कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Avyayasaṅgrahanighaṇṭu

अव्ययसङ्ग्रहनिघण्टु Avyayasaṅgrahanighaṇṭu

55 verses · text only, tagging comes next

द्व्यक्षराध्यायः

इति अव्ययसङ्ग्रहे एकाक्षराध्यायः

सहैकवारे सम्बुद्धिभेदे निर्धारणार्थके ।कच्चित्प्रश्ने विवादे च द्वेषसम्भावनार्थयोः ॥ १५ ॥
2.15 · p. 54
अनुष्टुप्
पश्चाच्चरमभागे च प्रतीच्यां नास्ति वाचके ।किं चारम्भे विशेषे च सुष्ठ्वत्यर्थे प्रशंसने ॥ १६ ॥
2.16 · p. 54
अनुष्टुप्
बाढं धृते(ढेः) त्वनुमते हन्त हर्षोपदेशयोः ।विषादे कम्पनार्थे च स्वस्त्याशीः क्षेमवच्ययोः ॥ १७ ॥
2.17 · p. 55
अनुष्टुप्
निष्पापे मङ्गले पुण्ये बत स्यादनुकम्पने ।सन्तोषेऽपि च खेदे च सम्बुद्धौ विस्मयेऽपि च ॥ १८ ॥
2.18 · p. 55
अनुष्टुप्
ततश्चानन्तरे पञ्चम्यर्थे प्रश्नेऽपि च स्मृतः ।कुतोऽनुलोपे प्रश्ने च पञ्चम्यर्थे निगद्यते ॥इति प्रकारे सम्पूर्तौ करणे हेतुकेऽपि च ।आद्यर्थेऽप्यति भूतार्थेऽप्यधिके चाप्यतिक्रमे ॥ १९ ॥
2.19 · p. 55
अनुष्टुप्
प्रति प्रतिनिधावित्थं भूताख्यानाभिमुख्ययोः ।प्रतिदाने लक्षणे च वीप्सायां धारणेऽपि च ॥ २० ॥
2.20 · p. 56
अनुष्टुप्
उतो वितर्के प्रश्ने च विकल्पे च समुच्यये ।पीडेर्ष्यानुमतिष्वस्तु स्यादतो हेतुचित्रयोः ॥ २१ ॥
2.21 · p. 56
अनुष्टुप्
अथ स्यादुपदेशे च विकल्पे मङ्गलेऽपि च ।प्रश्नेऽप्यर्थे तथैव स्यादानन्तर्ये जुगुप्सके ॥ २२ ॥
2.22 · p. 57
अनुष्टुप्
मिथोऽन्योन्ये रहस्ये च कथं प्रश्नप्रकारयोः ।सम्भ्रमे सम्भवे चापि सादृश्येऽप्यनतिक्रमे ॥ २३ ॥
2.23 · p. 57
अनुष्टुप्
वीप्सायां योग्यतार्थे च यथा चेति निगद्यते ।तथा च निश्चये साम्येऽप्यनुज्ञायां समुच्चये ॥ २४ ॥
2.24 · p. 57
अनुष्टुप्
वृथा निरर्थकाविध्योः प्रादुर्जन्मप्रकाशयोः ।नन्वनुज्ञे त्विह पृच्छानुनयेष्ववधारणे ॥ २५ ॥
2.25 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
निमन्त्रणे च नाना तु विना नैकोभयार्थयोः ।हेतुसादृश्ययोः स्थाने मनाक् तु स्वल्पमन्ययोः ॥ २६ ॥
2.26 · p. 57
अनुष्टुप्
अन्वयोऽप्यनुक्रमे भावे सादृश्येऽप्यूहनेऽपि च ।पश्चादर्थे समीपार्थे किन्नु प्रश्नवितर्कयोः ॥ २७ ॥
2.27 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुनः प्रश्नेऽप्यप्रथमे भेदे चाप्यवधारणे ।आवृत्यर्थे शनैश्चापि स्वैरे मन्दे निगद्यते ॥ २८ ॥
2.28 · p. 58
अनुष्टुप्
नूनं च निश्चये तर्केऽप्युपहीनेऽन्तिकेऽपि च ।आरम्भे चर्यकरणेऽप्यधिके द्व्यर्थकेऽपि च ॥ २९ ॥
2.29 · p. 58
अनुष्टुप्
