All kośas › Anekārthadhvanimañjarī
अनेकार्थध्वनिमञ्जरी Anekārthadhvanimañjarī
226 verses · text only, tagging comes next
श्लोकाधिकारः
अनेकार्थध्वनिमञ्जरीकोषः
कण्ठे कुर्वन्तु विद्वांसः श्रद्दधाना दिवानिशम् ॥ १ ॥
1.1 · p. 1
शब्दाम्भोधिर्यतोऽनन्तः कुतो व्याख्या प्रवर्तते ।स्वानुबोधैकमानाय तस्मै वागात्मने नमः ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
सरस्वत्याः प्रसादेन कविर्बध्नाति यत्पदम् ।प्रसिद्धमप्रसिद्धं वा तत्प्रमाणं च साधु वः ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाभया ।शिवा कीलः शिवा क्रोष्ट्री भवेदामलकी शिवा ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
शिवः शर्वः शिवः शुक्लः शिवः कीलः शिवः पशुः ।शिवा गौरी शिवा क्रोष्ट्री शिवं श्रेयः शिवा स्नुषा ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
गौरी शिवप्रिया प्रोक्ता गौरी गोरोचना मता ।गौरी स्यादप्रसूता स्त्री गौरी शुद्धाभयान्विता ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
अर्क-मर्कट-मण्डूक-विष्णु-वासव-वायवः ।तुरङ्ग-सिंह-सितांशुर्यमाश्च हरयो दश ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)
हरिरिन्द्रो हरिर्भानुर्हरिर्विष्णुर्हरिर्मरुत् ।हरिः सिंहो हरिर्भेको हरिर्वाजी हरिः कपिः ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्
हरिरंशुर्हरिर्भीरुर्हरिः सोमो हरिर्यमः ।हरिः शुक्लो हरिः सर्पः स्वर्णवर्णो हरिः स्मृतः ॥ ९ ॥
1.9 · p. 1
अनुष्टुप्
मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुः ।मधुर्दैत्यो मधुश्चैत्रो मधुकोऽपि मधु स्मृतः ॥ १० ॥
1.10 · p. 1
अनुष्टुप्
क्षुद्रा वेश्या नटी क्षुद्रा क्षुद्रा स्यान्मधुमक्षिका ।असहिष्णुर्नरः क्षुद्रः क्षुद्रा स्यात् कण्टकारिका ॥ ११ ॥
1.11 · p. 1
अनुष्टुप्
वाहो युग्मं घनो वाहो वाहो वाहनमित्यपि ।वाहो मानविशेषः स्याद् वाहो बाहुरिति स्मृतः ॥ १२ ॥
1.12 · p. 1
अनुष्टुप्
इष्टिकानिचयो हारो हारो मुक्तागणः स्मृतः ।हारो मानविशेषः स्याद्धारश्च क्षेत्रमुच्यते ॥ १३ ॥
1.13 · p. 1
अनुष्टुप्
आत्मा भावो मनो भावो भावः सप्तपदेऽपि च ।भावः पूज्यतमो लोके पदार्थो भाव उच्यते ॥ १४ ॥
1.14 · p. 1
अनुष्टुप्
कुथा कन्था समाख्याता कुथः स्यात् करिकम्बलः ।कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः ॥ १५ ॥
1.15 · p. 2
अनुष्टुप्
कुशे काशे तिलच्छागे कम्बले सलिलेऽम्बरे ।दौहित्रे खड्गपात्रेऽग्नौ कुतुपाख्यः प्रकीर्तितः ॥ १६ ॥
