All kośas › Anekārthadhvanimañjarī
अनेकार्थध्वनिमञ्जरी Anekārthadhvanimañjarī
226 verses · text only, tagging comes next
अर्धश्लोकाधिकारः
इति काश्मीराम्नाये महाक्षपणकविरचिते अनेकार्थध्वनिमञ्जर्यां श्लोकाधिकारः प्रथमः समाप्तः ।
तटो वप्रः पिता वप्रो वप्रः केदार एव च ।सर्पो व्यालो विषो व्यालो व्यालो ज्ञेयश्चतुष्पदः ॥ १ ॥
2.1 · p. 8
अनुष्टुप्
अट्टे दारेषु शय्यायां तल्पशब्दोऽभिधीयते ।तारास्वग्नौ गृहे स्थाने धिष्ण्यमाहुर्मनीषिणः ॥ २ ॥
2.2 · p. 8
अनुष्टुप्
अभिख्येति समाख्याता कीर्तौ कान्तौ च नामनि ।रम्भा देवाङ्गना प्रोक्ता रम्भा स्यात् कदली मता ॥ ३ ॥
2.3 · p. 8
अनुष्टुप्
मोचा शाल्मलिराख्याता मोचाऽपि कदली मता ।कक्षेति भवनान्तर्भूर्मेखलागजरज्जुषु ॥ ४ ॥
2.4 · p. 8
अनुष्टुप्
बले गरुति मासार्द्धे पक्षो नियमपार्श्वयोः ।मास्याषाढे विशुद्धेऽग्नौ शुक्लेऽनुपहते शुचिः ॥ ५ ॥
2.5 · p. 8
अनुष्टुप्
शक्रेऽपि वार्षिके मेघे मत्तनागे घनाघनः ।वृक्षभेदे करीरः स्याद् घटे वंशाङ्कुरेऽपि च ॥ ६ ॥
2.6 · p. 8
अनुष्टुप्
देहे दारेषु केदारे क्षेत्रं वृद्धौ च कीर्त्यते ।शेषं केवलमल्पं च विद्यादेकार्थकं बुधः ॥ ७ ॥
2.7 · p. 8
अनुष्टुप्
निर्व्यूहो निर्गतापीडनिर्यासद्वारभूमिषु ।अविशब्दो रवौ मेषे पर्वतेऽपि निगद्यते ॥ ८ ॥
2.8 · p. 8
अनुष्टुप्
मृगपर्वतदुर्गेषु निकृष्टेऽपि च शम्बरः ।घनो घने च दर्भे च गह्वरे गहनेऽपि च ॥ ९ ॥
2.9 · p. 8
अनुष्टुप्
न्याये तुल्ये विधौ काले चित्ते दण्डे च कल्पवाक् ।आत्मेति ब्रह्मवाग्देहे मनो-यज्ञधृतिष्वपि ॥ १० ॥
2.10 · p. 8
अनुष्टुप्
पर्याप्तौ शिक्षिते पुण्ये क्षेमे च कुशलध्वनिः ।प्रत्ययः शपथे छिद्रे विश्वासे सत्य-हेतुषु ॥ ११ ॥
2.11 · p. 8
अनुष्टुप्
पदं लक्ष्म परित्राणे क्रमे वस्तुप्रतिष्ठयोः ।दोषे चापगमे दण्डे स्यात् प्रत्यय इति श्रुतिः ॥ १२ ॥
2.12 · p. 8
अनुष्टुप्
प्रभावे तेजसि स्थाने धामशब्दो निगद्यते ।जातौ चात्मनि चात्मीये धनेष्वाख्या प्रवर्तते ॥ १३ ॥
2.13 · p. 8
अनुष्टुप्
कूटाख्यानृतयन्त्रायोधनमायोत्कटादिषु ।परिच्छेदे प्रमाणे च मात्राख्या च प्रवर्तते ॥ १४ ॥
2.14 · p. 8
अनुष्टुप्
इडा वर्षे च पानीये भूमौ वाक्ये रणे मतः ।साधुसत्ताप्रशस्तेषु श्रेष्ठे च सदिति ध्वनिः ॥ १५ ॥
2.15 · p. 8
अनुष्टुप्
प्रधाने राजलिङ्गे च ककुदाख्या प्रवर्तते ।पलमण्डनयोर्निष्को निष्को दीनाररुक्मयोः ॥ १६ ॥
