कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Avyayasaṅgrahanighaṇṭu

अव्ययसङ्ग्रहनिघण्टु Avyayasaṅgrahanighaṇṭu

55 verses · text only, tagging comes next

एकाक्षराध्यायः

अव्ययसङ्ग्रहनिघण्टुः*

शाकल्यमल्लुभट्टेन विरचितः

प्रणम्य शिरसा देवं भद्राद्रि निलयं हरिम् ।अथाव्ययानि कतिचित्सङ्गृह्यन्ते यथाश्रुतम् ॥ १ ॥
1.1 · p. 50
अनुष्टुप्
अः स्याद्भेदे निषेधार्थे स्वल्पे चाप्यनृतार्थके ।आस्तु सन्तापने कोपेऽप्याङ् च स्यादीषदर्थके ॥ २ ॥
1.2 · p. 50
अनुष्टुप्
क्रियायोगे तथा व्याप्तौ सीम्नी विस्तारकेऽपि ।अव्याक्षेपे च वाक्ये च प्रगृह्यस्मृतिहर्षयोः ॥ ३ ॥
1.3 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अद्भुते त्वविचित्रार्थे खेदे स्याद्रोषवाचके ।इस्कोपे दुःखभावे च स्यादुपर्यर्थवाचके ।क्रोधे त्वामन्त्रणे चापि स्यादूरक्षोपदेशयोः ॥ ४ ॥
1.4 · p. 50
अनुष्टुप्
ऋकारश्चापि ॠकारो द्वावेतौ वाक्यकृत्स्नयोः ।ए कोपे दुःखभावे च साक्षात्कारे च सन्निधौ ॥ ५ ॥
1.5 · p. 51
अनुष्टुप्
निमन्त्रणेऽपि चाह्वाने स्मृतौ ऐकार इत्यपि ।ओङ्कारः स्यादनुमतौ परमात्मन्युपक्रमे ॥ ६ ॥
1.6 · p. 51
अनुष्टुप्
औ सम्बुद्धौ समाह्वाने चानुवाक्येऽप्युदाहरे ।मिथो योगेऽप्युच्चये च भेदे चाप्यवधारणे ॥ ७ ॥
1.7 · p. 51
अनुष्टुप्
अः स्याद्दूरे शोभने च दुःखे निर्भर्त्सनेऽपि च ।कुत्सने धिङ् निन्दने च निकामे च निगद्यते ॥ ८ ॥
1.8 · p. 52
अनुष्टुप्
नञीषदर्थे चाभावे तद्विरुद्धतदन्ययोः ।प्रश्ने विकल्पे नस्विच्च निषेधे निश्चये च निः ॥ ९ ॥
1.9 · p. 52
अनुष्टुप्
स्म स्मृतौ च निषेधार्थे प्र प्राधर्म्यप्रहर्षयोः ।वै प्रसिद्धे समारम्भे संयोगे च निमन्त्रणे ॥ १० ॥
1.10 · p. 52
अनुष्टुप्
वि निषेथे पृथग्भावे वा विकल्पोपमानयोः ।स्वर् स्वर्गे परलोके च शं सुखे शोभनेऽपि च ॥ ११ ॥
1.11 · p. 52
अनुष्टुप्
समये समीचीने सु स्याच्छोभनपूजयोः ।हं सबुद्धौ प्रसिद्धार्थे हा जुगुप्सा शुभार्तिषु ।हि हिं शब्दौ हेतुके च स्याद्येऽपि च विशेषणे ॥ १२ ॥
1.12 · p. 52
अनुष्टुप्metre not read in every line
ही विषादे विस्मये च हूं सम्प्रश्नवितर्कयोः ।हुं सम्बुद्धौ भर्त्सने च हूः स्याद्विस्मयहर्षयोः ॥ १३ ॥
1.13 · p. 53
अनुष्टुप्
है है व्यस्तौ समस्तौ च हृतिसम्बोधनार्थयोः ।हो हौ तदेव तु हि च सह वै पादपूरणे ॥ १४ ॥
1.14 · p. 54
अनुष्टुप्