1.16 · p. 2
अनुष्टुप्
बाणे वाचि पशौ भूमौ दिशि रश्मौ जलेऽक्षिणि ।स्वर्गे मातरि वज्रेऽग्नौ मुखे तत्वे च गोध्वनिः ॥ १७ ॥
1.17 · p. 2
अनुष्टुप्
दिग्दृष्टि-दीधिति-स्वर्ग-वारि-वाग्वाण-वाजिषु ।भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ १८ ॥
1.18 · p. 2
अनुष्टुप्
श्रियां यशसि सौभाग्ये योनौ कान्तौ महिम्नि च ।सूर्ये संज्ञाविशेषेऽपि मृगाङ्गेऽपि भगः स्मृतः ॥ १९ ॥
1.19 · p. 2
अनुष्टुप्
पर्जन्ये राज्ञि गीर्वाणे व्यवहर्तरि भर्तरि ।मूर्खे बाले जिगीषौ च देवोक्तिर्नरि त्वष्टरि ॥ २० ॥
1.20 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रि (wrong syllable)
तूर्यास्ये श्रीफले पद्ये कुञ्जराग्रकरे दिवि ।द्वीपे तीर्थे निमित्ते च विशिष्टे पुष्करध्वनिः ॥ २१ ॥
1.21 · p. 2
अनुष्टुप्
मूर्ध्नि चित्ते जले काये सुखे ब्रह्मणि मारुते ।बाले कामे सुवर्णे च कशब्दो द्रविणेऽपि च ॥ २२ ॥
1.22 · p. 2
अनुष्टुप्
जीवे राज्ञि रवौ धर्मे तपस्विनि तुरङ्गमे ।शिते पक्षिविशेषे च हंसशब्दो हरावपि ॥ २३ ॥
1.23 · p. 2
अनुष्टुप्
रसो जलं रसो हर्षो रसः शृङ्गारपूर्वकः ।रसः पुष्पादिनिर्यासः पारदोऽपि रसो विषम् ॥ २४ ॥
1.24 · p. 2
अनुष्टुप्
क्षीरे पुष्परसे तोये मण्डे मद्ये घृते स्रजि ।सप्तस्वर्थेषु कीलालं कथयन्ति मनीषिणः ॥ २५ ॥
1.25 · p. 2
अनुष्टुप्
तिलपिष्टे मले मांसे जम्बाले कोमलेऽश्मनि ।शिवे क्लीबे बले प्राज्ञः पलालं परिचक्षते ॥ २६ ॥
1.26 · p. 2
अनुष्टुप्
हयपुच्छे ध्वजे पुण्ड्रे शैले पुंसि गुणाधिके ।वेषे धामनि भूषायां ललामेत्युत्तमैः स्मृतम् ॥ २७ ॥
1.27 · p. 2
अनुष्टुप्
वसुः सूर्यो वसुर्वह्निर्वसुः श्रीर्वासवो वसुः ।वसु रत्नं वसु द्रव्यं वसवोऽष्टौ धरादयः ॥ २८ ॥
1.28 · p. 2
अनुष्टुप्
अक्षराणि स्मृता वर्णा वर्णाः श्वेतादयो गुणाः ।वर्णा नान्दिमुखा गाथा वर्णा ज्ञेया द्विजादयः ॥ २९ ॥
1.29 · p. 2
अनुष्टुप्
शुक्लो वर्णोऽर्जुनो नाम पाण्डवोऽप्यर्जुनो मतः ।अर्जुनस्तृणजातिस्यादर्जुनं ककुभो द्रुमः ॥ ३० ॥
1.30 · p. 3
अनुष्टुप्
बलिः स्त्रीमध्यभागोर्मिर्बलिश्चर्मजराकृतिः ।बलिः पूजोपहारः स्याद् बलिर्दानवपुङ्गवः ॥ ३१ ॥
1.31 · p. 3
अनुष्टुप्
व्रणस्यावरणं पट्टः पट्टो भूर्जाहिताक्षरः ।वीरदीक्षापटः पट्टः पट्टः स्यादधिवासनम् ॥ ३३ ॥
1.33 · p. 3
अनुष्टुप्
रन्ध्रे वस्त्रे विना मध्ये व्यवधानेऽन्तरात्मनि ।बहिर्योगे च काशे च विशेषेऽवसरेऽन्तरः ॥ ३४ ॥
1.34 · p. 3
अनुष्टुप्
