कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

मङ्गलाचरणम्

वन्दे सदानन्दमयं समन्ताज्ज्योतिः परं ब्रह्म भवादिसेव्यम् ।ध्यानैकगम्यं जगदेकरम्यं यदिच्छया कारणकार्यभावः ॥ १ ॥
1.1 · p. 1
उपजातिः
आसीत् क्ष्मातलमण्डले नृपकुलैः संसेवितः श्रीयुतै-र्भूपालः शुलमान खान इति यः कीर्तिप्रतापोज्ज्वलः ।यद्दोर्दण्डप्रतापचण्डदहनैः कल्पान्तसूर्यप्रभैःप्रत्यर्थिक्षितिपालका रणभुवि क्षोभाकुलाः शेरते ॥ २ ॥
1.2 · p. 1
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 4 ण्ड (wrong syllable)
तस्यैवं जगदेकवीरतनुजः ख्यातो जगन्मण्डलेईशा खान महीपतिः स्थिरमतिर्वङ्गैकरङ्गोत्सवः ।दृप्तैर्द्वादशभूमिपैश्चिरतरं तीक्ष्मांशुचण्डप्रभैःशीलेन प्रतिदेशपालनविधौ संसेव्यमानोऽभवत् ॥ ३ ॥
1.3 · p. 1
शार्दूलविक्रीडितम्
एतस्मादजनि प्रतापमिहिरः सत्कीर्तिशीतद्युति-र्दानश्रीबलिभूपतिः स्वमहिमश्रीवामदेवः स्वयम् ।मूछाखान मशन्दएल्लिनृपतिः श्रीमान् महीमण्डलंशास्ति द्वादशभूमिपैः पुनरिदं भ्रूभङ्गमात्रैः कृती ॥ ४ ॥
1.4 · p. 1
शार्दूलविक्रीडितम्
तस्याज्ञावशतः सुधारसमयीं सच्छिष्यसन्तोषिनींनानातन्त्रविदारसारललितां ज्ञानप्रदानोज्ज्वलाम् ।धीरः श्रीमथुरेश एष तनुते श्रीशब्दरत्नावलींसन्तः सन्तु विनोदिता नृपसभं सन्तोषयन्तोऽनया ॥ ५ ॥
1.5 · p. 1
शार्दूलविक्रीडितम्
विलोक्य बहुतन्त्राणि शब्दरत्नावलीमिमाम् ।वङ्गैरेव निबध्नाति प्रायः पर्यायविस्तृतैः ॥
1.6 · p. 1
अनुष्टुप्
क्वापि च प्रतिसंस्कारोऽनुक्ते शिष्टप्रयोगतः ।परपूर्वोभयावृत्तिसहशब्दानुशासनात् ॥
1.7 · p. 1
अनुष्टुप्
स्त्री पुं नपुंसकं ज्ञेयं रूपभेदेन कुत्रचित् ।तद्विशेषविधेः क्वापि साहचर्यात् क्वचिद्भवेत् ॥
1.8 · p. 1
अनुष्टुप्
अनुक्तेष्वेकलिङ्गेषु द्वन्द्वः किल भवेदिह ।उक्तेषु भिन्नलिङ्गेषु तत्राप्येष न दोषभाक् ॥
1.9 · p. 1
अनुष्टुप्
लिङ्गत्रये त्रिष्विति स्यात् स्त्रीपुंसयोर्द्वयोरिति ।निषिद्धे शेषलिङ्गन्तु वाच्यलिङ्गञ्च कुत्रचित् ॥
1.10 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)