2.16 · p. 9
अनुष्टुप्
युयुत्सोत्सङ्गयोरङ्कः स्यादङ्को लेख्यलक्ष्मयोः ।विशिरस्के नरे नीरे कबन्धः खेचरेऽपि च ॥ १७ ॥
2.17 · p. 9
अनुष्टुप्
मेरौ वृक्षविशेषे च धनुःशब्दस्तु कार्मुके ।अक्षिलोम स्मृतं वर्त्म वर्त्म मार्गे प्रकीर्तितम् ॥ १८ ॥
2.18 · p. 9
अनुष्टुप्
वर्ष्म देहप्रमाणं स्याद्वर्ष्म देहश्च कथ्यते ।दायादो बान्धवः प्रोक्तो दायादस्तनयो मतः ॥ १९ ॥
2.19 · p. 9
अनुष्टुप्
विग्रहो वैर्यवस्कन्दो विग्रहो वपुरुच्यते ।प्रकोष्ठः कूर्परस्याधः प्रकोष्ठो द्वारकोष्ठकः ॥ २० ॥
2.20 · p. 9
अनुष्टुप्
प्रोक्तं वितानमुल्लोचे वितानं शून्यमुच्यते ।सती दाक्षायणी देवी सच्चरित्राबला सती ॥ २१ ॥
2.21 · p. 9
अनुष्टुप्
वधूर्नारी वधूर्भार्या वधूः पुत्रवधूरपि ।रक्षः कशिपुराख्याता प्रावारः कशिपुर्मतः ॥ २२ ॥
2.22 · p. 9
अनुष्टुप्
आडम्बरो गजारावस्तूर्यनादश्च भण्यते ।कपर्दो हरजटौघः कपर्दः श्वेतकाकिनी ॥ २३ ॥
2.23 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
तूवरो निर्विषाणो गौ निःश्मश्रुस्तूवरः पुमान् ।पापीयांसो नृशंसाः स्युर्नृशंसावादिनः स्मृताः ॥ २४ ॥
2.24 · p. 9
अनुष्टुप्
शारदस्तु शरत्कालः स्यादधृष्टस्तु शारदः ।उपह्वरं रहस्थानं समीपं स्यादुपह्वरम् ॥ २५ ॥
2.25 · p. 9
अनुष्टुप्
प्रस्वेदोऽथ निदाघः स्यान्निदाघो ग्रीष्म उच्यते ।कश्मलः स्यात् पिशाचोऽपि कश्मलो मोह एव च ॥ २६ ॥
2.26 · p. 9
अनुष्टुप्
केतुर्ग्रहविशेषः स्याद्ध्वजे केतुरुदाहृतः ।अवज्ञा कथ्यते रीढा रीढा गतिरपीष्यते ॥ २७ ॥
2.27 · p. 9
अनुष्टुप्
वर्द्धनं छेदनं प्रोक्तं वर्द्धनं वृद्धिरुच्यते ।कसेरुकं जले कन्दे पृष्टस्यास्थ्नि कसेरुका ॥ २८ ॥
2.28 · p. 9
अनुष्टुप्
निर्वातमाश्रयं विद्यादभिन्नं केवलं तथा ।कीनाशश्च कपर्दः स्यात् कीनाशौ यमकर्षकौ ॥ २९ ॥
2.29 · p. 9
अनुष्टुप्
नागो वृक्षविशेषः स्यान्नागौ वारण-पन्नगौ ।कुलं सङ्घः कुलं गोत्रं शरीरं कुलमुच्यते ॥ ३० ॥
2.30 · p. 9
अनुष्टुप्
पूगः पूगीफलं प्रोक्तं तथा पूगः कदम्बकम् ।ज्ञेयः सुमनसो देवाः कुसुमानि च सज्जनाः ॥ ३१ ॥
2.31 · p. 9
अनुष्टुप्
कुसुमं पुष्पमित्याहुः कुसुमं रज उच्यते ।धवः पतिर्धवः शुक्लो वृक्षजातिर्धवो मतः ॥ ३२ ॥
2.32 · p. 10
अनुष्टुप्
धवः प्रतिवधे बाधे वृषजातिर्धवो मतः ।त्र्यम्बकस्ताम्रधातुः स्यात् त्र्यम्बकश्च महेश्वरः ॥ ३३ ॥
2.33 · p. 10