अरिष्टं ग्रहमित्युक्तमरिष्टो बृषभासुरः ।काकनिम्बावरिष्टौ चारिष्टं क्षेममिहेरितम् ॥ ३५ ॥
1.35 · p. 3
अनुष्टुप्
मण्डलं भूमिभागश्च मण्डलः सरमासुतः ।मण्डलं वर्तुलं प्रोक्तं सङ्घातो मण्डलं स्मृतम् ॥ ३६ ॥
1.36 · p. 3
अनुष्टुप्
इन्द्रियं कम्बलं प्रोक्तं कम्बलं रोमजः पटः ।कम्बलन्तु गवां सास्ना कम्बलं कमलं विदुः ॥ ३७ ॥
1.37 · p. 3
अनुष्टुप्
कुन्तलो देशपर्यायः कुन्तलः केशवाचकः ।कुन्तलः सूत्रधारश्च कुन्तहस्तश्च कुन्तलः ॥ ३८ ॥
1.38 · p. 3
अनुष्टुप्
मणिर्लिङ्गाग्रिमो भागो मणिः प्रोक्तो भगध्वजः ।मणिः कूपमुखे ज्ञेयः पद्मरागादिको मणिः ॥ ३९ ॥
1.39 · p. 3
अनुष्टुप्
तन्त्रं शास्त्रं कुलं तन्त्रं तन्त्रं सिद्धौषधिक्रिया ।तन्त्रं सुखं बलं तन्त्रं तन्त्रं पावनसाधनम् ॥ ४० ॥
1.40 · p. 3
अनुष्टुप्
नेत्रं वस्त्रं विशेषः स्यान्नेत्रं चक्षुरुदाहृतम् ।परिवर्तगुणो नेत्रं नेत्रः कस्तूरिकामृगः ॥ ४१ ॥
1.41 · p. 3
अनुष्टुप्
वातादिप्रकृतिर्धातुर्धातुर्देहे रसादिकः ।क्रियाभावः स्मृतो धातुर्धातुः शैलोपलोद्भवः ॥ ४२ ॥
1.42 · p. 3
अनुष्टुप्
सुधा प्रासादभाग्द्रव्यं सुधा विद्युत्सुधामृतम् ।सुधैव भोजनं ज्ञेयं सुधा धात्री सुधा स्नुही ॥ ४३ ॥
1.43 · p. 3
अनुष्टुप्
काण्डो बाणस्तुला काण्डः सङ्घातः काण्ड उच्यते ।काण्डः कालो बलं काण्डं काण्डं मूलं तरोरपि ॥ ४४ ॥
1.44 · p. 3
अनुष्टुप्
मणिः सूर्यो मणिश्चन्द्रो मणिर्हेमाचलो गिरिः ।मणी रत्नानुरागश्च मणी राजा मणिर्द्विजः ॥ ४५ ॥
1.45 · p. 4
अनुष्टुप्
वेला कालविशेषः स्याद् वेला सिन्धुजलोद्गतिः ।वेलास्यादङ्गुलिच्छेदे वेला द्रोण्यन्तरे ध्वनिः ॥ ४६ ॥
1.46 · p. 4
अनुष्टुप्
उत्सवे च प्रकोष्ठे च मुहूर्ते नियमे तथा ।क्षणशब्दो व्यवस्थायां समयेऽपि निगद्यते ॥ ४७ ॥
1.47 · p. 4
अनुष्टुप्
भ्रूणो भीरुर्द्विजो भ्रूणो भ्रूणो गर्भाशयः स्त्रियः ।भ्रूणोऽण्डजः शिशुर्भ्रूणो विकलो भ्रूण उच्यते ॥ ४८ ॥
1.48 · p. 4
अनुष्टुप्
अहिर्दैत्यविशेषः स्यात् सूर्योऽहिरहिरध्वजः ।भुजङ्गोऽहिः समाख्यातः सिंहिकासूनुरप्यहिः ॥ ४९ ॥
1.49 · p. 4
अनुष्टुप्
व्यालोऽहिः श्वापदो व्यालो व्यालः स्यात्कुटिलः करी ।प्रमादवान्नरो व्यालो व्यालो व्याघ्र उदाहृतः ॥ ५० ॥
1.50 · p. 4
अनुष्टुप्
शब्दादिविषयाः पञ्च प्रसिद्धा इन्द्रसंज्ञया ।श्रेष्ठ इन्द्रः समाख्यातो देवराडिन्द्र उच्यते ॥ ५१ ॥
1.51 · p. 4
अनुष्टुप्
पयस्विन्यर्जुनी धेनुर्धेनुः कुञ्जरकामिनी ।असिपुत्री मता धेनुर्धेनुर्वृत्तिः शिवङ्करी ॥ ५२ ॥
1.52 · p. 4
अनुष्टुप्
