कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dvirūpādikośa

द्विरूपादिकोश Dvirūpādikośa

267 verses · text only, tagging comes next

Part 1 (1/3)

अथ श्रीहर्षकृत द्विरूपादिकोशप्रारम्भः—(उपयुक्तांशसङ्ग्रह्पुस्तकात्)श्लो ॥ तुषाराद्रिप्रतीकाशं तुलसीदामभूषणं ।
1
अनुष्टुप्metre not read in every line
तुरङ्गममुखं वन्दे तुङ्गसारस्वतप्रदम् ॥
2
अनुष्टुप्metre not read in every line
(१)उमारमणसुत्राम विरिंच्यादिसुरांचितं ।समस्तविघ्नहन्तारमर्वाननमहं भजे ॥
3
अनुष्टुप्metre not read in every line
(२) प्रबोधमाधातुमशाब्दिकानां कृपामवाप्तुं च सतांकवीनां ।द्विरूपकोशो रचितो विचार्य बहुप्रबन्धस्थितशब्दभेदान् ॥
4
उपेन्द्रवज्रा
॥ कृपामुपेत्यापि सतां कवीनां कृतो मया रूपमवाप्य शब्द ३ ॥
5
भेदप्रकाशोखिलवाङ्मयार्थः ।ज्ञात्वा च पूर्वप्रचुरान्प्रयोगान् प्रामाणिकोदाहरणानि मत्वा ।रूपादिभेदेष्वपि लक्षणेषु विचक्षणो निश्चिनुयात्सुशब्दान् ॥
6
इन्द्रवज्राmetre not read in every line
(४) द्विलिङ्गताच्प्रत्ययहल्कृताम्भिदां सपञ्चकद्वित्रिचतुःप्रकारात् ।भूमैकवाचित्वमपीह वाचां श्रीहर्षसूरिर्वितनोति कोशे ॥
7
upajati mixed
॥ क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोत्र च ।
8
अनुष्टुप्
(क्वचिदर्थान्तरोल्लेखात्) क्वचिद्विभक्तिभेदैश्च शब्दानां रूढितः क्वचित् ॥ ५ ॥
5
अनुष्टुप्
॥ एतत्कोशपदान्येव पौर्वापर्यविपर्ययात् ।
10
अनुष्टुप्
न्यस्तानि शीघ्रबोधार्थमकारादिक्रमादिह ॥ नानादेशसमानीतपुस्तकालोक ६ ॥
11
अनुष्टुप्
नादपि ।सन्देहस्यानपगमाद्यथामातृकमङ्कितम् ॥ न तत्र मम दोषोस्ति तदन्विष्याखिलं पुनः ।
12
अनुष्टुप्metre not read in every line
दोषज्ञैःपरिहर्तव्यो दोष इत्यर्थ्यते मुहुः ॥
13
अनुष्टुप्metre not read in every line
द्विरूपपद्धतिर्यथा — द्विरूपकोशे अ,आ, एतदादिशब्दाः ।भवेदन्धुस्तथाऽऽधुश्च स्यादहिस्त्वहिकोऽपि च ।भवेदन्धं कबन्धञ्चाप्यहो आहो प्रकीर्तितः ॥ १ ॥
1
अनुष्टुप्metre not read in every line
अरे चारेऽस्रमास्रं सात्यश्चान्तोऽश्रु चास्रुवत् ।अर्द्रमार्द्रञ्चाभ्रमाभ्रमम्लश्चाम्लः प्रकीर्तितः ॥ २ ॥
2
metre not recognisednearly अनुष्टुप्
अट्टश्चाट्टालकश्च स्या दळिराळिश्च कथ्यते ।अवूपश्चैवपूपश्च स्यादप्पतिरपांपतिः ॥ ३ ॥