अनुष्टुप्
शिफा शेफालिका ज्ञेया शिफा श्लाघा शिफा जटा ।पुण्यं सुविहितं कर्म पवित्रं पुण्यमेव च ॥ ३४ ॥
2.34 · p. 10
अनुष्टुप्
खलो राशिः खलो नीचः खलः पिण्याक एव च ।शाला श्लाघा शिला शाला शाला शाखा च वेश्म च ॥ ३५ ॥
2.35 · p. 10
अनुष्टुप्
माल्यं माल्ये शिरोमाल्यं माला माल्यमुदाहृतम् ।राढा देशविशेषश्च राढा शोभा विधीयते ॥ ३६ ॥
2.36 · p. 10
अनुष्टुप्
पलं मांसं पलं मानं पलो मूर्खः पला तुला ।आलिः सहचरी ज्ञेया पङ्क्तिरालिरुदाहृता ॥ ३७ ॥
2.37 · p. 10
अनुष्टुप्
दलमर्द्धं दलं पत्रं दलं हस्त्यादिसाधनम् ।आजिः स्यात् समभूभागः सङ्ग्रामोऽप्याजिरुच्यते ॥ ३८ ॥
2.38 · p. 10
अनुष्टुप्
प्रतिज्ञा सङ्गरो ज्ञेयः सङ्ग्रामः सङ्गरो मतः ।उलूकः पुरुहूतः स्यात् पुरुहूतः पुरन्दरः ॥ ३९ ॥
2.39 · p. 10
अनुष्टुप्
अन्तकेऽजगरे कुञ्जे मृत्युः स्यान्मरणेऽपि च ।शम्पा विद्युत्पविः शम्पा शम्पा शङ्खध्वनिर्मतः ॥ ४० ॥
2.40 · p. 10
अनुष्टुप्
उपर्यम्भोधरे चूर्णे विदुरभ्रं विपश्चितः ।निवृत्तावभिधेयेऽर्थो धने प्रोक्तः प्रयोजने ॥ ४१ ॥
2.41 · p. 10
अनुष्टुप्
क्रतौ क्रोधे तथा दैन्ये मन्युशब्दः प्रचक्षते ।बहुला कृत्तिका ज्ञेया गावश्च बहुला मताः ॥ ४२ ॥
2.42 · p. 10
अनुष्टुप्
प्राध्वं बन्धनमित्युक्तं प्राध्वं प्रह्वं च सूरिभिः ।हरिणः पाण्डुरो वर्णः सारङ्गो हरिणो मतः ॥ ४३ ॥
2.43 · p. 10
अनुष्टुप्
करटः कातरो ज्ञेयः करटो ध्वाङ्क्ष उच्यते ।कर्करेटुः स्मृतो गृध्रः कर्करेटुरमर्षणः ॥ ४४ ॥
2.44 · p. 10
अनुष्टुप्
अमृतं वारि विज्ञेयं देवभोज्यं तथामृतम् ।कुन्त्या भूमिः समाख्याता कुन्त्या कुन्तकदम्बकम् ॥ ४६ ॥
2.46 · p. 10
अनुष्टुप्
पणेऽक्षकितवे द्यूते दुरोदर इति स्मृतः ।दीप्तौ दृष्टौ सुतारासु ज्योतिःशब्दोऽभिधीयते ॥ ४७ ॥
2.47 · p. 11
अनुष्टुप्
रोगार्ताभाग्यमूढाल्पा मन्दाः प्रोक्ता विचक्षणैः ।शास्त्रे प्रमाणमिच्छन्ति स्थितौ हेतौ च कोविदाः ॥ ४८ ॥
2.48 · p. 11
अनुष्टुप्
मणिः कलिञ्जरो ज्ञेयो मणिको मणिरेव च ।विषं पानीयमित्युक्तं विषमन्तकरो रसः ॥ ४९ ॥
2.49 · p. 11
अनुष्टुप्
वाजमन्नं गुरुर्वाजो वाजं पीयूषमिष्यते ।व्रजो गोष्ठो व्रजो मार्गो व्रजः सङ्गो व्रजो गणः ॥ ५० ॥
2.50 · p. 11
अनुष्टुप्
वीर्यं शुक्रं बलं वीर्यं वीर्यं बीजमुदाहृतम् ।नक्षत्रस्य मघा नाम कुन्दस्य कलिका मघा ॥ ५१ ॥
2.51 · p. 11
अनुष्टुप्