धर्मो वृषो वृषः श्रेष्ठो वृषो गौ मूषको वृषः ।वृषो बलं वृषः कामो वृषणो वृष उच्यते ॥ ५३ ॥
1.53 · p. 4
अनुष्टुप्
योगो युक्तिविशेषश्च संयोगो योग उच्यते ।योगश्चागामिको लाभः समाधिर्योग इष्यते ॥ ५४ ॥
1.54 · p. 4
अनुष्टुप्
शलिर्मुखः शलिर्गर्भः शलिर्भृङ्गः शलिर्गदा ।शलिः सर्पविशेषश्च शलिः कलिरुदाहृतः ॥ ५५ ॥
1.55 · p. 4
अनुष्टुप्
सीता लक्ष्मीरुमा सीता सीता सस्याधिदेवता ।सीता सीरध्वजापत्यं सीता मन्दाकिनी मता ॥ ५६ ॥
1.56 · p. 4
अनुष्टुप्
आदिमः क्षत्रियो नाभिर्नाभिश्चक्रस्य पिण्डिका ।कुटुम्बस्याग्रणीर्नाभिर्नाभिर्निम्नोदगा मता ॥ ५७ ॥
1.57 · p. 4
अनुष्टुप्
गोत्रं नामान्वयो गोत्रं गोत्रश्च धरणीधरः ।गोत्रा वसुन्धरा ज्ञेया गोत्रं च प्रवरे स्मृतम् ॥ ५८ ॥
1.58 · p. 4
अनुष्टुप्
घनो मेघो घनं सान्द्रं कांस्यतालादिकं घनम् ।घनं सङ्घो घनं नित्यं घनः स्याल्लोहमुद्गरः ॥ ५९ ॥
1.59 · p. 4
अनुष्टुप्
शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः ।ज्येष्ठमासः स्मृतः शुक्रः शुक्रो दैत्यपुरोहितः ॥ ६० ॥
1.60 · p. 4
अनुष्टुप्
रामा स्त्री जामदग्न्यश्च रामः प्रोक्तो हलायुधः ।रामः पशुविशेषश्च रामो दशरथात्मजः ॥ ६१ ॥
1.61 · p. 5
अनुष्टुप्
वीतरागो जिनः प्रोक्तो जिनो नारायणः स्मृतः ।कन्दर्पश्च जिनश्चैव जिनः सामान्यकेवली ॥ ६२ ॥
1.62 · p. 5
अनुष्टुप्
द्रोणः स्यात् कौरवाचार्यो द्रोणः काक इतीरितः ।द्रोणो गिरिविशेषश्च द्रोणः स्याच्चतुराढकः ॥ ६३ ॥
1.63 · p. 5
अनुष्टुप्
शुक्रो दैत्यगुरुः प्रोक्तः शुक्रो ज्येष्ठहुताशनौ ।शुक्रं तेजोविशेषः स्याच्छुक्रस्तारक उच्यते ॥ ६४ ॥
1.64 · p. 5
अनुष्टुप्
जयन्ती नगरी प्रोक्ता जयन्ती चरकानुजा ।जयन्त्यौषधिभेदः स्याज्जयन्ती शक्रसम्भवा ॥ ६५ ॥
1.65 · p. 5
अनुष्टुप्
रोहितं शक्रकोदण्डो रोहितो मत्स्यपुङ्गवः ।रोहितो लोहितो वर्णः मृगजातिस्तु रोहितः ॥ ६६ ॥
1.66 · p. 5
अनुष्टुप्
धातकी प्रोच्यते धात्री धात्री चालमकी मता ।धात्री वसुन्धरा ज्ञेया धात्री स्यात् स्तनदायिनी ॥ ६७ ॥
1.67 · p. 5
अनुष्टुप्
वीणादण्डः प्रवालः स्यात् प्रवालः पल्लवो मतः ।प्रवालो विद्रुमः प्रोक्तः प्रवालः प्रणवो मतः ॥ ६८ ॥
1.68 · p. 5
अनुष्टुप्
कोणोऽस्त्रं महिषः कोणः कोणः कोटिरितीरितः ।कोणो गृहैकदेशश्च कोणो वीणादिवादनम् ॥ ६९ ॥
1.69 · p. 5
अनुष्टुप्
तालः कालक्रियामानं तालं पातालमिष्यते ।वृक्षभेदः स्मृतस्तालस्तालः करतलध्वनिः ॥ ७० ॥
1.70 · p. 5
अनुष्टुप्
काष्ठा निशा ककुप् काष्ठा काष्ठा प्रोक्ता वसुन्धरा ।काष्ठा कालविशेषः स्यात् काष्ठं दारु निगद्यते ॥ ७१ ॥
