४ ॥
1.4 · p. 30
अनुष्टुप्
उपसर्गाख्य आशब्दः समन्तादीषदर्थयोः ।प्रत्यावृत्तिर्ग्रहादीनां चार्थानां धातुयोगतः ॥ ५ ॥
1.5 · p. 30
अनुष्टुप्
आख्यापको भवेदिस्तु कुसुमायुध उच्यते ।इ अव्ययं रुषोक्तौ स्याद् भेदानुकम्पयोरपि ॥ ६ ॥
1.6 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
ई लक्ष्म्यां स्यादव्ययं तु विषादे करुणारुषोः ।उः शिवे स्यादव्ययं तु अनुकम्पानियोगयोः ॥ ७ ॥
1.7 · p. 30
अनुष्टुप्
सम्बोधनरुषोक्तौ च पादपूरण इष्यते ।ऊ रक्षायामव्ययं तु वाक्यारम्भानुकम्पयोः ॥ ८ ॥
1.8 · p. 31
अनुष्टुप्
ऋकारो देवताम्बायामव्ययं वाक्यनिन्दयोः ।ऋर्दैत्यजननी वाक्यकुत्सयोर्ऋ तु अव्ययम् ॥ ९ ॥
1.9 · p. 31
अनुष्टुप्
ऌकारो देवयोनिः स्यात् ॡर्माता सद्भिरुच्यते ।एर्विष्णुः स्यादव्ययं तु स्मृत्यामन्त्रणहूतिषु ॥ १० ॥
1.10 · p. 31
अनुष्टुप्
ऐः शम्भुः स्यादव्ययं तु स्मृत्यामन्त्रणहूतिषु ।ओकारः स्यादब्जयोनिरव्ययं स्मरणे तथा ॥ ११ ॥
1.11 · p. 31
अनुष्टुप्
आह्वाने चानुकम्पायां तथा सम्बोधने मतम् ।औरन्ते स्यादव्ययं तु हूतौ सम्बोधनेऽपि च ॥ १२ ॥
1.12 · p. 31
अनुष्टुप्
अं भवेत् परमं ब्रह्म अः स्याद्विष्णुत्रिनेत्रयोः ।
1.11 · p. 31