3
अनुष्टुप्
विद्यादगारमागारमपगामापगामपि ।अरातिमारातिमथो गस्त्योगस्तिरेव च ॥ ४ ॥
4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (syllables merged)
भवेदमर्ष आमर्षोऽप्यळीकमळिकं तथा ।अन्वयश्चान्ववायस्स्यादक्षतिश्चाक्षतं तथा ॥ ५ ॥
5
अनुष्टुप्
अध्युष्टं चाप्यध्युषितमभ्यूषोभ्युष एव च ।अप्सरा अप्यप्सरस अगुरुश्चागरुस्तथा ॥ ६ ॥
6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्य (wrong syllable)
अवाची स्यादपाचीचाप्यररं चाररी तथा ।अवन्तिश्चाप्यवन्ती स्यादर्गळा चार्गळं तथा ॥ ७ ॥
7
अनुष्टुप्
भवेदश्रीलमश्लीलमञ्चलञ्चाञ्चलं समे ।शुष्केऽप्यकालमाकालमन्तिकश्चान्तिकापि च ॥ ८ ॥
8
अनुष्टुप्
स्यादन्वितं तथान्वीतममिषं चामिषं तथा ।अवनी चावनिः प्रोक्ताऽजगरोऽजगलो भवेत् ॥ ९ ॥
9
अनुष्टुप्
अवमानोऽपमानस्स्या दघमर्षोऽघमर्षणम् ।अहङ्कारश्च हंकारोऽप्यवहेळावहेळना ॥ १० ॥
10
अनुष्टुप्
भवेदक्षौहिणी चम्वा मक्षौहिण्यपि गीयते ।अकूपारश्च कूपारोऽटरुषश्चाटरूषवत् ॥ ११ ॥
11
अनुष्टुप्
अहं वीरश्च हं वीरोऽप्यवश्यायस्त्ववश्ययः ।अनड्वाही चानडुही चापतीर्थं पतीर्थवत् ॥ १२ ॥
12
अनुष्टुप्
अपोगण्डस्तु पोगण्डोऽप्यपिधानं पिधानकं ।अवतारश्चावतरोऽवहितं वहितं तथा ॥ १३ ॥
13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
अन्तरिक्षं चान्तरीक्षमार्यश्चार्यः प्रकीर्तितः ।आटिरात्रिर्भवेच्चाहि तुन्डिको य्पहितुण्डिकः ॥ १४ ॥
14
अनुष्टुप्
आशीराश्याजिराजी स्या दाळिश्चाळी च कथ्यते ।आश्रिरश्रिर्निगदिता स्यादायस्त्वायुषा सह ॥ १५ ॥
15
अनुष्टुप्
आपश्चैवापसा तुल्याः स्यादाहतमनाहतं ।आतिथ्यं चातिथेयं च स्यादावासस्त्ववासवत् ॥ १६ ॥
16
अनुष्टुप्
आवालमालवालं च स्यादालस्योलसोऽपि च ।आलापस्स्या दालपनमाप्लावश्चाप्लवस्तथा ॥ १७ ॥
17
अनुष्टुप्
आमिक्षा स्यादमिक्षा चाप्यापान्यास्थानमित्यपि ।अश्रयाशोऽप्याश्रयाशो भवेदान्वीषकी तथा ॥ १८ ॥
18
अनुष्टुप्
आ -इ-उ-ऋ-ए-ऐ-कआन्वीक्षकीसमाचारग्वधारागवधौ स्मृतौ ।स्यातामाकारणाकाराविष्टमीष्टमपि स्मृतम् ॥ १८ ॥
18
अनुष्टुप्metre not read in every line
इन्दिरास्यात्तथेन्दीरापीङ्गुदीचेङ्गुदोऽपि च ।इषिका स्यादिषीका च स्यादीपेशा तथैव च ॥ १९ ॥
19
अनुष्टुप्
