कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekavarṇārthasaṅgraha

एकवर्णार्थसङ्ग्रह Ekavarṇārthasaṅgraha

62 verses · text only, tagging comes next

व्यञ्जनवर्णकोषः

इति स्वरवर्णकोषः ।

अथ व्यञ्जनवर्णकोषः ।

कः पुमान् ब्रह्मवाय्वात्मसूर्याग्नियमबर्हिषु ॥ १३ ॥
2.13 · p. 31
दक्षप्रकाशयोः कं तु शीर्ष वारिणि शर्मणि ।कुर्धरित्री स्त्रियामुक्ता क्वव्ययं पापकुत्सयोः ॥ १४ ॥
2.14 · p. 31
अनुष्टुप्
निवारणे विनिर्दिष्टमीषदर्थे च कोविदैः ।खमाकाशेन्द्रियक्षेत्रदेवलोकेषु शर्मणि ॥ १५ ॥
2.15 · p. 31
अनुष्टुप्
संवेदने शून्यबिन्दौ प्रकाशपूरयोर्मतम् ।गो गणेशे गन्धवाहे गन्धर्वे गतिगानयोः ॥ १६ ॥
2.16 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
गा गाथायां गदायां तु गौः पुमान् वृक्षवज्रयोः ।स्वर्गे रश्मौ चन्द्रमसि स्त्रियां तु दिशि वाचि च ॥ १७ ॥
2.17 · p. 31
अनुष्टुप्
दृक् सोरभेयी बाणेषु सलिले धरणावपि ।घो घण्टायां मतो घं तु गर्हणे बन्धनेऽपि च ॥ १८ ॥
2.18 · p. 31
अनुष्टुप्
घा किङ्किण्यां हतौ चोक्ता घुर्ध्वनौ परिकीर्तिता ।ङः भैरवो विनिर्दिष्टस्तथैव विषयस्पृहा ॥ १९ ॥
2.19 · p. 31
अनुष्टुप्
चश्चौरश्चन्द्रमाश्चोक्तः चं चक्रे चन्दने स्मृतम् ।चाव्ययं स्यात् समाहारेऽप्यन्योन्यार्थे समुच्चये ॥ २० ॥
2.20 · p. 31
अनुष्टुप्
अन्वाचये तथा पादपूरणेऽप्यवधारणे ।पक्षान्तरेऽपि छं तु स्यात् छेदने त्रिषु निर्मले ॥ २१ ॥
2.21 · p. 31
अनुष्टुप्
जवने तरलेऽप्येवं छा तु वेदध्वनौ मता ।जः स्याज्जेतरि विज्ञाते जवने च प्रयुज्यते ॥ २२ ॥
2.22 · p. 31
अनुष्टुप्
जूः स्त्र्याकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ।झो(झ)ञ्झावात उद्दिष्टस्तथा नष्टोऽपि पण्डितैः ॥ २३ ॥
2.23 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 झो (syllables merged)
ञः स्याद्घर्घरशब्देऽपि गायते शासने दिवि ।टः स्यात् शब्दे कबन्धे च टा पृथिव्यां प्रकीर्तिता ॥ २४ ॥
2.24 · p. 32
अनुष्टुप्
ठः म्यान्महाध्वनौ शून्ये शङ्करे चन्द्रमण्डले ।ठा ध्वनौ डः शिवे त्रासे शब्दे च परिकीर्त्यते ॥ २५ ॥
2.25 · p. 32
अनुष्टुप्
ढो ढक्कायां निर्गुणे च ध्वनिनिर्णययोरपि ।णः प्रकर्षे निवृत्तौ च ज्ञाननिश्चययोरपि ॥ २६ ॥
2.26 · p. 32
अनुष्टुप्
तस्तु सुरे युद्धबद्धवर्गेषु क्रोडपृष्ठयोः ।त्वव्ययं स्यात् प्रशंसायां पक्षान्तरनियोगयोः ॥ २७ ॥
2.27 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सु (wrong syllable)