द्विजिह्वः सूचको ज्ञेयो द्विजिह्वस्तु भुजङ्गमः ।विज्ञेयं शयनं शय्या शय्या पुस्तकसञ्चयः ॥ ५२ ॥
2.52 · p. 11
अनुष्टुप्
तरसं मांसमाख्यातं तरसं बलमुच्यते ।वारुणी मदिरा ज्ञेया पश्चिमा दिक् च वारुणी ॥ ५३ ॥
2.53 · p. 11
अनुष्टुप्
मन्दुरा वाजिशाला स्यादावासोऽपि च मन्दुरा ।सूनृतः शिक्षितो मर्त्यः सूनृतं सत्यवद्वचः ॥ ५४ ॥
2.54 · p. 11
अनुष्टुप्
कीकशो वानरो भिक्षुः कीर्तितं चास्थि कीकसम् ।रोमन्थः स्यात् पशूद्गारे रोमन्थः कीटवर्तनम् ॥ ५५ ॥
2.55 · p. 11
अनुष्टुप्
हरिद्रा रजनी प्रोक्ता रजनी च विभावरी ।परिघः परिघातः स्यात् परिघो दण्ड उच्यते ॥ ५६ ॥
2.56 · p. 11
अनुष्टुप्
धरा पृथ्वी धरा धारा धरः शैलो धरा धृतिः ।मूले कदलिका कन्दः कन्दो वारिद उच्यते ॥ ५७ ॥
2.57 · p. 11
अनुष्टुप्
करो हस्तः करो रश्मिः करः कर्षकवेतनम् ।द्वन्द्वे दुन्दुभिराख्या च दुन्दुभिः स्यात्तथानकः ॥ ५८ ॥
2.58 · p. 11
अनुष्टुप्
प्रोक्तं विपिनमुद्यानमुद्यानं गमनं स्मृतम् ।वर्द्धनी च घटी ज्ञेया वर्द्धनी तृणकूर्चिका ॥ ५९ ॥
2.59 · p. 11
अनुष्टुप्
कुङ्कुमं रुधिरं ज्ञेयं कुङ्कुमं क्षतजं स्मृतम् ।नन्दनः स्वजनः पुत्रो नन्दनः स्वर्गवाटिका ॥ ६० ॥
2.60 · p. 11
अनुष्टुप्
मानसं चित्तमित्युक्तं मानसं त्रैदशं सरः ।धावनं शोधनं प्रोक्तं धावनं शीघ्रवर्तनम् ॥ ६१ ॥
2.61 · p. 11
अनुष्टुप्
स्यन्दनाख्या द्रुमे स्तावे स्यन्दनो रथ उच्यते ।तुरायणः समः सङ्गो क्रियाहीनस्तुरायणः ॥ ६२ ॥
2.62 · p. 11
अनुष्टुप्
परायण ऋणे स्थाने तत्परश्च परायणः ।करिपृष्ठे कुले वेणौ वंशेति कविभिः स्मृता ॥ ६३ ॥
2.63 · p. 12
अनुष्टुप्
जटाजूटे शिखण्डोक्तिः कलापेऽपि शिखण्डिनः ।शिष्टभोजनदेहेषु पात्रशब्दः प्रचक्षते ॥ ६४ ॥
2.64 · p. 12
अनुष्टुप्
हंसेऽग्नौ गरुडे चन्द्रे द्विजराज इति ध्वनिः ।कैवर्तेऽपि च कैवर्तः कैवर्तः सलिलेऽम्बरे ॥ ६५ ॥
2.65 · p. 12
अनुष्टुप्
पिप्पलाख्या जलाश्वत्थ-वस्त्र-कर्तव्य-वस्तुषु ।चन्द्रमाश्चन्दनो ज्ञेयश्चन्दनो मलयोद्भवः ॥ ६६ ॥
2.66 · p. 12
अनुष्टुप्
सकला व्रीहयः सस्यं विज्ञेयं सस्यमक्षिवः ।दृषद्यरण्यसस्ये च कुरुविन्द इति श्रुतिः ॥ ६७ ॥
2.67 · p. 12
अनुष्टुप्
करवीरश्च मारः स्यादङ्गुष्ठः करवीरकः ।करिणां बन्धनस्थानं वारिर्वारि जलं मतम् ॥ ६८ ॥
2.68 · p. 12
अनुष्टुप्
प्रचुरं भूरि विज्ञेयं भूरि काञ्चनमेव च ।सूदः स्यात्सूपकारश्च सूदो ज्ञेयः कुटुम्बिकः ॥ ६९ ॥
