कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthadhvanimañjarī

अनेकार्थध्वनिमञ्जरी Anekārthadhvanimañjarī

226 verses · text only, tagging comes next

पादाधिकारः

इति काश्मीराम्नाये महाक्षपणकविरचिते अनेकार्थध्वनिमञ्जर्यामर्धश्लोकाधिकारोः द्वितीयः ।

अथ पादाधिकारमाह--

राजा चन्द्रो नृपे राजा पयः क्षीरं पयो जलम् ।मित्रो भानुः सुहृन्मित्रं दरं छिद्रं दरं भयम् ॥ १ ॥
3.1 · p. 13
अनुष्टुप्
श्रीकण्ठस्थावरौ स्थाणू हरश्छागाच्युता अजाः ।गोविन्दो हरिगोसङ्ख्ये शिवकृष्णौ वृषाकपी ॥ २ ॥
3.2 · p. 13
अनुष्टुप्
शरीरोत्सेधयोः कायः सन्धावधिप्रतिज्ञयोः ।तेजःपुरीषयोर्वर्चः सौवर्चो भक्तरक्तयोः ॥ ३ ॥
3.3 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
सरित्समुद्रयोः सिन्धुः शालः प्राकारवृक्षयोः ।चातकापत्ययोस्तोकं पापव्यसनयोरघम् ॥ ४ ॥
3.4 · p. 13
अनुष्टुप्
पिपासालोभयोस्तृष्णा भुवनं लोकतोययोः ।शष्पं बालतृणं प्रोक्तं दारु काष्ठं निगद्यते ॥ ५ ॥
3.5 · p. 13
अनुष्टुप्
शैशवं दारकं बाल्यं किङ्किणी क्षुद्रघण्टिका ।मध्याश्वमध्ययोः कश्यं वाडवो वह्निविप्रयोः ॥ ६ ॥
3.6 · p. 14
अनुष्टुप्
निस्त्रिंशौ खड्गपापिष्ठौ भृङ्गबाणौ शिलीमुखौ ।सुरसीमा च निमिषौ बाष्प उष्मा तथा शुचौ ॥ ७ ॥
3.7 · p. 14
अनुष्टुप्
ओघः पूरोऽथ वेगश्च वनं काननमुच्यते ।इला भूमिर्मता गौश्च संज्ञा संविच्च नाम च ॥ ८ ॥
3.8 · p. 14
अनुष्टुप्
शैलोऽद्रिरंशुमानद्रिर्भानुः स्वर्भानुरर्यमा ।सूतो भास्कर इत्युक्तः सूतः सारथिरुच्यते ॥ ९ ॥
3.9 · p. 14
अनुष्टुप्
वृक्षजातिगजौ पीलू प्रदरौ रोगमार्गणौ ।सूकरोष्ट्रौ च करभौ हावौ क्रन्दनविभ्रमौ ॥ १० ॥
3.10 · p. 14
अनुष्टुप्
वनारण्यानलौ दावौ जीमूतौ मेघपर्वतौ ।बल्लवौ सूदगोपालौ चिकुरौ केशचञ्चलौ ॥ ११ ॥
3.11 · p. 14
अनुष्टुप्
मयोष्ट्रौ करभौ प्रोक्तौ लक्ष्मीर्मा च निगद्यते ।कं पानीयं शिरः प्रोक्तं नीहारो हिममुच्यते ॥ १२ ॥
3.12 · p. 14
अनुष्टुप्
अरिष्टपिष्टकौ कल्कौ वृत्रौ दानववैरिणौ ।पङ्गुपद्मारुणौ शोणावम्बरे व्योमवाससी ॥ १३ ॥
3.13 · p. 14
अनुष्टुप्
उदानाख्यौ मरुद्द्वन्द्वौ न्यग्रोधौ वटकामुकौ ।ध्वाङ्क्षः काको बको ध्वाङ्क्षो नगः शैलो द्रुमो नगः ॥ १४ ॥
3.14 · p. 14
अनुष्टुप्
खलो ह्रस्वः खलः क्रूरः क्षितिः पृथ्वी क्षितिः क्षयः ।बदरे सूकरे कोलः कलिः कलहकालयोः ॥ १५ ॥
3.15 · p. 14
अनुष्टुप्
काण्डः शरो दलः काण्डं चोरः स्यात् प्रतिहारकः ।क्षयं गेहे क्षयो ह्रासः श्रमः खेदः श्रमः क्रिया ॥ १६ ॥
