All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · यान्ताः
इति मान्तवर्गः ॥
यकारो वायुयशसोर्योगे याने च यातरि ।ज्या मातरि क्षितौ मौर्व्यां द्यु क्लीबं गगणे दिने ॥
7.26.1 · p. 256
अनुष्टुप्
अर्थ्यो बुधे जतुन्यर्थ्यं न्याय्ये चाप्यभिधेयवत् ॥अन्त्यो ना मुस्तके नीचे भवेदन्तभवे त्रिषु ।अर्घ्यं वाच्यवदर्घ्यार्थेऽप्यर्घयोग्ये नपुंसकम् ॥
7.26.3 · p. 256
अनुष्टुप्
अन्योऽप्यसदृशे भिन्ने वाच्यलिङ्गोऽपि कुत्रचित् ।अर्य्यः स्वामिनि वैश्ये स्यादास्यं वक्रे स्थितौ स्त्रियाम् ॥इज्याचीयां क्रतौ दाने सङ्गमे स्त्री गुरौ त्रिषु ।इभ्या करेणौ शल्लक्यां स्त्रियागाढ्येऽभिधेयवत् ॥
7.26.4 · p. 256
अनुष्टुप्
कश्यं त्रिषु कशार्हे तु क्लीबं मध्येऽश्वमद्ययोः ।कन्या नारीकुमार्योस्तु राशिभिद्योषधीभिदि ॥
7.26.5 · p. 256
अनुष्टुप्
क्षयः कल्पान्तवेश्मापचयेषु रोगभिद्यपि ।कल्यं क्लीबं प्रभाते स्यात्त्रिषु वाक्श्रुतिवर्जिते ।अपि कल्याणवार्तायां सज्जे स्याद्दक्षारोगयोः ॥
7.26.6 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क्षा (wrong syllable)
उपायवचनेऽपि स्यात्त्रिषु मद्येऽपि च स्त्रियाम् ।कक्ष्या मध्ये कुम्भिवन्धे हर्म्यादीनां प्रकोष्ठके ॥
7.26.7 · p. 257
अनुष्टुप्
तथा बृहतिकायाञ्च काकचिञ्च्यामपि स्त्रियाम् ।काव्यः शुक्रे पुमान् ग्रन्थे क्लीबं स्त्री पूतनाधियोः ॥
7.26.8 · p. 257
अनुष्टुप्
पुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि ।क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् ।कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि ।कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु ।कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् ।गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥
7.26.11 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्य (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
ग्राम्यं क्लीबं स्त्रीकरणे प्राकृताश्लीलयोस्त्रिषु ।गुह्यं रहस्युपस्थे च गुह्यो ना दम्भकूर्मयोः ।गृह्यं क्लीबं ग्रन्थभेदे स्त्री शाखानगरेऽपि च ॥
7.26.12 · p. 257
अनुष्टुप्metre not read in every line
गृहासक्तमृगादौ ना चास्वैरिपक्षयोस्त्रिषु ।गेयं गानेन गेयो ना? गातव्ये गायने त्रिषु ॥गोप्यो ना चेटिकापुत्रे रक्षणीये तु वाच्यवत् ।चव्या स्त्री तु वचायां स्याच्चविकेतु नपुंसकम् ॥चयः समाहृतौ वृन्दे प्राकारमूलबन्धने ।चित्या स्मृता चितौ स्त्री तु चित्यं नृतकचित्यके ॥
7.26.13 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
चैत्यमायतनेऽपि स्यात्पुमानुद्देशभूरुहे ।चोद्यन्तु प्रश्नाद्भुतयोश्चोदनार्हेतु वाच्यवत् ॥
7.26.14 · p. 257
अनुष्टुप्
जया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः ।पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् ।जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु ।जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे ।पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् ।द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥
7.26.17 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ले (syllables merged)
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
7.26.18 · p. 258
अनुष्टुप्metre not read in every line
द्रव्य=भेषजद्रुविकारभव्यभाविन्दस्यु=चौररिपुमहासाहसिकदाय=सोल्लुण्ठभाषाभक्तव्यपितृवस्तुदानहरणस्थानखण्डनदिव्य=लवङ्गचारुदिविभवदिव्या=धात्रीदूष्य=वस्त्रगृहदूषणीयदूत्य=दूतस्वभावभावकर्मन्दैत्य=असुरदैत्या=गन्धकूटीचण्डौषधधन्या=आमलकीधन्य=पुत्रवत्धान्य=व्रीहिधन्याकनीवारधिष्ण्य=गृहशक्तिऋक्षनाट्य=तौर्यत्रिकलास्यताण्डवनित्य=सततशाश्वतपथ्या=हरीतकीपथ्य=हितपथभवपद्य=श्लोकशूद्रपद्या=वर्त्मन्पाक्य=विड्लवणयवक्षार