1.71 · p. 5
अनुष्टुप्
वृक्षपत्रं पलाशं स्यात् पलाशो राक्षसः स्मृतः ।पलाशो हरितो वर्णः पलाशः पाश उच्यते ॥ ७२ ॥
1.72 · p. 5
अनुष्टुप्
सत्रं धनं गृहं सत्रं सत्रं दानं समीरितम् ।सत्रं नामायुधं प्रोक्तं सत्रं सुचरितं स्मृतम् ॥ ७३ ॥
1.73 · p. 5
अनुष्टुप्
कलासु कुशलः कल्पः कल्पो ज्ञेयो निरामयः ।कल्पं कालविशेषश्च कल्पं मद्यं च कीर्तितम् ॥ ७४ ॥
1.74 · p. 5
अनुष्टुप्
विष्टरो बर्हिषां मुष्टिर्विष्टरं ज्ञेयमासनम् ।विष्टरो द्रुविशेषश्च विष्टरः क्रतुरेव च ॥ ७५ ॥
1.75 · p. 5
अनुष्टुप्
सभा समितिरित्युक्ता समितिः संयुगावनी ।समितिः समयो ज्ञेयः सङ्ग्रामः समितिर्मतः ॥ ७६ ॥
1.76 · p. 5
अनुष्टुप्
परिग्रहो द्विजग्राह्ये सैन्यपृष्ठे परिग्रहः ।परिग्रहोऽनुबन्धः स्यात् परिग्राहः परिग्रहः ॥ ७७ ॥
1.77 · p. 6
अनुष्टुप्
सितो वृद्धः सितः शुक्लः सितं रजतमुच्यते ।सायकोऽपि सितो ज्ञेयः सितो दैत्यपुरोहितः ॥ ७८ ॥
1.78 · p. 6
अनुष्टुप्
चित्रकं तिलकं प्रोक्तं चित्रकं शापदो मतः ।चित्रमूलश्च जातिश्च चित्रकोऽप्यन्तको मतः ॥ ७९ ॥
1.79 · p. 6
अनुष्टुप्
बलो हली बलं सैन्यं सत्यं बलं बलौषधी ।रत्नयोनिर्बलो दैत्यो बला लक्ष्मी बला मही ॥ ८० ॥
1.80 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable)
कुमातृकः कदम्बः स्यात् कदम्बः सर्षपः स्मृतः ।कदम्बो वृक्षभेदश्च कदम्बो निर्गुणः पुमान् ॥ ८१ ॥
1.81 · p. 6
अनुष्टुप्
प्रियको बीजसारश्च प्रियको द्वीपिचित्रकः ।प्रियकः प्रियतोयः स्यात् प्रियको मुक्तको व्रती ॥ ८२ ॥
1.82 · p. 6
अनुष्टुप्
अक्षो बिभीतको वृक्षः पाशकोऽक्षोऽक्षमिन्द्रियम् ।अक्षो रावणिरित्युक्तः कृत्यमक्षन्तु निम्नगम् ॥ ८३ ॥
1.83 · p. 6
अनुष्टुप्
चक्रः पक्षिविशेषश्च रथाङ्गं चक्रमायुधम् ।चक्रं राष्ट्रं च सङ्घश्च चक्रं व्यावर्तकं मतम् ॥ ८४ ॥
1.84 · p. 6
अनुष्टुप्
सत्यसन्धः खरो ज्ञेयः खरोऽपि खरदूषकः ।खरो रासभ इत्युक्तो व्यवहारे पटुः खरः ॥ ८५ ॥
1.85 · p. 6
अनुष्टुप्
कृषिर्गोत्रविशेषः स्यात् कृषिः कालः कृषिः कपिः ।कृषिराढक इत्युक्तः कृषिर्वैश्वानरो मुनिः ॥ ८६ ॥
1.86 · p. 6
अनुष्टुप्
जातिः स्यात् सहजाख्यानं मालती जातिरुच्यते ।गोत्रादिजन्म जातिः स्याज्जातिर्वल्लीति कथ्यते ॥ ८७ ॥
1.87 · p. 6
अनुष्टुप्
गोविषाणः फणो ज्ञेयो भुजङ्गस्य फणः फणा ।फणा जटा फणा तृष्णा फणा मन्थनकुण्डली ॥ ८८ ॥
1.88 · p. 6
अनुष्टुप्
तिलको वृक्षभेदश्च तिलकं चित्रकं विदुः ।तिलकं क्लोमसंज्ञं स्यात् प्रधानं तिलकं मतम् ॥ ८९ ॥