3.16 · p. 14
अनुष्टुप्
कण्ठो ध्वनिर्गलः कण्ठः प्रहिः कूपः प्रहिः सरः ।शशाङ्कस्वर्णयोश्चन्द्रः किटिः सूकर-लोहयोः ॥ १७ ॥
3.17 · p. 14
अनुष्टुप्
बर्हिर्दर्भो जलं बर्हिर्लाङ्गलं हलमिन्धनम् ।निमित्त-हृदयौ हेतू हीरौ वज्र-महेश्वरौ ॥ १८ ॥
3.18 · p. 14
अनुष्टुप्
काश्मीरजशुकौ कीरौ वीरौ विक्रम-बान्धवौ ।कौशिकौ वासवोलूकौ सायकावसिमार्गणौ ॥ १९ ॥
3.19 · p. 14
अनुष्टुप्
ध्वान्ताचलौ मतौ विन्ध्यौ शिखिनी बर्हिपावकौ ।धीरौ सात्विकधीमन्तौ वरौ श्रेष्ठहुताशनौ ॥ २० ॥
3.20 · p. 14
अनुष्टुप्
उत्सङ्गसूकरौ क्रोडौ वत्सौ तर्णकपुत्रकौ ।कान्त्यनातपयोच्छाया दया हिंसानुकम्पयोः ॥ २१ ॥
3.21 · p. 14
अनुष्टुप्
द्रुमो वृक्षेषु रत्नेषु ध्रुवौ नक्षत्रनिश्चलौ ।सङ्घाते पूरणे पूरः सूरः सूर्यनरेन्द्रयोः ॥ २२ ॥
3.22 · p. 15
अनुष्टुप्
पतङ्गौ शलभादित्यौ अर्कौ स्फटिकभास्करौ ।शूरो योधे तथादित्ये बभ्रू नकुलपिङ्गलौ ॥ २३ ॥
3.23 · p. 15
अनुष्टुप्
स्पष्टप्राज्ञौ मतौ व्यक्तौ दीप्तिः स्वेच्छा तथा रुचिः ।गुह्येऽकार्ये च कौपीनं संज्ञे स्तो नाम-चेतने ॥ २४ ॥
3.24 · p. 15
अनुष्टुप्
मधुरं च प्रियं स्वादु शम्भुर्ब्रह्मा महेश्वरौ ।नित्यं स्वं च निजं प्रोक्तं बलदीप्तिस्तथौजसी ॥ २५ ॥
3.25 · p. 15
अनुष्टुप्
हायनौ वर्षभोज्यौ च हेती शस्त्रार्चिषी मते ।आशासंज्ञे ककुप्प्रोक्ते स्तनमेघौ पयोधरौ ॥ २६ ॥
3.26 · p. 15
अनुष्टुप्
अभिरूपो बुधे कान्ते यामिः स्वसृकुलस्त्रियोः ।उदयेऽधिगमे प्राप्तिर्वह्निसूर्यौ विभावसू ॥ २७ ॥
3.27 · p. 15
अनुष्टुप्
वृजिनं मलिने पापे प्रज्ञानं बुद्धिचिह्नयोः ।समर्थेऽधिकृतेऽध्यक्षो वीर्योद्योगौ पराक्रमौ ॥ २८ ॥
3.28 · p. 15
अनुष्टुप्
वराहे मूषके भीरुः प्लवङ्गः कपिभेकयोः ।मूल्ये पूजाविधावर्घो दृष्टिरक्ष्णि तथा मता ॥ २९ ॥
3.29 · p. 15
अनुष्टुप्
चीरं च वल्कले वस्त्रे कृकः कण्ठे तथोदरे ।पार्थारौ श्रवणे कर्णः सूनुः पुत्रे तथाऽनुजे ॥ ३० ॥
3.30 · p. 15
अनुष्टुप्
कुः स्थाने समरे मत्स्ये रूपमूर्ते च दुर्भरे ।अवटाख्यः कूपगर्तौ निमित्ते हेतुलक्षणे ॥ ३१ ॥
3.31 · p. 15
अनुष्टुप्
हिते शक्ते समर्थः स्यात् कोमलाऽकठिनौ मृदू ।स्थाणू स्तम्भहरौ प्रोक्तौ दन्तविप्राण्डजा द्विजाः ॥ ३२ ॥
3.32 · p. 15
अनुष्टुप्
प्रियेऽसत्ये व्यलीकं च वचो वाक्यं च गीर्मता ।अन्तेवासिपदं शिष्ये नापिते च तथा स्मृतम् ॥ ३३ ॥
3.33 · p. 15
अनुष्टुप्
अन्तेवासिगणानां च नानाशब्दार्थमञ्जरी ।उपयच्छतु सौभाग्यं पठतां च दिवानिशम् ॥ ३४ ॥
3.34 · p. 15
अनुष्टुप्