प्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च ।प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने ।पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् ।पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे ।वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् ।वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥
7.26.19 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 हृद (syllable split)
भयं घोरे प्रतिभये कुसुमे कुब्जकस्य च ।भव्यं त्रिषु भाविनि स्याद् योग्ये च शुभसत्ययोः ॥
7.26.20 · p. 259
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
पुंसि कर्मरङ्गतरौ भव्या करिकणोभयोः ।अस्थनि क्लीबलिङ्गं स्यादस्त्रियां सत्यवित्यपि(?) ॥
7.26.21 · p. 259
अनुष्टुप्metre not read in every line
अथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः ।मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु ।मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥
7.26.22 · p. 259
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
मेध्या स्त्री रोचनारक्तवचयोस्तु शुचौ त्रिषु ।ययुः पुंसि तुरङ्गे स्यादश्वमेधहयेऽपि च ॥
7.26.25 · p. 259
अनुष्टुप्
योग्यः प्रवीणे योगार्हे ह्युपायिशक्तयोस्त्रिषु ।योग्यमृद्धौषधे पुष्ये नाऽन्तिकार्कस्त्रियोः स्त्रियाम् ॥
7.26.26 · p. 259
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
याम्याभरण्यवाच्योश्च याम्योऽगस्त्ये च चन्दने ।रम्यं त्रिषु मनोज्ञे स्याद्रात्रौ स्त्री चम्पके पुमान् ॥
7.26.28 · p. 259
अनुष्टुप्
पटोलमूले क्लीबं स्यान्नदीभेदेऽपि च स्त्रियाम् ।रूप्यं चारौ त्रिषु स्वर्णरजतेऽपि नपुंसकम् ॥
7.26.29 · p. 259
अनुष्टुप्
लयः सङ्गीतसाम्ये स्यात्संश्लेषणविनाशयोः ।लक्ष्यं शरव्ये क्लीबं स्यादपदेशेऽपि कीर्त्यते ॥व्रज्या पर्यटने वर्गे प्रस्थाने संगतेऽपि च ।वाच्यं हीने कुत्सिते स्याद्वचनार्हे तु वाच्यवत् ॥वन्या वनाम्बुसन्दोहे वन्यं बनभवे त्रिषु ।विन्ध्यो व्याधाचलभिदोर्विन्ध्याचलवलीद्रुमे ॥
7.26.30 · p. 259
अनुष्टुप्
वीक्ष्यन्तु विस्मये दृश्ये पुंसि लासकवाजिनोः ।वेश्या स्त्री गणिकायान्तु वेश्यं वेश्यागृहे मतम् ॥
7.26.31 · p. 259
अनुष्टुप्
शल्यं क्ष्वेडे तोमरे च मदनश्वाविदोः पुमान् ।विषायुधभिदोः क्लीबं दुःसहे दुर्वचस्यपि ॥
7.26.32 · p. 259
अनुष्टुप्
शून्यानल्यौषधौ स्त्री तु निर्जनेऽपि च वाच्यवत् ।शयः पाणौ भुजङ्गे च शयनीये च पुंस्यपि ॥
7.26.33 · p. 259
अनुष्टुप्
सह्यः शैलान्तरे पुंसि सोढव्ये वाच्यलिङ्गकः ।आरोग्ये क्लीबलिङ्गं स्यात्साम्ये सुमधुरेऽपि च ॥
7.26.34 · p. 260
अनुष्टुप्
अथ सन्ध्या पितृप्रस्वां युगसन्धिनदीभिदोः ।सत्यं कृतयुगे दिव्ये तथ्ये त्रिषु च तद्वति ॥
7.26.35 · p. 260
अनुष्टुप्
स्मयोऽद्भुते च गर्वे च सव्यं वामप्रतीपयोः ।सायो दिनान्ते बाणे च साध्यो योगभिदि स्मरे ॥
7.26.36 · p. 260
अनुष्टुप्
गणदेवविशेषे ना साधनीयेऽभिधेयवत् ।सूर्या सूर्यप्रियौषध्योः सूर्येऽर्कपर्णसूरयोः ॥स्थेयः पुरोहिते वादपक्षनिर्णेतरि स्मृतः ।सेव्यं त्रिषु च सेवार्हे क्लीबं वीरणमूलके ॥सैन्यं क्लीबं बले सेनासमवेतेऽभिधेयवत् ।सौम्यो ना ज्ञे तिष्वनुग्रे सोमदेवमनोज्ञयोः ॥हार्यस्त्रिषु च हर्त्तव्ये पुमान् विभीतके द्रुमे ।हृदयं हृदि हिते हृज्जे हृत्प्रिये त्रिषु च द्वयोः ॥भरणे स्त्री वृद्धिनामौषधे मन्त्रान्तरे पुमान् ।
7.26.37 · p. 260
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
अनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु ।अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि ।अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् ।अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥आशयः स्यादभिप्रायाधारयोः पनसेऽपि च ।आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे ।उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥उपायः स्यादुपपन्तौ सामभेदादिके पुमान् ।ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥
7.26.38 · p. 260
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
अनय=व्यसनदैवविपत्तिअशुभअत्यय=अतिक्रमदोषविनाशदण्डकृच्छ्रअवध्य=अवधार्हअनर्थकवचस्अव्यय=हरिशब्दभेदनिर्व्ययअहार्य=शैलअहर्त्तव्यअभिख्या=नामन्शोभायशस्आख्यानअभया=हरितकीअभय=वीरणनिर्भयप्रसादअगस्त्य=वङ्गसेनकुम्भोद्भवआशय=अभिप्रायआधारपनसआत्रेय=मुनिआत्रेयी=पुष्पवतीनदीआम्नाय=वेदउपदेशकुलक्रमउदय=उन्नतिदीप्तिमङ्गलपूर्वपर्वतउपाय=उपपत्तिसामभेदादिकऊर्णायु=क्षणभङ्गमेषमेषकम्बल
औचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके ।कषायः पुंसि निर्यासे रसभेदे विलेपने ॥अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु ।कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् ।क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके ।चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥
7.26.39 · p. 260
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुलत्थिकासुभगयोः स्त्रियाभक्षिहिते त्रिषु ।चाम्पेयश्चम्बकस्वर्णकिञ्जल्ककेशरेषु च ॥
7.26.40 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable)
जघन्यं मेहने क्लीबं चरमे गर्हितेऽन्यवत् ।जटायुर्ना पक्षिभेदे गुग्गुलौ च कनीपसि ॥
7.26.41 · p. 261
अनुष्टुप्
जरायुस्तत्र विहगे भवेद्गर्भाशये पुमान् ।तपस्यः फाल्गुणे पुंसि व्रतचर्यास्वपि स्त्रियाम् ॥द्वितीया तिथिपत्न्योः स्त्री पूरणे तु द्वयोस्त्रिषु ।देवयुर्ना सुरे धर्मशीलेऽभिमातृके(?)ऽन्यवत् ॥
7.26.42 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
नादेयी भूमिजम्बां स्त्री जरायाम्बुवेतसे ।नागरङ्गे जयायाञ्च व्यङ्गुष्ठेऽपि च कुत्रचित् ॥निकायो निलये लक्ष्ये सधर्मिप्राणिसंहतौ ।समुच्चये संहतानां स्यात्पुमान् परमात्मनि ॥नेपथ्यं रङ्गवाह्ये स्यादलङ्कारेऽपि च द्वयोः ।प्रणयः प्रसवे प्रेम्णि मोक्षविश्रम्भयोरपि ॥प्रत्ययः प्रथिते ज्ञाने स्यादित्यादियनादिषु ॥
7.26.43 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आचारशपथाधीनच्छिद्रविश्वासहेतुषु ।पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् ।पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् ।प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥
7.26.44 · p. 261
अनुष्टुप्
पयस्यं वाच्यलिङ्गं स्यात्पयोजाते पयोहिते ।दुग्धिका क्षीरिका कोलीस्वर्णक्षीरीष्वपि स्त्रियाम् ।पारुष्यो ना गुरौ क्लीबं दुर्वाक्यपरुषत्वयोः ॥
7.26.45 · p. 261
अनुष्टुप्
पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् ।पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् ।वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः ।भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके ।स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥मलयो ना चलारामदेशेषु स्त्री तथौषधे ।मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च ।अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च ।रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् ।विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि ।विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥
