कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हरितकी

haritakī

In 1 kośa: 0 synonym verses, 1 as a meaning of another word.

हरितकी as a meaning in nānārtha verses

  • शब्दरत्नावली अभयाअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38