भेदेऽवधारणे पादपूरणेऽपि समुच्चये ।विनिग्रहे थस्तु शेले थथृ द्वौ हयलक्षणे ॥ २८ ॥
2.28 · p. 32
अनुष्टुप्
दो दाता दं कलत्रं स्यात् दा दाने च्छेददातृषु ।धो धर्मो धर्मराजोऽपि धाता धीरो धनाधिपः ॥ २९ ॥
2.29 · p. 32
अनुष्टुप्
धूर्धूर्त इन्द्रिये कम्पे चिन्तनेऽपि प्रकीर्यते ।नः स्याद्युद्धेऽपि विप्रेऽथो उपमाप्रतिषेधयोः ॥ ३० ॥
2.30 · p. 32
अनुष्टुप्
अव्ययं न समुद्दिष्टं ञानुबन्धस्तु न ध्वनिः ।अभावे च निषेधे च स्वरूपार्थेऽप्यतिक्रमे ॥ ३१ ॥
2.31 · p. 32
अनुष्टुप्
ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः ।अप्राशस्त्येऽप्यव्ययं न निषेधाभावयोः स्मृतम् ॥ ३२ ॥
2.32 · p. 32
अनुष्टुप्
अव्ययं निर्निषेधे स्याद् भृशार्थे संशयेऽपि च ।नित्यार्थे कौशले क्षेपे विरामेऽन्तिकरदानयोः ॥ ३३ ॥
2.33 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
राश्यधोभावविन्यासे मोक्षान्तर्भावबन्धने ।अक्षयेऽप्युपसर्गाख्यं निर्निषधेऽपि निश्चये ॥ ३४ ॥
2.34 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
नीः स्यान्नेतरि नीतौ च नुः स्तुतौ परिकीर्तितः ।अव्ययं नु वितर्के स्यादुपमाप्रश्नयोरपि ॥ ३५ ॥
2.35 · p. 32
अनुष्टुप्
विकल्पे नु नयेऽतीते तथा हेतूपदेशयोः ।नृशब्दः पण्डिते मर्त्ये पुरुषेऽपि प्रयुज्यते ॥ ३६ ॥
2.36 · p. 32
अनुष्टुप्
नोऽव्ययं त्वभावे स्यान्नौर्नौकायां प्रयुज्यते ।पः पातको(के?)ऽपि पवने भवेत् पा पापपानयोः ॥ ३७ ॥
2.37 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
फो झञ्झावाते फुत्कारे दक्षे निष्फलभाषणे ।फिः प्रकोपे मतो बः द्वरुणे वर्वरे घटे ॥ ३८ ॥
2.38 · p. 33
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
इवार्थे त्वव्ययं ब स्यादव्ययं वा समुच्चये ।उपमायां विकल्पे च नानार्थातीतयोरपि ॥ ३९ ॥
2.39 · p. 33
अनुष्टुप्
एवार्थे च वितर्के च विशिष्टे पादपूरणे ।नियोगे निश्चये हेतौ निग्रहे सहने तथा ॥ ४० ॥
2.40 · p. 33
अनुष्टुप्
ईषदर्थव्याप्तिशुद्ध्यालम्बनाभिभवेषु च ।बिः ज्ञानातीतयानार्थश्रेष्ठार्थेषु प्रयुज्यते ॥ ४१ ॥
2.41 · p. 33
अनुष्टुप्
उपसर्गेऽन्वयं बिः स्यान्नञर्थे गमने तथा ।विशेषदानवैरूप्येऽव्ययं बै पादपूरणे ॥ ४२ ॥
2.42 · p. 33
अनुष्टुप्
सम्बोधने चानुनये हेतावप्यवधारणे ।भः स्याद्दैत्यगुरौ भृङ्गे मयूरे भमुडु स्मृतम् ॥ ४३ ॥
2.43 · p. 33
अनुष्टुप्
भा दीप्तौ स्याद्गभस्तौ च भीर्भये समुदीरिता ।भूः स्थानमात्रे भूमौ च तथोत्पत्तौ प्रकीर्तिता ॥ ४४ ॥
2.44 · p. 33
अनुष्टुप्