ईश्वरी चेश्वरा च स्या दुतमूतमपि स्मृतं ।उक्थमुक्थ्यमपि प्रोक्तमुषाप्यूषा निगद्यते ॥ २० ॥
20
अनुष्टुप्
उल्मूकमुल्मुकं प्राहुरुषणं तूषणं तथा ।उषरं स्यादूषरं च स्यादुदारोऽनुदारवत् ॥ २१ ॥
21
अनुष्टुप्
उत्तमोऽनुत्तमश्च स्या दुदग्रश्चानुदग्रवत् ।भवेदुत्थानमुत्तानमुर्वशी चोर्वशी तथा ॥ २२ ॥
22
अनुष्टुप्
भवेदुल्लोच ऊल्लोच उन्नायश्चोन्नयस्तथा ।उशीरोऽप्युशिरश्च स्यादुच्छ्रायोऽप्युच्छ्रयस्तथा ॥ २३ ॥
23
अनुष्टुप्
उन्दुरुश्चाप्युदीरुस्स्यादुदूखलमुलूखलं ।ऊर्मिश्चोर्मी तथोरुस्स्यादूरू ऋश्यश्च ऋष्यवत् ॥ २४ ॥
24
अनुष्टुप्
ऋषिश्चापि ऋषी च स्या दृभूकऋभुकस्तथा ।ऋश्यप्रोक्ता ऋष्यप्रोक्ता प्येधमाहुस्तधैधसा ॥ २५ ॥
25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ऋ (wrong syllable)
ऐलबिलश्चैडबिड औशीरं चौशिरं तथा ।कङ्गुः कङ्गूश्च कथिता कोषः कोशः कषा कशा ॥ २६ ॥
26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ल (wrong syllable)
क्रिमिःकृमिस्तथा कर्षःकरिषस्स्यात्कुथःकुथा ।भवेत्कक्ष्या च कक्षा च क्रोडाक्रोडं प्रकीर्तितम् ॥ २७ ॥
27
अनुष्टुप्
केळीकेळिरपि प्रोक्ता काषं काशं प्रचक्षते ।भवेत्कुणिश्च कूणिश्च कारूः कारुरपि स्मृतः ॥ २८ ॥
28
अनुष्टुप्
भवेत्कलिश्च कलिका कुपःकूपः प्रकीर्तितः ।क्लिष्टं क्लिशितमप्याहुः क्रीतं क्रीणं प्रकीर्तितम् ॥ २९ ॥
29
अनुष्टुप्
कहळी काहळी च स्यात्कुमुदं कुमुदोऽपि च ।कवाटं च कपाटं च कुर्दनं खुर्दनं समम् ॥ ३० ॥
30
अनुष्टुप्
कलशःकलनश्चैव कृशरः कृसरोऽपि च ।कर्मीणोऽपि च कर्मीरः कुबरः कूबरोऽपि च ॥ ३१ ॥
31
अनुष्टुप्
कुद्दाललश्च कुदालश्च करिण्यां कारिणीति च ।कुशलं कुसलं चापि कोसलोत्तरकोसला ॥ ३२ ॥
32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कपोणिः कपणिश्चापि किलिञ्जश्च किलिञ्जकः ।ककुदं ककुदप्याहुः कटकङ्कटकस्तथा ॥ ३३ ॥
33
अनुष्टुप्
कमलं कमलोवापि कर्षकःकृषकोऽपि च ।कन्दळं कन्दळी च स्यात् कदळीकदळस्तथा ॥ ३४ ॥
34
अनुष्टुप्
कंखणश्चापि कंखाण कोंकाणश्चापि कोंकणः ।किमीरोऽपि किम्मीरस्स्यात्काकणी काकणिस्तथा ॥ ३५ ॥
35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कि (wrong syllable)
कन्धरा कन्धरश्च स्यात्करम्भश्च करम्भया ।कुर्कुरः कुक्कुरोपि स्यात्कुसुमं सुममित्यपि ॥ ३६ ॥
36
अनुष्टुप्