2.69 · p. 12
अनुष्टुप्
भषको दुर्जनो ज्ञेयो भषकः सरमासुतः ।सूतो भास्कर इत्युक्तः सूतः सारथिरुच्यते ॥ ७० ॥
2.70 · p. 12
अनुष्टुप्
प्रतिरोधकरो वा स्याद् दुर्जनः प्रतिरोधकः ।सौवीरोऽश्वविशेषः स्यात् सौवीरं काञ्जिकं मतम् ॥ ७१ ॥
2.71 · p. 12
अनुष्टुप्
दौर्मनस्यं घृणा प्रोक्तं घृणा च करुणा मता ।भङ्गः पलायनं वीचिसंस्थं भङ्गश्च भञ्जनम् ॥ ७२ ॥
2.72 · p. 12
अनुष्टुप्
तीक्ष्णं तीव्रं समाख्यातं तीक्ष्णं लोहमुशन्ति च ।मार्गणो याचको ज्ञेयो मार्गणोऽपि शिलीमुखः ॥ ७३ ॥
2.73 · p. 12
अनुष्टुप्
भृङ्गः शिलीमुखः ख्यातो नाराचोऽपि शिलीमुखः ।भूकुण्डी सूकरः प्रोक्तो भूकुण्डी च कृषीवलः ॥ ७४ ॥
2.74 · p. 12
अनुष्टुप्
पुस्तके प्लुतमश्वस्य गतौ मात्रात्रये प्लुतम् ।रुक्मं हेम विजानीयाद् रुक्मं रजतमुच्यते ॥ ७५ ॥
2.75 · p. 12
अनुष्टुप्
मृणालं बिसिनीमूलं मृणालं च जलालुकम् ।काव्या तु पूतना ज्ञेया काव्यं ग्रन्थनिबन्धनम् ॥ ७६ ॥
2.76 · p. 12
अनुष्टुप्
उत्पलं नलिनं प्रोक्तमुत्पलं कुष्ठमौषधम् ।वासुरा चालनी ज्ञेया वासुरा बलभी मता ॥ ७७ ॥
2.77 · p. 12
अनुष्टुप्
रजते कलधौतं स्यात् कलधौतं च काञ्चनम् ।प्रधानं प्रकृतिः प्रज्ञा प्रधानं विदुरुत्तमम् ॥ ७८ ॥
2.78 · p. 12
अनुष्टुप्
चक्रमप्यरविन्दं स्यादरविन्दं सरोरुहम् ।शृगालो जम्बुको भीरुः शृगालो दानवो मतः ॥ ७९ ॥
2.79 · p. 13
अनुष्टुप्
त्रिदशा मरुतः प्रोक्ता मारुतोऽपि समीरणः ।यमशब्दो बुधैरिष्टं कुन्तवस्त्रविशेषयोः ॥ ८० ॥
2.80 · p. 13
अनुष्टुप्
कुण्डलं मण्डलं ज्ञेयं कुण्डलं कर्णभूषणम् ।प्रतिबन्धः कुलाधारः प्रतिबन्धो बलक्रिया ॥ ८१ ॥
2.81 · p. 13
अनुष्टुप्
वर्तिर्दीपशिखासूत्रं वर्तिर्नेत्राञ्जनोचिता ।धूम्याटश्च कलिङ्गः स्यात् कलिङ्गो देशवाचकः ॥ ८२ ॥
2.82 · p. 13
अनुष्टुप्
शैले तृणविशेषेऽर्के त्रिषु गर्मुदिति ध्वनिः ।वाल्मीकश्च स्यमीकः स्याद् वाल्मीको वाग्विशारदः ॥ ८३ ॥
2.83 · p. 13
अनुष्टुप्
सामजः कुञ्जरो ज्ञेयः सामजः समयो मतः ।वाजिका पक्षिजातिः स्याद् वाजिका नीलमक्षिका ॥ ८४ ॥
2.84 · p. 13
अनुष्टुप्
सारसो लक्ष्मणः प्रोक्तो लक्ष्मणो राघवानुजः ।लक्ष्माख्यः कन्दजातिः स्याच्चिह्नं लक्ष्म च कथ्यते ॥ ८५ ॥
2.85 · p. 13
अनुष्टुप्
शाङ्करो वृषभश्छन्दोविशेषे शाङ्करं मतम् ।कञ्जः केशविशेषे च कञ्जं पीयूषपद्मयोः ॥ ८६ ॥
2.86 · p. 13
अनुष्टुप्