मः स्याद्ब्रह्मणि चन्द्रे च चन्द्रशेखरमन्त्रयोः ।मं मङ्गलं समुद्दिष्टं मा पद्माविद्ययोर्द्युतौ ॥ ४५ ॥
2.45 · p. 33
अनुष्टुप्
मा स्यान्मातरि माने चाव्ययं मा वारणे तथा ।विकल्पे यो यमे वायौ याने त्यागेऽपि यातरि ॥ ४६ ॥
2.46 · p. 33
अनुष्टुप्
रः पावके च तीक्ष्णे रा दाने ग्रहणे तथा ।रीर्गतो हनने चोक्ता रैशब्दः स्वर्णवित्तयोः ॥ ४७ ॥
2.47 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ल इन्द्रे ह्लादने लास्तु ग्रहणे ली स्मृताश्लिषि ।लूश्छेदेरस्तु वाते स्यात् सान्तोऽपि वाः सुखे गतौ ॥ ४८ ॥
2.48 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
वीः प्रभागमनव्याप्तिक्षेपणेष्वदने मता ।वरुणे वं शकुन्तौ विर्वावै वित्त अव्ययम् ॥ ४९ ॥
2.49 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ओष्ठ्यवं बहवः प्राहुर्दन्त्यं चेति च केचन ।शः शम्भुः शं शुभं प्रोक्तं शीः स्वप्ने परिकीर्तिता ॥ ५० ॥
2.50 · p. 33
अनुष्टुप्
श्वव्ययं पूजने प्रोक्तं शूर्हिंसायां प्रयुज्यते ।षः श्रेष्ठः कीर्तितो धीरैः षूस्तु गर्भविमोचनम् ॥ ५१ ॥
2.51 · p. 33
अनुष्टुप्
सः स्याद्विष्णौ हरे दर्भे सा लक्ष्मीदुर्गयोः स्मृता ।अव्ययं सु समृद्धौ च भृशार्थेऽनुमतावपि ॥ ५२ ॥
2.52 · p. 34
अनुष्टुप्
कृत्स्ने (?) तथैव पूजायां उपसर्गेऽव्ययं तु सु ।अर्चायामप्यनायासे तथातिशय उच्यते ॥ ५३ ॥
2.53 · p. 34
अनुष्टुप्
हः शम्भौ वर्तते शुण्डे तथा कोपनिवारणे ।अव्ययं तु ह सम्बुद्धौ निग्रहे पादपूरणे ॥ ५४ ॥
2.54 · p. 34
अनुष्टुप्
क्षिपायामपि कुत्सायां नियोगे च प्रयुज्यते ।हा शोके स्याद्विषादे च निन्दापीडार्थयोरपि ॥ ५५ ॥
2.55 · p. 34
अनुष्टुप्
हि पादपूरणे प्रश्ने संभ्रमेऽप्यवधारणे ।हेतौ हेतूपदेशे च विशेषासूययोरपि ॥ ५६ ॥
2.56 · p. 34
अनुष्टुप्
ही विषादे विस्मये च दुःखे हेतौ च वर्तते ।हे सम्बोधन आह्वानासूययोश्च प्रयुज्यते ॥ ५७ ॥
2.57 · p. 34
अनुष्टुप्
हैहो चाह्वानसम्बुद्ध्योर्हौ शब्देऽपि तथा मतः ।क्षः सूर्ये क्षत्रिये युद्धे क्षणे मित्रे च वर्तते ॥ ५८ ॥
2.58 · p. 34
अनुष्टुप्
यद्यपि क्षस्त्रिवर्णात्मा तथाऽप्येको निगद्यते ।नामानुरोधात् षान्तोऽपि पृथगेव हि पठ्यते ॥ ५९ ॥
2.59 · p. 34
अनुष्टुप्
ग्रन्थे विश्वप्रकाशादौ महेश्वरमुखैर्बुधैः ।क्षान्ताः पृथङ्निबद्धास्ते षान्तवर्गे तु कैश्चन ॥ ६० ॥
2.60 · p. 34
अनुष्टुप्
ख्यातानामेकवर्णानामर्थानां कियतां कृतः ।संग्रहोऽयं परे त्वर्था ज्ञेयास्तन्त्रान्तरेक्षणात् ॥ ६१ ॥
2.61 · p. 34
अनुष्टुप्