कर्बुरश्चापि कर्बूरः करकः करकापि च ।कराटश्च कराटिश्च किलिनी कीलिणी तथा ॥ ३७ ॥
37
अनुष्टुप्
कमनः कामनश्चापि केसरो नागकेसरः ।करेटुः कर्करेटुश्च कोरकं कोरकोपिच ॥ ३८ ॥
38
अनुष्टुप्
कल्माषश्चापि कल्मासः किरीटं च किरीडवत् ।किसरः केसरश्च स्यात्करटश्च कटस्तथा ॥ ३९ ॥
39
अनुष्टुप्
कृपटं च कृपीटं च करभोपि करम्भकः ।कन्दरःकन्दरा च स्यात् कैकेयी केकयीति च ॥ ४० ॥
40
अनुष्टुप्
करवालः करपालः किकिदीविः किकीदिविः ।कौलटेयः कौलटेरः कृष्णशारो भवेत्तथा ॥ ४१ ॥
41
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
कृष्णसारः कराटीन कलाटीनौ समौ स्मृतौ ।कालनेमिः कालनेमा भवेत्कौमुदकी तथा ॥ ४२ ॥
42
अनुष्टुप्
कौमोदकी कान्यकुब्जं कन्याकुब्जमपि स्मृतं ।खड्गं खड्गः खनी च स्यात्खनिः खेदश्च खेदनम् ॥ ४३ ॥
43
अनुष्टुप्
खरा स्यात्खलिका चापि खुरकः क्षुरकस्तथा ।खलिनं च खलीनं च क्षुरप्रस्स्यात्क्षुरप्रकः ॥ ४४ ॥
44
अनुष्टुप्
खण्डपर्शुः खण्डपरशुः गुप्तं गोपायितं तथा ।गूढं गूढो गुरुर्गुर्वी गृध्नुर्गर्धन इत्यपि ॥ ४५ ॥
45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गर्तो गर्तागिरागीश्च गृहाश्च गृहमुच्यते ।गवी गौश्च ग्रसो ग्रासो गोदा गोदावरी तथा ॥ ४६ ॥
46
अनुष्टुप्
गन्धो गन्धाग्रहोग्राहः गुम्भो गुम्भनमुच्यते ।गन्धर्वोपि च गान्धर्वो गाण्डीवं गाण्डिवं तथा ॥ ४७ ॥
47
अनुष्टुप्
गुग्गुलुर्ग्गुग्गुलोपि स्यात् गम्भीरं च गभीरवत् ।गारुडो गरुडश्च स्यात् ग्रथितं ग्रन्धितं समे ॥ ४८ ॥
48
अनुष्टुप्
ग्रधनं ग्रन्धनं चापि भवेद्गोनास गोनसौ ।गरळं गरमप्याहुर्गणना गणनं तथा ॥ ४९ ॥
49
अनुष्टुप्
गिरीशो गिरिशश्च स्यात् गीरितं गिळितं समे ।गोधिका चापि गुधिका गीर्वाणो गीर्वणोऽपि च ॥ ५० ॥
50
अनुष्टुप्
गन्धवाहो गन्धवहो गण्डभेरुण्डवत्स्मृतः ।भेरुण्डश्चाथ घटवद्घटी चापि प्रकीर्तिता ॥ ५१ ॥
51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
घ्राणं घ्रातमपि प्रोक्तं घटी च घटिका तथा ।घनो घनाघनश्चापि चञ्चुश्चुञ्चूः प्रकीर्तिता ॥ ५२ ॥
52
अनुष्टुप्
चोरश्चौरश्चटुश्चाटुः चोळश्चौळश्चमुश्चमूः ।चेटिश्चेटीचरश्चारः चव्यं च चविकेत्यपि ॥ ५३ ॥
53
अनुष्टुप्
चितिश्चापि चिता चेष्टा चेष्टश्चूडा च चूडवत् ।चण्डालोऽपि च चाण्डालश्चमसश्चामसस्तथा ॥ ५४ ॥
54
अनुष्टुप्
