All kośas › Avyayasaṅgrahanighaṇṭu
अव्ययसङ्ग्रहनिघण्टु Avyayasaṅgrahanighaṇṭu
55 verses · text only, tagging comes next
त्र्यक्षराध्यायः
इति अव्ययसङ्ग्रहे द्व्यक्षराध्यायः
ननु च प्रश्नदुष्टोक्त्योः अपष्टुस्पर्शनिन्दयोः ।अभीक्ष्णमनिशे शीघ्रे मुहुरर्थप्रकर्षयोः ॥ ४७ ॥
3.47 · p. 64
अनुष्टुप्
पुरस्तात्पूर्वकेऽग्रे च प्रथमे च पुरार्धके ।किमुतातिशये प्रश्ने विकल्पेऽप्यथ साम्प्रतम् ॥ ४८ ॥
3.48 · p. 64
अनुष्टुप्
युक्तार्थेऽप्यधुनार्थे च समयान्तिकमध्ययोः ।प्रातः पूर्वेऽह्नि पूर्वेद्युरन्तरान्तिकमध्ययोः ॥ ४९ ॥
3.49 · p. 64
अनुष्टुप्
अविनार्थे स्यादथोपांशु रहस्यकृतजल्पने ।अञ्जसा च तत्वे च त्वरिते च निगद्यते ॥ ५० ॥
3.50 · p. 64
metre not recognisednearly अनुष्टुप्
सहसा शून्यके हेतौ सद्योऽर्थे कथ्यते बुधैः ।अहह परितापे च क्लेशे हर्षानुलेपयोः ॥ ५१ ॥
3.51 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
अहहा चाद्भुते खेदे भो हो हे हुङ्कृतौ स्थितौ ।
3.6 · p. 65