1.89 · p. 6
अनुष्टुप्
गन्धर्वो देवजातिः स्यात् गन्धर्वो हि तुरङ्गमः ।गन्धर्वश्च स्मृतो नागो गन्धर्वो मृगपुङ्गवः ॥ ९० ॥
1.90 · p. 6
अनुष्टुप्
शृङ्गं प्रधानमिच्छन्ति शृङ्गं च शिखरं विदुः ।शृङ्गं विषाणमित्याहुः शब्दकोषविचक्षणाः ॥ ९१ ॥
1.91 · p. 6
अनुष्टुप्
सारङ्गो धनुषो नाम सारङ्गो वायुरित्यपि ।सारङ्गो नाम जातिश्च सारङ्गो नामघातकी ॥ ९२ ॥
1.92 · p. 6
अनुष्टुप्
सारङ्गः कुक्कुटो ज्ञेयः सारङ्गो भ्रमरो मतः ।सारङ्गः खड्गभेदः स्यात् सारङ्गः कमलाह्वयः ॥ ९३ ॥
1.93 · p. 7
अनुष्टुप्
सारङ्गः कुञ्जरः ख्यातः सारङ्गश्चातको मतः ।सारङ्गः पर्वतो ज्ञेयः सारङ्गो हरिणो मतः ॥ ९४ ॥
1.94 · p. 7
अनुष्टुप्
करणं कारणं विद्यात् क्षेत्रं करणमिष्यते ।करणो जातिभेदश्च करणानीन्द्रियाणि च ॥ ९५ ॥
1.95 · p. 7
अनुष्टुप्
पुण्डरीकः स्मृतो व्याघ्रः पुण्डरीकः कमण्डलुः ।पुण्डरीकः सितो वर्णः पुण्डरीकं सरोरुहम् ॥ ९६ ॥
1.96 · p. 7
अनुष्टुप्
अपत्ये च पृथिव्यादौ काले सिते च राक्षसे ।प्राप्ते प्राणिनि कीनाशे भूतशब्दं प्रचक्षते ॥ ९७ ॥
1.97 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
शरभोऽष्टापदश्चैव स्वर्णमष्टापदं मतम् ।अष्टापदं सारिफलं कृषिजातिरुदाहृता ॥ ९८ ॥
1.98 · p. 7
अनुष्टुप्
बालः केशो जलं बालं बालं काशतृणं मतम् ।बालो मूर्खः शिशुर्बालो बालो वेग उदाहृतः ॥ ९९ ॥
1.99 · p. 7
अनुष्टुप्
बालकः खेचरो व्याघ्रो बालकः पृथुकः स्मृतः ।बालकं गन्धद्रव्यं च जटाजूटं च बालकम् ॥ १०० ॥
1.100 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable)
श्यामा रात्रिस्त्रिवृत् श्यामा श्यामा स्त्री मुग्धयौवना ।श्यामा प्रियङ्गुराख्याता श्यामा स्याद्वृद्धदारिका ॥ १०१ ॥
1.101 · p. 7
अनुष्टुप्
शुभा सुधा शुभा सत्या स्नुही क्षीरा शुभा मता ।शुभं श्रेयः शुभा शोभा समाख्याता हरीतकी ॥ १०२ ॥
1.102 · p. 7
अनुष्टुप्
गुरुः पिता गुरुर्ज्येष्ठो गुरुः सुरपुरोहितः ।दुर्वहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिषेचकः ॥ १०३ ॥
1.103 · p. 7
अनुष्टुप्
कान्तारं काननं प्रोक्तं कान्तारः पाकशासनः ।इक्षुभेदश्च कान्तारः कान्तारो दुर्भरोदरः ॥ १०४ ॥
1.104 · p. 7
अनुष्टुप्
खर्जूरः फलभेदः स्यात् खर्जूरं रजतं मतम् ।खर्जूरः क्षुद्रजातिः स्यात् खर्जूरो ग्रहणाधिपः ॥ १०५ ॥
1.105 · p. 7
अनुष्टुप्
बाह्लीकं हिङ्गुराख्यातं बाह्लीकं कुङ्कुमं मतम् ।बाह्लीकः स्याज्जनपदो बाह्लीकाश्चाश्वजातयः ॥ १०६ ॥
1.106 · p. 7
अनुष्टुप्