चरित्रं चरितञ्चापि चुलुकं चूलुकं तथा ।चिन्तनी चिन्तनञ्चापि चमुरुश्च चमूरुवत् ॥ ५५ ॥
55
अनुष्टुप्
चेकुरः चिकुरश्चापि चपलं चापलं तथा ।चटूकं चटुकं प्रोक्तं चञ्चलं चलमित्यपि ॥ ५६ ॥
56
अनुष्टुप्
पुटश्चिपुटिश्चस्स्यात् चातुर्यं चातुरीति च ।चक्राङ्गी चापि वक्राङ्गी चतुरश्चातुरस्तथा ॥ ५७ ॥
57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चरणं चरणश्च स्याच्चिरत्नं च चिरन्तनं ।चणसूत्रं भवेदेवं शणसूत्रमपि स्मृतम् ॥ ५८ ॥
58
अनुष्टुप्
छदश्च च्छदनं छन्नं छादितं स्याज्जराजराः ।ज्येष्ठो ज्यैष्ठ्यो जपो जापो जोषा योषा जडं जलम् ॥ ५९ ॥
59
अनुष्टुप्
ज्योत्स्नी ज्योत्स्ना तथा प्रोक्ता जाया यायापि कीर्तिता ।जिह्वा जिंहापि कथिता जृम्भा जृम्भणमित्यपि ॥ ६० ॥
60
अनुष्टुप्
जतुका स्याज्जतूकापि ज्योतिषं ज्यौतिषं तथा ।जठरो जटरश्च स्यात् जटायुश्च जटायुषा ॥ ६१ ॥
61
अनुष्टुप्
जामातापि च यामाता जटीलो जटिलोपि च ।जाम्बवान् जम्बवोऽपि स्यात् जम्बूको जम्बुकोऽपि च ॥ ६२ ॥
62
अनुष्टुप्
जीव सञ्जीवना चापि जरायुस्स्याज्जरायुषा ।जयसंचजयश्चापि झर्झरो जर्जरस्तथा ॥ ६३ ॥
63
अनुष्टुप्
जतुकं च जतु प्रोक्तं जवनं च जवस्तथा ।झल्लरीझल्लरिश्चापि डम्भो दम्भो ढुली डुली ॥ ६४ ॥
64
अनुष्टुप्
डिण्डीरो डिण्डिरोपि स्यात् ढक्की ढक्का च कथ्यते ।तलस्तालः तृषा तृष्णा तालस्ताडस्तनुस्तनूः ॥ ६५ ॥
65
अनुष्टुप्
तोकं तोकस्त्वचात्वक्च तन्द्री तन्द्रा तुषस्तु सः ।तप्तं च तपितं त्रातं त्राणं चापि तटी तटम् ॥ ६६ ॥
66
अनुष्टुप्
तिष्यस्त्रिष्यस्त्विषात्विट्च तारातारमपि स्मृतं ।तपश्च तपसा प्रोक्ता तमश्च तमसा तथा ॥ ६७ ॥
67
अनुष्टुप्
तुंगं तु तुगमप्याहुः स्तेमस्तेमस्तटित्तडित् ।तपिञ्छमपि तापिञ्छं तरुणी तलुनीति च ॥ ६८ ॥
68
अनुष्टुप्
त्रापुषं त्रापुषश्चस्स्यात् त्रिणता तृणतापि च ।तारकं तारका चापि ।त्र्यम्बकश्च त्रियम्बकः ॥ ६९ ॥
69
अनुष्टुप्
तमिस्रं च तमिस्रा स्यात् तिमिरं तमिरं तथा ।तपनस्तापनोपि स्यात् तामसी तामसं तथा ॥ ७० ॥
70
अनुष्टुप्
तिमितं स्तिमितं चापि तिलिप्सस्स्यात् तिलित्सवत् ।तरणिस्तरणी चापि तुवरस्तूवरोपि च ॥ ७१ ॥
71
अनुष्टुप्
तनूरुहं तनुरुहं तामलिप्ता भवेत्तथा ।दामलिप्ता तैलपेजस्तिलपिंजोऽपि च स्मृतः ॥ ७२ ॥
72
अनुष्टुप्