अयि स्याद्भवनार्थे च शङ्कायाङ्गर्हणेऽपि च ।प्रश्ने समुच्चये चापि स्यात् त्यागे चावकृष्टके ॥ ३० ॥
2.30 · p. 59
अनुष्टुप्
अभि स्यादाभिमुख्ये च वीप्सायामर्थगौरवे ।भो भोः सम्बोधनेऽप्यग्रेऽप्यलमर्थे च कथ्यते ॥ ३१ ॥
2.31 · p. 59
अनुष्टुप्
तदैव भो बो भोः बोश्च सामीप्यर्थे समांशके ।जुगुप्सायां च मामा तु सुहार्देऽप्यन्तिकेऽपि च ॥ ३२ ॥
2.32 · p. 59
अनुष्टुप्
अलमर्थे विचारे च नाम कुत्साप्रकाश्ययोः ।सम्भाव्योऽङ्गीकृते क्रोधे किमु मर्शे विकल्पके ॥ ३३ ॥
2.33 · p. 59
अनुष्टुप्
सम्भावनायां सम्बुद्धौ कामं चानुमतौ नये ।प्रश्ने प्रकामे कार्ये चाप्यये क्रोधे स्मृतावपि ॥ ३४ ॥
2.34 · p. 60
अनुष्टुप्
विषादे सम्भ्रमे च स्यात्पराहीनेऽप्यथावृते ।पुरोऽग्रे प्रथमेऽपि स्यात्पुरा प्रत्ने प्रबन्धके ॥ ३५ ॥
2.35 · p. 60
अनुष्टुप्
आगाम्यतीते निकटे परि स्यात्पक्ववाचके ।भावे च भूषणे लक्ष्ये वर्जने चुम्बनेsपि च ॥ ३६ ॥
2.36 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: s
आराद्दूरे समीपार्थे तिरश्चान्तर्धिवाचके ।पृथगर्थे तिरश्चीने हिरक्स्यादन्त्यवाचके ॥ ३७ ॥
2.37 · p. 60
अनुष्टुप्
उर्युर्युररित्येते विस्तारेऽङ्गीकृतौ त्रयः ।किल सम्भावनायां च वार्तायां स्मृतिवाचके ॥ ३८ ॥
2.38 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 उ (syllables merged)
अनुवादेऽप्यनुनये खलु वाक्यनिषेधयोः ।जिज्ञासेऽनुनयेऽप्यर्थालङ्कारे प्रियवाचके ॥ ३९ ॥
2.39 · p. 61
अनुष्टुप्
शक्तिभूषणपर्याप्तिवारणानर्थकेष्वलम् ।एवं साम्यमनुज्ञानं प्रकारार्थाभिधानकः ॥ ४० ॥
2.40 · p. 61
अनुष्टुप्
अवावलम्बने ज्ञानेऽप्येव साम्येऽवधारणे ।यावत्तावच्च साकल्ये इव साम्येऽवधारणे ॥ ४१ ॥
2.41 · p. 61
अनुष्टुप्
मानेऽवधारणे च स्याद्यद्वत्प्रश्ने वितर्कके ।प्राध्वं नम्रेऽनुकूल्ये च शश्वत्प्रत्ने निरन्तरे ॥ ४२ ॥
2.42 · p. 62
अनुष्टुप्
भृशं स्वल्पे तूष्णीमर्थे सह सादृश्यवाचके ।साकल्ये यौगपद्ये च समृद्धौ च निगद्यते ॥ ४३ ॥
2.43 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
आहो धिगर्थे आश्चर्ये विषादे करुणेऽपि च ।तर्हि प्रश्ने चोत्तरे च क्षणाय क्षणयोर्मुहुः ॥ ४४ ॥
2.44 · p. 62
अनुष्टुप्
आहो उताहो इत्येतौ विचारप्रश्नयोरपि ।हाहा स्यादद्भुते खेदे हिं हिं विस्मयहर्षयोः ॥ ४५ ॥
2.45 · p. 63
अनुष्टुप्
साक्षात्प्रत्यक्षके तुल्ये मङ्क्षु शीघ्रभृशार्थयोः ।सङ्क्षु वेगे सङ्क्षुणितेऽप्यङ्क्षु स्यात् स्पर्शनेऽपि च ॥ ४६ ॥
2.46 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)