All kośas › Dvirūpādikośa
द्विरूपादिकोश Dvirūpādikośa
267 verses · text only, tagging comes next
Part 3 (3/3)
गोशीर्षं गोशिरश्चैव गावं गोशीर्षिकापि च ।चन्द्रमाश्चन्दिरश्चन्द्र-मसश्चन्द्रश्च कीर्तितः ॥ ५ ॥
5
अनुष्टुप्
चन्द्रभागा चान्द्रभागा चन्द्रभागी च सम्मता ।चान्द्रभागी च सैवोक्ता भवेदेवं चतुर्विधम् ॥ ६ ॥
6
अनुष्टुप्
तुन्दी च तुन्दिलश्चापि तुन्दिरस्तुन्दिभस्समाः ।द्रेक्कं द्रेक्काणदृक्काणौ भवेयुस्ते दृकाणवत् ॥ ११ ॥
11
अनुष्टुप्
दूषिकायां दूषिका च दूषीदूषश्च कथ्यते ।द्रामिडो द्रमिडश्चापि द्रविडो द्राविडस्तथा ॥ १२ ॥
12
अनुष्टुप्
पनितं पणितं च स्यात्पनायितपणायिते ।बाह्लीको बाह्लिकश्च स्याद्बाह्लीकमपि बाह्लिकम् ॥ १६ ॥
16
अनुष्टुप्
भावुकं भवुकं चापि भविकं भव्यमित्यपि ।भ्रूकुटिर्भ्रुकुटिश्चापि भ्रुकुटी भ्रकुटिस्तथा ॥ १७ ॥
17
अनुष्टुप्
चतूरूपे — म-य-र-व-श-ष-ह—–यथा — १८. मरुतश्च मरुच्चापि मरुत्वान्मारुतस्तथा ।मकुटं मकुटी च स्यान्मुकुटी मुकुटस्तथा ॥
255
अनुष्टुप्
इति चतूरूपपद्धतिः समाप्ता—–पञ्चरूपपद्धतिःअथ पञ्चरूपपद्धतिः—–कण्डूयनं च कण्डूया कण्डूः कण्डूति कण्डुती ।किसालयं किसलयं किसालं किसलं किसम् ॥ १ ॥
1
अनुष्टुप्metre not read in every line
इति पञ्चरूपपद्धतिस्समाप्ता ।इत्थं सत्कविराजराजिमकुटालङ्कारहीरायित श्रीहीरात्मभवेन नैषधमहाकाव्योज्ज्वलत्कीर्तिना ।उद्वृत्तप्रतिवादिमस्तकतटीविन्यस्तवामाङ्घ्रिणा श्रीहर्षेण कृतं चिरं विजयतां श्रीकोशरत्नं महत् ॥ (कोशश्चायं समाप्तः)
266
शार्दूलविक्रीडितम्two metres in one verse
श्रीहर्षसूरीरितनैकरूपकोशामरद्रुः कविलालनीयः ।जागर्ति यस्यैष मनस्यमुष्यशब्दप्रयोगादिरनर्गळस्स्यात्
267
शार्दूलविक्रीडितम्two metres in one verse