दोर्दोषा द्यौर्दिवं प्रोक्तं द्वार्द्वारमपि कथ्यते ।दृग्दृशा च तथा दूती दूतिर्दासश्च दाशवत् ॥ ७३ ॥
73
अनुष्टुप्
दान्तं च दमितं चापि दिष्टिर्दृष्टिरपि स्मृता ।भवेद्दवश्च दावश्च ।दोला डोला च कथ्यते ॥ ७४ ॥
74
अनुष्टुप्
स्याद्दारा चापि दाराश्च दूत्यं दौत्यमपि स्मृतं ।द्रोणी दोणी च दासेरदासेयौ कथितौ समौ ॥ ७५ ॥
75
अनुष्टुप्
दम्पतीजम्पती चापि दूषणादूषणं तथा ।द्युसदस्युर्दिविषदो द्रुहीणोद्रुहिणस्तथा ॥ ७६ ॥
76
अनुष्टुप्
दाडिमी दाडिमश्चापि दारिद्रश्च दरिद्रवत् ।धूंक्षोध्वांक्षोधुतंधौतंधनीधनिक एव च ॥ ७७ ॥
77
अनुष्टुप्
धूम्रश्च धूमलश्चापि धृष्टोधृष्णुरपि स्मृतः ।भवेद्धम्मिल्लधम्मेल्लौ धवित्रं स्याद्धवित्रकं ॥ ७८ ॥
78
अनुष्टुप्
धूपायितं धूपितं च नगश्च नगसा समः ।नाभीनाभिर्निशानिट्च नृत्तं नृत्यं च कथ्यते ॥ ७९ ॥
79
अनुष्टुप्
नयश्च नयनं चापि नतं चानतमित्यपि ।ननंदा च ननान्दा च निमेषो निमिषोपि च ॥ ८० ॥
80
अनुष्टुप्
नीलंगुरपि नीलांगुर्नारको नरकस्तथा ।निशीतं निशितं चापि नटनं नाटनं तथा ॥ ८१ ॥
81
अनुष्टुप्
निलयश्चालयश्चापि निकृत्तिर्निकृतिस्तथा ।नारंगमपि नार्यंगं नगरी नगरं तथा ॥ ८२ ॥
82
अनुष्टुप्
निचकी नैचकी च स्यात् निगदश्च निगादवत् ।निरृतिर्नैरृतश्चापि निक्वाणो निक्वणस्तथा ॥ ८३ ॥
83
अनुष्टुप्
नेदिष्ठोऽपि च नेदीयान् निनदश्च निनादवत् ।भवेन्नियंता यन्ता च निहाका निहकापि च ॥ ८४ ॥
84
अनुष्टुप्
नैवेद्यं च निवेद्यं च निकुंजः कुंज एव च ।नडमीनो नलमीनो नारायणनरायणौ ॥ ८५ ॥
85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
नीराजनं तथा नीरा जना च परिकीर्तिता ।प्राग्र्यः प्राग्रसरश्चापि पंगुः पंगूश्च कथ्यते ॥ ८६ ॥
86
अनुष्टुप्
पृश्निश्च पृश्निपर्णी च प्रावृट्प्रावृषया सह ।पशुश्च पर्शुका चापि प्लिहप्लीहागगदेपि च ॥ ८७ ॥
87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुष्यः पौषस्तथा पूर्णं पूरितं च प्रकीर्तितं ।पिष्टं च पिषितं प्रुष्टं प्लुष्टं चापि पविर्भविः ॥ ८८ ॥
88
अनुष्टुप्
प्रायश्च प्रायसा तुल्यः पर्घस्स्यात्त् परिघस्तथा ।पुरश्च पुरतः प्रोक्तं पथः पंथाश्च कथ्यते ॥ ८९ ॥
89
अनुष्टुप्
भवेत्पांसुश्च पांशुश्च प्राणाः प्राणोऽपि स्मृतः ।प्रत्नं प्रतनमप्याहुः प्रज्ञः प्राज्ञश्च गद्यते ॥ ९० ॥