7.26.46 · p. 261
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 द्भ (wrong syllable)
पानीय=सलिलपातव्यपौलस्त्य=धनाधीशदशकण्ठविभीषणवलय=कङ्कणकण्ठरोगवालेय=वलिहितमृदुखरब्राह्मण्य=ब्रह्मवृन्दब्राह्मणत्वभरण्यु=चण्डभानुमृगाङ्कविभावसुभुजिष्य=दासस्वतन्त्रहस्तसूत्रकभुजिष्या=दासीगणिकास्वतन्त्रामलय=अचलआरामदेशमलया=औषधिमङ्गल्य=त्रायमाणामसूरअश्वत्थबिल्वदधिशिवकरमङ्गल्या=रोचनाशुक्लावचाशमीअधःपुष्पीमृगयु=शृगालव्याधपितामहरहस्या=सरिद्भेदरहस्य=गोपनीयविजया=पार्वतीसखीतिथिभेदविजय=जयगाण्डीवधन्वन्विस्मय=दर्पसन्देहआश्चर्यविषय=गोचररूपादिजनपदकान्तादि
विशल्या त्रिपूटादन्तीगुडुच्यग्निशिखासु च ।स्त्रियां विगतशल्ये तु वाच्यलिङ्गन्तु कुत्रचित् ॥
7.26.47 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पू (wrong syllable)
लौहित्यं लोहितत्वे स्यात्क्लीबं पुंसि नदान्तरे ।श्वशुर्यो देवरे श्याले श्यालीनन्दिकयोः स्त्रियाम् ॥शाण्डिल्योऽग्निमुनिभिदोः श्रीफले च भवेत्पुमान् ।शालेयः स्यान्मिसौ पुंसि त्रिषु शाल्योद्भवोचिते ॥
7.26.48 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्नि (wrong syllable)
शीर्षण्यं शीर्षके क्लीबं सुकेशे तु भवेत्पुमान् ।शैलेयं तालपर्ण्यान्तु सैन्धवे शैलजेऽपि च ॥
7.26.49 · p. 262
अनुष्टुप्
पुमान् सिंहे मधुकरे शिलातुल्ये तु वाच्यवत् ।संस्त्यायः पुंसि विस्तारे संस्थानसन्निवेशयोः ॥
7.26.50 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
सन्नयः समवाये ना पृष्ठस्थायिबलेऽपि च ।समयश्च क्रियाकाले निर्देशे भावकालयोः ॥सङ्केतशपथाचारसिद्धान्तधिषणासु च ।सरण्युर्ज्वलने पुंसि वारिवाहे समीरणे ॥
7.26.51 · p. 262
अनुष्टुप्
सामर्थ्यं क्लीबलिङ्गं स्याद्योग्यतायां बलेऽपि च ।सौरभ्यमपि चारुत्बे सौगन्ध्ये गुणगौरवे ॥हिरण्यं शातकुम्भे स्यादक्षये मणिभेदके ।रजते रजसि द्रव्ये धनेऽपि च नपुंसकम् ॥हृदयं स्यादुरोवुक्कमानसेषु च न द्वयोः ॥
7.26.52 · p. 262
अनुष्टुप्
पश्चात्तापेऽनुबन्धे च द्वेषेऽप्यनुशयः पुमान् ।अथाहङ्कारहिमयोरवश्यायः पुमान् भवेत् ॥
7.26.53 · p. 262
अनुष्टुप्
दक्षिणे प्रतिकूले स्यादपसव्यं नपुंसकम् ।श्मशानमृतिभूशय्यास्वन्तशय्या भवेत्स्त्रियाम् ॥
7.26.54 · p. 263
अनुष्टुप्
उशीरे न द्वयोः पुंसि जलाधारे जलाशयः ।केतक्यां मल्लिकायाञ्च तृणशून्यं नपुंसकम् ॥
7.26.55 · p. 263
अनुष्टुप्
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
7.26.57 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
प्रतिश्रय=आश्रयसदस्स्थानप्रसिद्धपाञ्चजन्य=हुताशनविष्णुशङ्खपौरुषेय=पुरुषकृतपुरुषविकारबृन्दवधपुरुषप्रावृषेण्य=प्रावृज्जनीपफलोदय=लाभसुरालयहर्षमहालय=परमात्मन्तीर्थविहारमहोदय=अपवर्गआधिपत्यकान्यकुब्जमार्जनीय=शुद्धिकायशोधरौहिणेय=बलरामबुधविलेशय=कर्कटमूषिकसर्पसम्पराय=युद्धआपद्उत्तरसमाह्वय=पशुपक्षियुध्द्यूतआह्वान
उद्गमे संयुगे संघे भवेत्समुदयः पुमान् ।पुमान् युद्धे समूहे च समुदायश्च तादृशः ॥विरोधोत्सेधयोः पुंसि समुच्छ्रय उदाहृतः ।त्रिषु स्वर्णमये ना तु सुरज्येष्ठे हिरण्मयः ॥
7.26.58 · p. 263
अनुष्टुप्
कालानुसार्यं कालीये शैलेये शिंशपाद्रुमे ।भवेच्च दुग्धतालीयं क्षीरफणाम्रदुग्धयोः ॥
7.26.59 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)
त्रिषु प्रवचनीयञ्च प्रवक्तरि च वाच्यके ।वृषाकपायी गौरीश्रीवरीजीवन्तिकासु च ॥
7.26.60 · p. 263
अनुष्टुप्
विष्वक्सेनप्रिया लक्ष्म्यां वाराह्यायपि च स्त्रियाम् ।स्यात्प्रत्युद्गमनीयञ्च धौतांशुकपुमेऽपि च ।समुपस्थानयोग्ये तु पूजनीयेऽभिधेयवत् ॥
7.26.61 · p. 263
अनुष्टुप्