90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रघाणः प्रघणश्चापि पतंगः पतगस्तथा ।प्राचीनं प्राचीरमपि पालाशश्च पलाशवत् ॥ ९१ ॥
91
अनुष्टुप्
प्रियालस्स्यात् प्रियालश्च परेतः प्रेत उच्यते ।पत्रंगमपि पत्राङ्गं परशस्स्पर्श एव च ॥ ९२ ॥
92
अनुष्टुप्
पूरुषः पूरुषश्चापि परशूःपरशुस्तथा ।प्रततिर्व्रतति श्चापि प्रादेशोऽपि प्रदेशवत् ।पिटकः पेटकश्चापि पललं पलमित्यपि ॥ ९३ ॥
93
अनुष्टुप्
पृथुलं पृथु चापि स्यात् प्रग्राहः प्रग्रहोऽपि च ।स्यात्पलाण्डुः पलण्डु श्च प्रचेताश्च प्रचेतसः ॥ ९४ ॥
94
अनुष्टुप्
पल्यंकिका च पल्यंकः प्रक्वाणः प्रक्वणोऽपि च ।प्रियाळू स्स्यात्त प्रियाळुश्च पाटली पाट्ला तथा ॥ ९५ ॥
95
अनुष्टुप्metre not read in every line
पुळिन्दस्स्यात् पुळिन्दोऽपि पृषतः पृषदित्यपि ।प्रत्यूषः प्रत्युषश्चापि परिखा परिघा समे ॥ ९६ ॥
96
अनुष्टुप्
पालना पालनं चापि पांसुला पांशुला तथा ।भवेत्पतत्र पत्रं च पांडित्यं पाण्डिती तथा ॥ ९७ ॥
97
अनुष्टुप्
स्यात्पल्लवः पल्लविकः पुलकश्च पुलो भवेत् ।पोतवाहः पोतवहः पुनर्वसु पुनर्वसु ॥ ९८ ॥
98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
पारङ्गतं पारगत् पतद्ग्राहः पतद्ग्रहः ।पराक्रमो विक्रमश्च प्रतीचीनं प्रतिंचनम् ॥ ९९ ॥
99
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (syllables merged)
पारावतः पारवतः प्रतिश्रायः प्रतिश्रयः ।प्रतिकारः प्रतीकारः पृषदश्वो भवेदपि ॥ १०० ॥
100
अनुष्टुप्
पृषदश्यः पुष्पवन्तौ पुष्पवद्भ्यां समौ स्मृतौ ।परीसृता परिसृता भवेत्पाटच्चरस्तथा ।पाटचारः परीरम्भः १०१ ॥
115
अनुष्टुप्metre not read in every line
परिरम्भो निगद्यते ।भवेत्प्रोष्ठपदाभाद्रपदा परिमळस्तथा ।परीमळः परिवृतः परीवृत अपीरितः ॥ १०२ ॥
102
अनुष्टुप्metre not read in every line
परिहासः परीहासःपारिप्लवपरिप्लवौ ।प्रतिहारः प्रतीहारो भवेत्पारम्परी तथा ॥ १०३ ॥
103
अनुष्टुप्
पारम्पर्यमपि प्रोक्तं,फलं च फलितं मतं ।फेला फेलिरपि प्रोक्ता फुल्लस्सम्फुल्ल इत्यपि ॥ १०४ ॥
104
अनुष्टुप्
भवेत्फालं च भालं च फलितं फालितं तथा ।फेरवश्चापि फेरुश्च फल्गुनः फाल्गुनोऽपि च ॥ १०५ ॥
105
अनुष्टुप्
बुसोपिस्यात् बुषश्चापि बाहुर्बाहाबुको बकः ।बुद्धं बुधितमप्याहुर्ब्रसी चापि ब्रषी तथा ॥ १०६ ॥
106
अनुष्टुप्